Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 127
________________ २२६ २२७ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सागरदत्तस्य बुद्धिलस्य चोद्याने लक्षपणं कुक्कुटाहवमपश्यताम् । विविधं युद्धमानयोः कुक्कुटयोश्च सागरदत्तकुक्कुटं बुद्धिलकुक्कुटोऽभाङ्क्षीत् । __ ततो वरधनुराह-'सागर ! कथं ते जात्यमपि कुक्कुटं बुद्धिलकुक्कुटोऽभाङ्क्षीत्, तद्यदि मन्यसे तदेनं पश्यामि' । ततः सागरानुज्ञया स पश्यन् बुद्धिलकुक्कुटं पादयोरय:सूचीमयं ददर्श । बुद्धिलश्च तल्लक्षयन् तस्मै छन्नं लक्षार्धं दत्तवान् । स च तं वृत्तान्तं कुमारस्याऽवोचत् । ततो ब्रह्मदत्तोऽय:सूची: कृष्ट्वा भूयोऽपि बुद्धिलकुकुटं सागरकुक्कुटेनाऽयोधयत् । ततश्च सागरकुक्कुटेन बुद्धिलकुकुटः क्षणादेव भग्नः । ततो दृष्टः सागरदत्तस्तौ स्वरथे आरोप्य निजं गृहं निनाय । निजगृहे इव तद्गृहे निवसतोस्तयोर्बुद्धिलकिङ्कर एत्य वरधनोः किमप्याख्यत् । तस्मिन् गते च वरधनुः कुमारं जगाद'बुद्धिलेनाऽद्य मम लक्षार्धं दित्सितं तदेतं हारं पश्य' । ब्रह्मदत्तश्च हारे बद्धं स्वनामाईं दृष्ट्वान् । तदानीमेव च तत्र वत्साख्या तापसी समागात् । सा च तयोः शिरसि साशिषमक्षतान् क्षिप्त्वा वरधनो रहसि किमप्याख्याय ययौ । ततो वरधनुः कुमारं प्राह-'इयं हारबद्धलेखस्य प्रतिलेखं याचते । को ब्रह्मदत्त इति मया पृष्टा साऽवोचत्-'इह नगरे श्रेष्ठिसुता रत्नवती निसर्गसुन्दरी तद्दिने कुक्कुटयुद्धे इमं ब्रह्मदत्तमपश्यत् । तत: प्रभृति कामार्ता सा 'शरणं मे ब्रह्मदत्त' इत्यनिशं ब्रुवाणा ताम्यति । सा चाऽन्येधुः स्वयं लेखं लिखित्वा हारेण सह ब्रह्मदत्तस्येदमर्ग्यतामिति मामुवाच । स लेखो मया दासहस्तेन नवमं पर्व - प्रथमः सर्गः प्रेषित इत्युक्त्वा सा स्थिता मयाऽपि ते प्रतिलेखं दत्त्वा व्यसृज्यत' । ततः कुमारोऽपि कामातः क्षणमपि सुखं न स्थितः । अन्येधुश्च कौशाम्बीनृपस्य दीर्पण प्रेषिता नरास्तौ तत्राऽन्वेष्टुं समाययुः । नृपादेशेन कौशाम्ब्यां तयोरन्वेषणे प्रवृत्ते सागरो भूगृहे तौ क्षिप्त्वा निधानवद् जुगोप । तौ जिगमिषन्तौ च रात्रौ रथमारोप्य सागरः कियन्तमपि पन्थानं नीत्वा ववले । तौ गच्छन्तौ चाऽग्रे उद्याने कन्यकामपश्यताम् । किमेतावती वेला युवयोर्जातेति तया सादरं पृष्टौ च तावूचतुः-'कावावामिति कथं वेत्सि' । ____ततः सोवाच-अस्यां पुर्यां महाधनो धनप्रभवः श्रेष्ठ्यासीत् । तस्य च श्रेष्ठिनोऽष्टानां पुत्राणामुपर्यहं विवेकश्रीरभवम् । प्राप्तयौवना चाऽस्मिन्नुद्यानेऽत्युत्तमवरप्राप्त्यर्थं यक्षमाराधयम् । तुष्टश्च यक्षो ब्रह्मदत्तश्चक्री ते वरो भविष्यतीति वरं ददौ । सागरबुद्धिलक्कुक्कुटयुद्धं यं पश्यसि, स श्रीवत्सलाञ्छन: सखितुल्यरूपो वरो भवत्योपलक्षणीयः । मदायतनवर्तिन्यास्तव ब्रह्मदत्तेन सङ्गमो भविष्यति तेन त्वां जानामि । तदेहि, कामाता मां रक्ष ।' ततस्तथेति प्रतिपद्य स कुमारो रथं स्थगयित्वा व गन्तव्यमिति पृष्टवान् । सोवाच-'मगधपुरे मत्पितृव्यो धनावहः श्रेष्ठ्यस्ति, स आवयोर्महती प्रतिपत्ति दास्यति, तत्रैव गन्तव्यम् । ततो रत्नवतीवाचा कुमारो मन्त्रिपुत्रेण सह कौशाम्बीदेशमुल्लङ्घ्य भीमां महाटवीं प्राप । ___ अथ तत्र सुकण्टक-कण्टको चौरयूथपती ब्रह्मदत्तं रुरुधतुः । कुमारोऽपि च धनुरादाय तौ प्रजहार । ततस्तौ ससैन्यौ प्रणेशतुः । ततो मन्त्रिपुत्रः कुमारमुवाच-'स्वामिन् ! श्रान्तोऽसि, तदिहैव रथे मुहूर्त स्वपिहि' । ततो ब्रह्मदत्तोऽपि रत्नवत्या सह रथ एव

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159