Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 130
________________ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः ऽत्यन्तवैराग्यात् पूर्णाव्रतिन्याः पार्श्वे व्रतमाददे, निवृत्तिमाप च । दीर्घराजस्याऽग्रसैन्यानि च ब्रह्मदत्ताग्रसैन्यैर्हतानि । ततो दीर्घो - ऽमर्षाद् विवर्णमुखो धावित्वा योद्धुं प्रावृतत् । ब्रह्मदत्तश्च सैन्ये भग्ने क्रुद्धः स्वयं दीर्घेण दन्तिना दन्तीव युयुधे । तयोर्दारुणे युद्धे प्रवृत्ते च ब्रह्मदत्तस्य जगज्जैत्रं चक्रं प्रादुरभूत् । तेन च ब्रह्मदत्त आश्वेव दीर्घस्याऽसूनपाहरत् । तदानीं च देवा जयतादेष भाषमाणा ब्रह्मदत्तस्योपरि पुष्पवृष्टि चक्रुः । पौरैः सादरं वीक्षितश्चेन्द्रोऽमरावतीमिव काम्पील्यनगरं प्रविवेश । पूर्वं परिणीताश्च पत्नीः स सर्वत आनाययत् । कुरुमतीं च स्त्रीरत्नं प्रत्यतिष्ठिपत् । २३२ अन्यदा स चक्री भरतक्षेत्रप्रसाधनाय ससैन्योऽनुचक्रं चचाल । पुरा हि वृषभेणाऽर्हता नवनवतेः पुत्राणां दत्ता देशास्तन्नामभिश्चाsऽख्याताः प्राच्यां प्रगम-मस्तकादयो, दक्षिणस्यां बाणमुक्तादयः, प्रतीच्यां दुर्गादय, उत्तरस्यां कुरु - जाङ्गलादयस्त्रिपुरादयो विन्ध्यपृष्ठगा वत्सादयो मध्यदेशाश्च तेन साधिताः । तथा स मागधाधीशं वरदामेशं प्रभासं कृतमालमन्यानपि च यथाक्रमं साधयामास । तदेवमेतान् देशान् साधयित्वा षट्खण्डपृथिवीपतिः स चक्री ब्रह्मदत्तो वलित्वा महता सैन्येन काम्पील्यं निजपुरं प्राप । तूर्यध्वनिपूर्वकं च पुरं प्राविशत् राजभिश्च सर्वतोऽप्येत्य तस्य भरतस्येव द्वादशवार्षिकश्चक्रित्वाभिषेकः प्रारेभे । ats at als अथ पुरा भ्राम्यत एकाकिनस्तस्य ब्रह्मदत्तस्य कोऽपि द्विजः सहायोऽभूत् । स च 'प्राप्तराज्यं मां श्रुत्वा शीघ्रं समागच्छेति ब्रह्मदत्तेन सङ्केतितस्तदानीं तत्राऽऽययौ । किन्तु राज्याभिषेकप्रसङ्गे प्रवेशमनाप्नुवन् स द्वारस्थित एव महीपतिं सेवितुं प्रारेभे । नृपश्च २३३ नवमं पर्व प्रथमः सर्गः राज्याभिषेकान्ते बहिर्निरगमत् । स द्विजश्च स्वं ज्ञापयितुं जीर्णोपानद्ध्वजं चकार । नृपश्च तं ध्वजं दृष्ट्वा वेत्रिणमपृच्छत् । वेत्रिणा 'द्वादशवर्षाण्यस्य सेवां कुर्वतोऽस्य व्यतीतानी'ति ज्ञात्वा च नृपस्तमाहूय किमेतदिति पप्रच्छ । ततः स द्विज उवाच- 'भवता सार्धं भ्राम्यतो मे उपानह इयत्यो घृष्टास्तथाऽपि तव कृपा नाऽऽप्ता' । ततस्तं प्रत्यभिज्ञाय हसित्वा च तं द्वारपालैरप्रतिषिद्धं चकार । ततः सभामधिष्ठितो नृपस्तमाहूयाऽवोचत् - 'विप्र ! तुभ्यं किं दीयताम् । ततः स विप्र उवाच - 'स्वनिकेतनादारभ्य भरते सर्वत्र भोजनं दक्षिणायां दीनारं च दापय । ततो नृपो विचार्य तस्य वसुदीनारं स्वगृहे भोजनं च ददौ । द्विजश्च नृपादेशाद् भरते सर्वत्र भोक्तुमारभत । अन्यदा भुक्त्वा नृपगृहे इति ध्यायन् स नृपश्चिरेणाऽपि नृपभोजनमप्राप्यैव मृतः । अन्यदा च नाट्यसङ्गीतप्रसङ्गे नृपस्य दास्या पुष्पगेन्दुकः समर्पितः । ब्रह्मदत्तश्च तद् दृष्ट्वा मया पृष्ट पूर्वोऽयं कुत्राऽपीति मनसि तर्कयामास । तदानीं च प्राक् पञ्चजन्मस्मरणे जाते तत्कालमेव मूर्च्छा प्राप्य सौधर्मे ईदृक्षं पुष्पगेन्दुकं दृष्ट्वानित्यबुध्यत । ततः शीतोपचारैः स्वस्थीभूतः स कथं मे पूर्वजन्मसहोदरो मिलिष्यती 'ति चिन्तयंस्तं ज्ञातुकामः श्लोकार्धसमस्यामार्पयत्'आस्व दासौ मृगौ हंसौ मातङ्गावमरौ तथा' तथा 'य इमामर्धश्लोक समस्यां पूरयिष्यति तस्मै राज्यार्धं दास्यामी'ति घोषणांच पुरेऽकारयत् । ततः सर्वोऽपि जनस्तं श्लोकार्धमपाठीत् । न च कश्चन तस्य पश्चार्धं पूरयामास ।

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159