________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
ऽत्यन्तवैराग्यात् पूर्णाव्रतिन्याः पार्श्वे व्रतमाददे, निवृत्तिमाप च । दीर्घराजस्याऽग्रसैन्यानि च ब्रह्मदत्ताग्रसैन्यैर्हतानि । ततो दीर्घो - ऽमर्षाद् विवर्णमुखो धावित्वा योद्धुं प्रावृतत् । ब्रह्मदत्तश्च सैन्ये भग्ने क्रुद्धः स्वयं दीर्घेण दन्तिना दन्तीव युयुधे । तयोर्दारुणे युद्धे प्रवृत्ते च ब्रह्मदत्तस्य जगज्जैत्रं चक्रं प्रादुरभूत् । तेन च ब्रह्मदत्त आश्वेव दीर्घस्याऽसूनपाहरत् । तदानीं च देवा जयतादेष भाषमाणा ब्रह्मदत्तस्योपरि पुष्पवृष्टि चक्रुः । पौरैः सादरं वीक्षितश्चेन्द्रोऽमरावतीमिव काम्पील्यनगरं प्रविवेश । पूर्वं परिणीताश्च पत्नीः स सर्वत आनाययत् । कुरुमतीं च स्त्रीरत्नं प्रत्यतिष्ठिपत् ।
२३२
अन्यदा स चक्री भरतक्षेत्रप्रसाधनाय ससैन्योऽनुचक्रं चचाल । पुरा हि वृषभेणाऽर्हता नवनवतेः पुत्राणां दत्ता देशास्तन्नामभिश्चाsऽख्याताः प्राच्यां प्रगम-मस्तकादयो, दक्षिणस्यां बाणमुक्तादयः, प्रतीच्यां दुर्गादय, उत्तरस्यां कुरु - जाङ्गलादयस्त्रिपुरादयो विन्ध्यपृष्ठगा वत्सादयो मध्यदेशाश्च तेन साधिताः । तथा स मागधाधीशं वरदामेशं प्रभासं कृतमालमन्यानपि च यथाक्रमं साधयामास । तदेवमेतान् देशान् साधयित्वा षट्खण्डपृथिवीपतिः स चक्री ब्रह्मदत्तो वलित्वा महता सैन्येन काम्पील्यं निजपुरं प्राप । तूर्यध्वनिपूर्वकं च पुरं प्राविशत् राजभिश्च सर्वतोऽप्येत्य तस्य भरतस्येव द्वादशवार्षिकश्चक्रित्वाभिषेकः प्रारेभे ।
ats at als
अथ पुरा भ्राम्यत एकाकिनस्तस्य ब्रह्मदत्तस्य कोऽपि द्विजः सहायोऽभूत् । स च 'प्राप्तराज्यं मां श्रुत्वा शीघ्रं समागच्छेति ब्रह्मदत्तेन सङ्केतितस्तदानीं तत्राऽऽययौ । किन्तु राज्याभिषेकप्रसङ्गे प्रवेशमनाप्नुवन् स द्वारस्थित एव महीपतिं सेवितुं प्रारेभे । नृपश्च
२३३
नवमं पर्व प्रथमः सर्गः राज्याभिषेकान्ते बहिर्निरगमत् । स द्विजश्च स्वं ज्ञापयितुं जीर्णोपानद्ध्वजं चकार । नृपश्च तं ध्वजं दृष्ट्वा वेत्रिणमपृच्छत् । वेत्रिणा 'द्वादशवर्षाण्यस्य सेवां कुर्वतोऽस्य व्यतीतानी'ति ज्ञात्वा च नृपस्तमाहूय किमेतदिति पप्रच्छ ।
ततः स द्विज उवाच- 'भवता सार्धं भ्राम्यतो मे उपानह इयत्यो घृष्टास्तथाऽपि तव कृपा नाऽऽप्ता' । ततस्तं प्रत्यभिज्ञाय हसित्वा च तं द्वारपालैरप्रतिषिद्धं चकार । ततः सभामधिष्ठितो नृपस्तमाहूयाऽवोचत् - 'विप्र ! तुभ्यं किं दीयताम् । ततः स विप्र उवाच - 'स्वनिकेतनादारभ्य भरते सर्वत्र भोजनं दक्षिणायां दीनारं च दापय । ततो नृपो विचार्य तस्य वसुदीनारं स्वगृहे भोजनं च ददौ । द्विजश्च नृपादेशाद् भरते सर्वत्र भोक्तुमारभत । अन्यदा भुक्त्वा नृपगृहे इति ध्यायन् स नृपश्चिरेणाऽपि नृपभोजनमप्राप्यैव मृतः ।
अन्यदा च नाट्यसङ्गीतप्रसङ्गे नृपस्य दास्या पुष्पगेन्दुकः समर्पितः । ब्रह्मदत्तश्च तद् दृष्ट्वा मया पृष्ट पूर्वोऽयं कुत्राऽपीति मनसि तर्कयामास । तदानीं च प्राक् पञ्चजन्मस्मरणे जाते तत्कालमेव मूर्च्छा प्राप्य सौधर्मे ईदृक्षं पुष्पगेन्दुकं दृष्ट्वानित्यबुध्यत । ततः शीतोपचारैः स्वस्थीभूतः स कथं मे पूर्वजन्मसहोदरो मिलिष्यती 'ति चिन्तयंस्तं ज्ञातुकामः श्लोकार्धसमस्यामार्पयत्'आस्व दासौ मृगौ हंसौ मातङ्गावमरौ तथा' तथा 'य इमामर्धश्लोक समस्यां पूरयिष्यति तस्मै राज्यार्धं दास्यामी'ति घोषणांच पुरेऽकारयत् । ततः सर्वोऽपि जनस्तं श्लोकार्धमपाठीत् । न च कश्चन तस्य पश्चार्धं पूरयामास ।