________________
२२८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धार:
२२९
सुष्वाप। प्रातश्च नदीं प्राप्य श्रान्ता अश्वास्तस्थुः । कुमारश्च जजागार । रथे च मन्त्रिपुत्रमदृष्ट्वा पयसे गत: स्यात् किमिति वारंवारमाजुहाव ।
अलब्धोत्तरश्च रथाग्रं रक्ताक्तं दृष्ट्वा हा हतोऽस्मीति विलपन् मूच्छितो रथे पपात । कथञ्चिल्लब्धसंज्ञश्च 'हा ! वरधनो ! क्वाऽसीत्येवं क्रन्दन् रत्नवत्या प्रबोधित:-'भवतः सखा मृत इति न ज्ञायते, त्वत्कार्याय स क्वाऽपि गतो भवेत् । स त्वद्भक्तिप्रभावादेव रक्षितो भविष्यति, स्थाने प्राप्ताः सन्तस्तस्याऽन्वेषणं करिष्यामः, इह वने स्थातुं न युज्यते' । ततः स ब्रह्मदत्तस्तद्वाचाऽश्वान् प्रेरयन् मगधदेशस्य सीमग्रामं प्राप ।
अथ तत्र ग्रामण्या गृहस्थेन स्ववेश्म नीत्वा पूजितः शोकार्त्त इवाऽसीति पृष्टश्च 'मम सखा चौरेयुध्यमान: क्वाऽपि गत' इति ब्रह्मदत्त उवाच । ततस्तस्य प्रवृत्तिमानेष्ये इति ब्रह्मदत्तमुक्त्वा स ग्रामणी: सर्वां तां महाटवीमाटत् । तत एत्य चोवाच-'वने कोऽपि न दृष्टः, किन्तु प्रहारपतित एष शरो मया प्राप्तः' । ततो हतो वरधनुर्नूनमिति चिन्तयतस्तस्य निशा सजाता । चतुर्थे यामे च समापतिताश्चौराः कुमारेण भग्नाः । ततो ग्रामण्याऽनुसृतः स बहिस्तापसाश्रमे रत्नवती मुक्त्वा राजगृहं ययौ । ____ अथ तत्र पुरे प्रविशन् हर्म्यवातायने साक्षाद् रति-प्रीती इव नवयौवने द्वे कन्ये ऐक्षिष्ट । ततस्ताभ्यां 'प्रीतिभाजं जनं त्यक्त्वा यत् तदा गतवांस्तदुचितं किमि'त्युक्तः कुमार उवाच-'क: प्रेमभाग् जनः, स कदा मया त्यक्तः, कोऽहं, के युवाम्' । प्रसीद, एहि, इह विश्रम्य नाथेत्येवं ताभ्यां पुनरुक्तश्च स ब्रह्मदत्तस्तयो गृहे मनसीव प्रविवेश । कृतस्नानाऽशनाय ब्रह्मदत्ताय तिष्ठमाने ते स्वां कथां कथयामासतुः ।
नवमं पर्व - प्रथम: सर्गः
'वैताढ्ये दक्षिणश्रेण्यां शिवमन्दिरपुरे ज्वलनशिखनृपस्य विद्युच्छिखाकुक्षिजाः नाट्योन्मत्ताभिधः पुत्रः, आवां खण्डा विशाखा पुत्र्यौ च स्मः । मम पिता चैकदा प्रासादे मित्रेणाऽग्निशिखेनाऽऽलपन्नष्टापदगिरि गच्छतो देवानैक्षत । ततः स तीर्थयात्रार्थभावाभ्यां मित्रेणाऽग्निशिखेन च सह चलितः । अष्टापदं प्राप्य च वयमहत्प्रतिमा दृष्ट्वा पूजा-वन्दनादिकं विधाय प्रासादाद् निर्गता रक्ताशोकवृक्षतले चारणश्रमणौ दृष्ट्वा नत्वाऽग्रे उपविश्य धर्मदेशनामशृण्म । कः कन्ययोरनयोः पतिरित्यग्निशिखेन पृष्टौ च तौ-'योऽनयोतृहन्ता स वर' इत्युक्तवन्तौ । पिता च मम तच्छ्रुत्वा म्लानमुखो जातः । आवामपि विरज्याऽवोचाव'संसारासारतासमर्थिका धर्मदेशना श्रुतैव, तात ! तद्विषादेनाऽलम्, आवयोविषयसुखैरेवंविधैरलम्' । तत्प्रभृत्येवाऽऽवां निजभ्रातरं त्रातुं प्रवृत्ते ।
अन्यदा च मम भ्राताऽटन् तव मातुलस्य पुष्पचूलस्य कन्यां पुष्पवतीं दृष्ट्वा तद्रूप-लावण्यहृतमनास्तां हत्वा तस्या दृष्टिमसहिष्णुविद्या साधयितुं ययौ । तदनन्तरं वृत्तं त्वं जानास्येव । तदा च पुष्पवत्यावयो(तुर्वधमाख्यत्, धर्मवचनैः शोकमनुदच्च । तथा युवयोरभिगम्योऽयमागतो ब्रह्मदत्तो वां भर्ताऽस्तु, मुनेगिरस्तथ्या भवन्त्वि'ति चाऽख्यत् । आवाभ्यां च तत् स्वीकृतं, रभसा च तया श्वेता पताकाऽचालि । येन भवानावां त्यक्त्वाऽन्यत्र गतः । भाग्यनैर्गुण्यात् सर्वत्र भ्रान्त्वाऽपि त्वं नेक्षित इति निविण्णे आवामिहाऽऽगते । पुण्यैश्च त्वमिहाऽऽयातोऽसि, पुरा पुष्पवतीवचसाऽऽवाभ्यां त्वं वृतोऽसि, तदावां वरय, त्वमेवैक आवयोर्गतिः । ततः कुमारो गान्धर्वेण विवाहेन ते अप्युपायत । ताभ्यां रममाणश्च स तत्र तां