________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
निशामतिवाहयामास । प्रातश्च यावद् मे राज्यलाभः स्यात् तावद् युवाभ्यां पुष्पवत्याः समीपे स्थातव्यमित्युक्त्वा ते व्यसृजत् । ते च तथेति स्वीकृतवत्यौ । स लोकस्तन्मन्दिरं च सर्वं गन्धर्वनगरमिव तिरोदधे ।
२३०
अथ ब्रह्मदत्त आश्रमे रत्नवतीमन्वेष्टुं गतोऽपश्यंश्च तत्रस्थं सौम्यमेकं जनं किमतीतदिने दिव्यवस्त्राभूषणा काऽपि नारी त्वया दृष्टे'ति पप्रच्छ । तत: स उवाच- 'ह्यो मया नाथ नाथेति रुदती कन्या दृष्टोपलक्ष्य तत्पितृव्यायाऽर्पिता, किं त्वं तद्वरोऽसि । ब्रह्मदत्तेन तथेत्युक्तश्च स कुमारं तत्पितृव्यगृहमनयत् । रत्नवत्याः पितृव्योऽपि च ब्रह्मदत्तं समहोत्सवं रत्नवत्या पर्यणाययत् ।
अथ तया विषयसुखमनुभवन् सोऽन्यदा वरधनोर्मृतकार्याणि प्रचक्रमे । तदा विप्रेषु भुञ्जानेषु च वरधनुर्विप्रवेषस्तत्राऽऽगत्याऽब्रवीत्- 'मम चेद् भोजनं दत्थ तत्साक्षाद् वरधनोरेव', ब्रह्मदत्तश्च तच्छ्रुत्वा तं दृष्ट्वा हर्षादालिङ्ग्याऽन्तर्गृहं निनाय । कुमारेण पृष्टश्च वरधनुः स्वं सर्वं वृत्तमुवाच- 'तदा त्वयि सुप्ते चौरैर्दीर्घभटैर्निरुद्धोऽहं वृक्षान्तरस्थितेनैकेन दस्युना बाणेन हतः पतितो लतान्तरेऽन्तर्हितवान् । तेषु चौरेषु गतेषु च क्रमेण ग्राममाप्य ग्रामेशाद् भवद्वृत्तं विज्ञायेहाऽऽगतो दिष्ट्या भवन्तमपश्यम्' ।
अथ ब्रह्मदत्तस्तमुवाच-‘अस्माभिर्विना पुरुषकारेण क्लीबेनेव कियच्चिरमिह स्थास्यते । अत्राऽन्तरे एव च तत्र वसन्तर्तुः प्रादुरभवत् । तत्र मधूत्सवे प्रवृत्ते आलानमुन्मूल्य मत्तेभो निर्गतः काञ्चित् कन्यां नितम्बिनीं करेणाऽऽचकर्ष । तस्यां क्रन्दन्त्यां रणार्थिन्यां च महान् हाहारवो जज्ञे । ततः कुमारेण भत्सितः स
नवमं पर्व प्रथमः सर्गः
२३१
गजस्तां विमुच्य तमभ्यागच्छन् कुमारेणोत्प्लुत्य दन्ते पादं न्यस्याऽधिष्ठितोऽङ्कुशादिप्रयोगेण वशीकृतः । नराश्च तदानीं जयजयारावं चक्रुः । कुमारश्च नीत्वा तं गजं स्तम्भे बबन्ध ।
नृपश्च तत्राऽऽगतस्तत्पराक्रमं दृष्ट्वा विस्मितः 'कोऽयं, कुत आगत, इति रत्नवतीपितृव्यं पप्रच्छ । स च सर्वं कथयामास । ततो नृपः प्रसन्नः समहोत्सवं ब्रह्मदत्ताय कन्या अदात् । स च ताः परिणीय तत्र सुखं तिष्ठन् कयाचिद् वृद्धयैत्यांऽशुकाञ्चलं भ्रमयित्वोचेइहाऽऽढ्यस्य वैश्रवणस्य श्रीरिव श्रीमती नाम सुताऽस्ति, या भवता गजाद् मोचिता । सा च ततः प्रभृति त्वामेव कामयमाना ताम्यति, तस्याः पाणि गृहीत्वा तामनुहाण' । ततः कुमारः समहोत्सवं तां परिणिनाय । वरधनुश्च सुबुद्धिमन्त्रिणा दत्तां नन्दां नाम कन्यां परिणिनाय । तत्र तिष्ठन्तौ च तौ शक्तित: पृथिव्यां पप्रथाते ।
अथ तौ वाराणसीशकटकं प्रत्यभिजग्मतुः । वाराणसीशश्च ब्रह्मदत्तमागतं श्रुत्वा सगौरवमभ्येत्य स्वगृहं नीत्वा कटकवतीं नाम स्वपुत्र चतुरङ्गसैन्यं च ददौ । तदानीं च तत्र चम्पेशः करेणुदत्तो धनुर्मन्त्री भगदत्तादयोऽन्ये नृपाश्चाऽप्येयुः । ततो ब्रह्मदत्तो वरधनुं सेनान्यं कृत्वा दीर्घं निग्रहीतुं प्रतस्थे । ततो दीर्घस्य दूत एत्य कटकराजमुवाच- 'दीर्घेण मैत्री त्यक्तुं न युज्यते' । ततः कटक उवाच-'पुरा ब्रह्मणा सहिताः पञ्चाऽपि वयं सुहृदो जाताः । दीर्घश्च रक्षितुमर्पितं तद् राज्यं स्वयमधिकृतवान् । ब्रह्मदत्तविषये च तदाचारः श्वपचेनाऽप्यकृतपूर्वी । तद्दीर्घो नश्यतु वा युध्यतां वा, ब्रह्मदत्तोऽसावभ्येति' । ततो ब्रह्मदत्तोऽनवरतैः प्रयाणैः काम्पील्यं प्राप । दीर्घोऽपि सर्वाभिसारेण नगराद् निर्जगाम । चुलनी च तदा