Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 126
________________ २२४ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः शबरसेनो नाम नृपोऽभूत्, तत्पुत्रो मम पिता राज्ये स्थितः क्रूरै!त्रिभिः पराभूत इमां पल्लीमशिश्रियत् । अत्र च भिल्लान् वशे कृत्वा ग्रामघातादिना स्वं कुटुम्ब पुष्णाति । तस्य चतुर्णां पुत्राणामुपर्यहं सुताऽत्यन्तं प्रिया । स च मां प्राप्तयौवनां दृष्ट्वोवाच-'सर्वे नृपा मे द्वेषिणः, तत्त्वयेह स्थितया मतो वरो मे कथनीयः । तत्प्रभृति सरस्तीरे चक्रवाकीव स्थिताऽहं सर्वान् पान्थान् पश्यामि, त्वं च स्वप्नेऽप्यत्यन्तदुर्लभो मद्भाग्यादिह समागतोऽसि' । एकदा च स पल्लीपतिग्रामघातकृते कुमारेण सह ययौ । ग्रामे लुट्यमाने च सरस्तीरे वरधनुरेत्य कुमारस्य पादयोः पपात । कुमारकण्ठमालम्ब्य च स मुक्तकण्ठं रुरोद । तत आश्वास्य कुमारेण पृष्टः स मन्त्रिपुत्र: स्वं वृत्तान्तमुवाच-'तदा त्वं वटतले मुक्त्वा जलार्थं गतोऽग्रे महासरो दृष्ट्वा नलिनीपत्रपुटेन तुभ्यं जलं गृहीतवान् । तदा यमदूतैरिव भटैः समागत्य रुद्धो ब्रह्मदत्त: क्वेति पृष्टो न वेद्मीत्यवोचम् । ततस्तैस्तस्करैरिव ताड्यमानोऽहं ब्रह्मदत्तो व्याघ्रण भक्षित इत्यवदम् । ततस्तैस्तं देशं दर्शयेत्युक्तश्छलेनेतस्ततो भ्रमन् त्वदृष्टिपथे समागत्य पलायनसंज्ञामकार्षम् । गुप्तां गुटिकां च मुखे क्षिप्तवानहं तत्प्रभावेण नि:संज्ञो मृत इति ज्ञात्वा तैस्त्यक्तः । तेषु गतेषु च गुटिकां मुखादाकृष्य त्वां नष्टधनमिवाऽन्वेष्टुं भ्रमन् कमपि ग्रामं गतस्तपोराशि परिव्राजकं दृष्ट्वा तमनमम् । ततः स मामवदत्-'वरधनो ! धनोरहं मित्रमस्मि वसुभागो नाम ब्रह्मदत्तः क्वाऽस्ति, ततो मयाऽप्यस्य सर्वो वृत्तान्तो निवेदितः । ततो म्लानमुखः स पुनरुवाच-तदा लाक्षागृहे दग्धे दीर्घः प्रातरेकमेव दग्धं कर सुरङ्गां तदन्तेऽश्वपदानि च दृष्ट्वा धनोर्बुड्याऽऽवां प्रणष्टाविति ज्ञात्वा तस्मै चुकोप । युवां बद्ध्वा समानेतुं च प्रतिदिशं नवमं पर्व - प्रथमः सर्गः महान्ति सैन्यानि प्रेषयामास । धनुर्मन्त्री च पलायितवान् । किन्तु तव माता दीर्घेण नरके इव मातङ्गपाटके क्षिप्ता । अनया वार्तया च नितान्तं दुःखितः कम्पील्ये गतवानहं मातङ्गपाटके छद्मकापालिकीभूय चर इव गृहं गृहं प्रविशन् लोकेन भ्रमणकारणं पृच्छयमानश्च मातङ्गया विद्याया एव कल्प इत्यवोचम् । तत्रैवं भ्राम्यता मया तदारक्षकस्य मैत्री जाता । ___ एकदा च तन्मुखेन त्वन्मातरमवोचम्-'असौ त्वत्पुत्रमित्रं कौण्डिन्यस्तवाऽभिवादनं करोति' । द्वितीयदिने च स्वयं गत्वा त्वन्मातुर्बीजपूरकं सगुटिकमदां, येन भक्षितेन सा नि:संज्ञा जाता । पुराध्यक्षश्च तां मृतेति नृपाय व्यजिज्ञपत् । राज्ञा च तस्याः संस्कारार्थ पुरुषा आदिष्टास्तत्राऽऽयाता मयोक्ता: 'अत्र क्षणेऽस्याः संस्कारश्चेद् युष्माकं राज्ञश्च महाननर्थो भवेत्, तत्स्वगृहं यात । आरक्षकं चाऽहमवोच-'त्वं सहायश्चेत् तदाऽस्याः शवेनैकं मन्त्रं साधयामि । तत्प्रपन्नेनाऽऽरक्षेण सहितस्त्वज्जननीमादाय दूरं स्मशानमगाम् । तत्र मायया स्थण्डिले मण्डलादिनी विधाय पुरदेवीनां बलिं दातुमारक्षस्तत: प्रेषितः । तस्मिन् गते चाऽहं त्वन्मातुरपरां गुटिकामदाम् । ततः सा जातचेतनोदस्थात् । स्वं ज्ञापयित्वा रुदतीं तां निवार्य कच्छग्रामे पितुर्मित्रस्य देवशर्मणो गृहे तामनयम् । इतस्ततो भ्रमंश्च त्वामन्विष्यनिहाऽऽगतो दिष्ट्या दृष्टवानस्मि' । ततस्तेन पृष्टः कुमारोऽपि स्वं सर्वं वृत्तान्तं कथयामास । अथ तदानीमेव कोऽप्युपेत्य तावुवाच-'ग्रामे दीर्घभटा युष्मत्तुल्यरूपं पदं दर्शयन्त ईदृङ्नरौ किमायातावत्रेति वदन्ति' । तदाकर्ण्य मयाऽत्रैत्य युवां दृष्टौ, यदुचितं तत् कुरुतम्' । ततस्तस्मिन् गते ती वनमध्येन पलायमानौ कौशाम्बी पुरीं प्रापतुः । तत्र श्रेष्ठिन:

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159