Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 128
________________ २२८ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धार: २२९ सुष्वाप। प्रातश्च नदीं प्राप्य श्रान्ता अश्वास्तस्थुः । कुमारश्च जजागार । रथे च मन्त्रिपुत्रमदृष्ट्वा पयसे गत: स्यात् किमिति वारंवारमाजुहाव । अलब्धोत्तरश्च रथाग्रं रक्ताक्तं दृष्ट्वा हा हतोऽस्मीति विलपन् मूच्छितो रथे पपात । कथञ्चिल्लब्धसंज्ञश्च 'हा ! वरधनो ! क्वाऽसीत्येवं क्रन्दन् रत्नवत्या प्रबोधित:-'भवतः सखा मृत इति न ज्ञायते, त्वत्कार्याय स क्वाऽपि गतो भवेत् । स त्वद्भक्तिप्रभावादेव रक्षितो भविष्यति, स्थाने प्राप्ताः सन्तस्तस्याऽन्वेषणं करिष्यामः, इह वने स्थातुं न युज्यते' । ततः स ब्रह्मदत्तस्तद्वाचाऽश्वान् प्रेरयन् मगधदेशस्य सीमग्रामं प्राप । अथ तत्र ग्रामण्या गृहस्थेन स्ववेश्म नीत्वा पूजितः शोकार्त्त इवाऽसीति पृष्टश्च 'मम सखा चौरेयुध्यमान: क्वाऽपि गत' इति ब्रह्मदत्त उवाच । ततस्तस्य प्रवृत्तिमानेष्ये इति ब्रह्मदत्तमुक्त्वा स ग्रामणी: सर्वां तां महाटवीमाटत् । तत एत्य चोवाच-'वने कोऽपि न दृष्टः, किन्तु प्रहारपतित एष शरो मया प्राप्तः' । ततो हतो वरधनुर्नूनमिति चिन्तयतस्तस्य निशा सजाता । चतुर्थे यामे च समापतिताश्चौराः कुमारेण भग्नाः । ततो ग्रामण्याऽनुसृतः स बहिस्तापसाश्रमे रत्नवती मुक्त्वा राजगृहं ययौ । ____ अथ तत्र पुरे प्रविशन् हर्म्यवातायने साक्षाद् रति-प्रीती इव नवयौवने द्वे कन्ये ऐक्षिष्ट । ततस्ताभ्यां 'प्रीतिभाजं जनं त्यक्त्वा यत् तदा गतवांस्तदुचितं किमि'त्युक्तः कुमार उवाच-'क: प्रेमभाग् जनः, स कदा मया त्यक्तः, कोऽहं, के युवाम्' । प्रसीद, एहि, इह विश्रम्य नाथेत्येवं ताभ्यां पुनरुक्तश्च स ब्रह्मदत्तस्तयो गृहे मनसीव प्रविवेश । कृतस्नानाऽशनाय ब्रह्मदत्ताय तिष्ठमाने ते स्वां कथां कथयामासतुः । नवमं पर्व - प्रथम: सर्गः 'वैताढ्ये दक्षिणश्रेण्यां शिवमन्दिरपुरे ज्वलनशिखनृपस्य विद्युच्छिखाकुक्षिजाः नाट्योन्मत्ताभिधः पुत्रः, आवां खण्डा विशाखा पुत्र्यौ च स्मः । मम पिता चैकदा प्रासादे मित्रेणाऽग्निशिखेनाऽऽलपन्नष्टापदगिरि गच्छतो देवानैक्षत । ततः स तीर्थयात्रार्थभावाभ्यां मित्रेणाऽग्निशिखेन च सह चलितः । अष्टापदं प्राप्य च वयमहत्प्रतिमा दृष्ट्वा पूजा-वन्दनादिकं विधाय प्रासादाद् निर्गता रक्ताशोकवृक्षतले चारणश्रमणौ दृष्ट्वा नत्वाऽग्रे उपविश्य धर्मदेशनामशृण्म । कः कन्ययोरनयोः पतिरित्यग्निशिखेन पृष्टौ च तौ-'योऽनयोतृहन्ता स वर' इत्युक्तवन्तौ । पिता च मम तच्छ्रुत्वा म्लानमुखो जातः । आवामपि विरज्याऽवोचाव'संसारासारतासमर्थिका धर्मदेशना श्रुतैव, तात ! तद्विषादेनाऽलम्, आवयोविषयसुखैरेवंविधैरलम्' । तत्प्रभृत्येवाऽऽवां निजभ्रातरं त्रातुं प्रवृत्ते । अन्यदा च मम भ्राताऽटन् तव मातुलस्य पुष्पचूलस्य कन्यां पुष्पवतीं दृष्ट्वा तद्रूप-लावण्यहृतमनास्तां हत्वा तस्या दृष्टिमसहिष्णुविद्या साधयितुं ययौ । तदनन्तरं वृत्तं त्वं जानास्येव । तदा च पुष्पवत्यावयो(तुर्वधमाख्यत्, धर्मवचनैः शोकमनुदच्च । तथा युवयोरभिगम्योऽयमागतो ब्रह्मदत्तो वां भर्ताऽस्तु, मुनेगिरस्तथ्या भवन्त्वि'ति चाऽख्यत् । आवाभ्यां च तत् स्वीकृतं, रभसा च तया श्वेता पताकाऽचालि । येन भवानावां त्यक्त्वाऽन्यत्र गतः । भाग्यनैर्गुण्यात् सर्वत्र भ्रान्त्वाऽपि त्वं नेक्षित इति निविण्णे आवामिहाऽऽगते । पुण्यैश्च त्वमिहाऽऽयातोऽसि, पुरा पुष्पवतीवचसाऽऽवाभ्यां त्वं वृतोऽसि, तदावां वरय, त्वमेवैक आवयोर्गतिः । ततः कुमारो गान्धर्वेण विवाहेन ते अप्युपायत । ताभ्यां रममाणश्च स तत्र तां

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159