________________
२२६
२२७
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सागरदत्तस्य बुद्धिलस्य चोद्याने लक्षपणं कुक्कुटाहवमपश्यताम् । विविधं युद्धमानयोः कुक्कुटयोश्च सागरदत्तकुक्कुटं बुद्धिलकुक्कुटोऽभाङ्क्षीत् । __ ततो वरधनुराह-'सागर ! कथं ते जात्यमपि कुक्कुटं बुद्धिलकुक्कुटोऽभाङ्क्षीत्, तद्यदि मन्यसे तदेनं पश्यामि' । ततः सागरानुज्ञया स पश्यन् बुद्धिलकुक्कुटं पादयोरय:सूचीमयं ददर्श । बुद्धिलश्च तल्लक्षयन् तस्मै छन्नं लक्षार्धं दत्तवान् । स च तं वृत्तान्तं कुमारस्याऽवोचत् । ततो ब्रह्मदत्तोऽय:सूची: कृष्ट्वा भूयोऽपि बुद्धिलकुकुटं सागरकुक्कुटेनाऽयोधयत् । ततश्च सागरकुक्कुटेन बुद्धिलकुकुटः क्षणादेव भग्नः । ततो दृष्टः सागरदत्तस्तौ स्वरथे आरोप्य निजं गृहं निनाय ।
निजगृहे इव तद्गृहे निवसतोस्तयोर्बुद्धिलकिङ्कर एत्य वरधनोः किमप्याख्यत् । तस्मिन् गते च वरधनुः कुमारं जगाद'बुद्धिलेनाऽद्य मम लक्षार्धं दित्सितं तदेतं हारं पश्य' । ब्रह्मदत्तश्च हारे बद्धं स्वनामाईं दृष्ट्वान् । तदानीमेव च तत्र वत्साख्या तापसी समागात् । सा च तयोः शिरसि साशिषमक्षतान् क्षिप्त्वा वरधनो रहसि किमप्याख्याय ययौ । ततो वरधनुः कुमारं प्राह-'इयं हारबद्धलेखस्य प्रतिलेखं याचते ।
को ब्रह्मदत्त इति मया पृष्टा साऽवोचत्-'इह नगरे श्रेष्ठिसुता रत्नवती निसर्गसुन्दरी तद्दिने कुक्कुटयुद्धे इमं ब्रह्मदत्तमपश्यत् । तत: प्रभृति कामार्ता सा 'शरणं मे ब्रह्मदत्त' इत्यनिशं ब्रुवाणा ताम्यति । सा चाऽन्येधुः स्वयं लेखं लिखित्वा हारेण सह ब्रह्मदत्तस्येदमर्ग्यतामिति मामुवाच । स लेखो मया दासहस्तेन
नवमं पर्व - प्रथमः सर्गः प्रेषित इत्युक्त्वा सा स्थिता मयाऽपि ते प्रतिलेखं दत्त्वा व्यसृज्यत' । ततः कुमारोऽपि कामातः क्षणमपि सुखं न स्थितः ।
अन्येधुश्च कौशाम्बीनृपस्य दीर्पण प्रेषिता नरास्तौ तत्राऽन्वेष्टुं समाययुः । नृपादेशेन कौशाम्ब्यां तयोरन्वेषणे प्रवृत्ते सागरो भूगृहे तौ क्षिप्त्वा निधानवद् जुगोप । तौ जिगमिषन्तौ च रात्रौ रथमारोप्य सागरः कियन्तमपि पन्थानं नीत्वा ववले । तौ गच्छन्तौ चाऽग्रे उद्याने कन्यकामपश्यताम् । किमेतावती वेला युवयोर्जातेति तया सादरं पृष्टौ च तावूचतुः-'कावावामिति कथं वेत्सि' । ____ततः सोवाच-अस्यां पुर्यां महाधनो धनप्रभवः श्रेष्ठ्यासीत् । तस्य च श्रेष्ठिनोऽष्टानां पुत्राणामुपर्यहं विवेकश्रीरभवम् । प्राप्तयौवना चाऽस्मिन्नुद्यानेऽत्युत्तमवरप्राप्त्यर्थं यक्षमाराधयम् । तुष्टश्च यक्षो ब्रह्मदत्तश्चक्री ते वरो भविष्यतीति वरं ददौ । सागरबुद्धिलक्कुक्कुटयुद्धं यं पश्यसि, स श्रीवत्सलाञ्छन: सखितुल्यरूपो वरो भवत्योपलक्षणीयः । मदायतनवर्तिन्यास्तव ब्रह्मदत्तेन सङ्गमो भविष्यति तेन त्वां जानामि । तदेहि, कामाता मां रक्ष ।' ततस्तथेति प्रतिपद्य स कुमारो रथं स्थगयित्वा व गन्तव्यमिति पृष्टवान् । सोवाच-'मगधपुरे मत्पितृव्यो धनावहः श्रेष्ठ्यस्ति, स आवयोर्महती प्रतिपत्ति दास्यति, तत्रैव गन्तव्यम् । ततो रत्नवतीवाचा कुमारो मन्त्रिपुत्रेण सह कौशाम्बीदेशमुल्लङ्घ्य भीमां महाटवीं प्राप । ___ अथ तत्र सुकण्टक-कण्टको चौरयूथपती ब्रह्मदत्तं रुरुधतुः । कुमारोऽपि च धनुरादाय तौ प्रजहार । ततस्तौ ससैन्यौ प्रणेशतुः । ततो मन्त्रिपुत्रः कुमारमुवाच-'स्वामिन् ! श्रान्तोऽसि, तदिहैव रथे मुहूर्त स्वपिहि' । ततो ब्रह्मदत्तोऽपि रत्नवत्या सह रथ एव