Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 95
________________ १६४ पुरुषतम्-गद्यात्मकसारोद्धारः समादिदेश । ततो हंसक - हिण्डकौ सचिवौ सेनापतयश्च चक्रव्यूहं चक्रुः । सहस्रारे तस्मिश्चक्रे य यथायथं राजानः सैन्याश्च निवेशिताः । ततो जरासन्धस्तस्य चक्रव्यूहस्य सेनापतित्वे कौशलेश्वरं सत्यसन्धमभिषिषेच । तदानीं रविश्चाऽस्तमियाय । यदवोऽपि च चक्रव्यूहं प्रति गरुडव्यूहं चक्रुः । तत्र य यथायथमङ्गेषु प्रत्येकं राजानः सैन्यश्च स्थापिताः । तस्य शिरोभागे राम कृष्णौ स्थितौ । शक्रश्च नेमिं युद्धोद्यतं ज्ञात्वा भ्रातृस्नेहाद् मातलिना सह निजं सहजं रथं प्रेषयामास । नेमिश्च तद्रथमलङ्कृतवान् । ततः समुद्रविजयोऽनाधृष्टि कृष्णाग्रजं सेनापतित्वेऽभिषिषेच । तदानीं च कृष्णसैन्ये जयजयारावो जज्ञे । तेन जरासन्धबले सर्वतः प्रक्षोभोऽभवत् । अथ द्वयोर्व्यूहयोः सैन्यैर्दारुणं युद्धं प्रारेभे । ततः स्वामिभक्तैर्जरासन्धसैन्यैश्चिरं युद्ध्वा गरुडव्यूहाग्रसैनिका अभज्यन्त । ततः कृष्णः करमुत्क्षिपन् सैनिकान् स्थिरीचकार । ततो नेमिरर्जुनोअनाधृष्टिश्च क्रुद्धाः स्वं शङ्खमधमन् । ततश्च सर्वे सैनिकास्तूर्यानताडयन् । तन्नादेन च जरासन्धसैन्या अक्षुभ्यन् । नेम्यादयस्त्रयोऽपि च शरान् वर्षन्तो महान्तं विक्रमं चक्रुः । तेन चक्रव्यूहसंस्थिता राजानो घातमसहिष्णवो दुद्रुवुः तैस्त्रिभिश्च चक्रव्यूहस्त्रिषु स्थानेष्वभञ्जि । ते च त्रयश्चक्रव्यूहं मार्गं विधाय प्रविविशुः । ताननुसरन्तोऽन्ये सैनिकाश्चाऽपि तत्र विविशुः । दुर्योधनादयश्च तान् रुरुधुः । ततस्तेषां मिथो द्वन्द्वयुद्धं प्रावर्त्तेत । तत्र च नेमी रुक्मिणं निरायुधं विरथं च चकार । तद्रक्षणायाऽऽपततः शत्रुन्तपादीन् सप्त नृपांश्च नेमिर्युगपद् बाणवृष्टि विधाय १६५ अष्टमं पर्व सप्तमः सर्गः विचापांश्चक्रे । ततः शत्रुन्तपाश्चिरं युद्ध्वा जाज्वल्यमानां शक्ति चिक्षेप । तया च यदवोऽक्षुभ्यन् । बहवः सैनिकाश्च तच्छक्तिप्रहारेण भुवि पेतुः । ततो मातलि र्बलीन्द्रेण तपसा शत्रुन्तपेन प्राप्तेयं शक्तिर्वज्रेणैव भेद्येत्युक्त्वा नेमिशरे शीघ्रं वज्रं समाक्रमयत् । ततो नेमिस्तं बाणं वज्रबद्धं प्रहृत्य शक्तिं भुवि पातयामास । शत्रुन्तपं च विरथं निरस्त्रं च चकार । तथा नेमिरन्येषामपि षण्णां नृपाणां धनूंषि चिच्छेद । ततो रुक्मी रथान्तरमारुह्य पुनरपि दधाव । एवं च तेऽष्टावपि सम्भूय नेमिना युयुधिरे । ततो नेमिः शस्त्राशस्त्रि युद्ध्वा बाणेन रुक्मिणं भाले जघान । तेन च विह्वलं तं वेणुदारी दूरं निनाय । ततोऽन्येऽपि च सप्त नृपास्ततो द्रुतं दुदुवुः । समुद्रविजयादिभिर्यदुभटैश्चाऽन्येऽपि नृपा भग्नाः सेनापति हिरण्यनाभं शरणं ययुः । इतश्च भीमा-र्जुनौ बलभद्रसुताश्च धार्तराष्ट्रान् दुर्योधनादीन् घना हंसानिव व्यद्रावयन् । अर्जुनमुक्तैः शरैश्च दिगन्तं व्याप्तं गाण्डीवघोषैश्च जगद्बधिरीकृतम् । कोऽपि जनो बाणानाकर्षन्तंमुञ्चन्तं चाऽर्जुनं नाऽलक्ष्यत । ततो दुर्योधनादयः सम्भूय पार्थमधावन्त । सहदेवादयश्च शकुन्यादिभिरयुध्यत । तत्राऽर्जुनो दुर्योधनं बाणवृष्ट्या विरथं विवर्माणं च चकार । कासिप्रमुखानन्यानपि दश भटान् स उपद्रुद्राव । युधिष्ठिरेण च शक्तिप्रहारेण शल्यो हतः । भीमश्च दुर्योधनभ्रातरं जघान । शकुनिं प्रतिक्षिप्तं बाणं च दुर्योधनो मध्य एव स्वबाणेन चिच्छेद । ततः सहदेवो दुर्योधनं मायीत्याक्षिप्य बाणवृष्ट्या छादयामास । ततो दुर्योधनेन सहदेववधाय मुक्तं मन्त्रितं बाणं पार्थः स्वबाणेन निवारयामास । तथा शरैः प्राहरन्तं शकुनिं सहदेवो बाणैविरथं निरस्त्रं च कृत्वा तच्छिरश्चकर्त्त ।

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159