________________
२२४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः शबरसेनो नाम नृपोऽभूत्, तत्पुत्रो मम पिता राज्ये स्थितः क्रूरै!त्रिभिः पराभूत इमां पल्लीमशिश्रियत् । अत्र च भिल्लान् वशे कृत्वा ग्रामघातादिना स्वं कुटुम्ब पुष्णाति । तस्य चतुर्णां पुत्राणामुपर्यहं सुताऽत्यन्तं प्रिया । स च मां प्राप्तयौवनां दृष्ट्वोवाच-'सर्वे नृपा मे द्वेषिणः, तत्त्वयेह स्थितया मतो वरो मे कथनीयः । तत्प्रभृति सरस्तीरे चक्रवाकीव स्थिताऽहं सर्वान् पान्थान् पश्यामि, त्वं च स्वप्नेऽप्यत्यन्तदुर्लभो मद्भाग्यादिह समागतोऽसि' ।
एकदा च स पल्लीपतिग्रामघातकृते कुमारेण सह ययौ । ग्रामे लुट्यमाने च सरस्तीरे वरधनुरेत्य कुमारस्य पादयोः पपात । कुमारकण्ठमालम्ब्य च स मुक्तकण्ठं रुरोद । तत आश्वास्य कुमारेण पृष्टः स मन्त्रिपुत्र: स्वं वृत्तान्तमुवाच-'तदा त्वं वटतले मुक्त्वा जलार्थं गतोऽग्रे महासरो दृष्ट्वा नलिनीपत्रपुटेन तुभ्यं जलं गृहीतवान् । तदा यमदूतैरिव भटैः समागत्य रुद्धो ब्रह्मदत्त: क्वेति पृष्टो न वेद्मीत्यवोचम् । ततस्तैस्तस्करैरिव ताड्यमानोऽहं ब्रह्मदत्तो व्याघ्रण भक्षित इत्यवदम् । ततस्तैस्तं देशं दर्शयेत्युक्तश्छलेनेतस्ततो भ्रमन् त्वदृष्टिपथे समागत्य पलायनसंज्ञामकार्षम् । गुप्तां गुटिकां च मुखे क्षिप्तवानहं तत्प्रभावेण नि:संज्ञो मृत इति ज्ञात्वा तैस्त्यक्तः । तेषु गतेषु च गुटिकां मुखादाकृष्य त्वां नष्टधनमिवाऽन्वेष्टुं भ्रमन् कमपि ग्रामं गतस्तपोराशि परिव्राजकं दृष्ट्वा तमनमम् ।
ततः स मामवदत्-'वरधनो ! धनोरहं मित्रमस्मि वसुभागो नाम ब्रह्मदत्तः क्वाऽस्ति, ततो मयाऽप्यस्य सर्वो वृत्तान्तो निवेदितः । ततो म्लानमुखः स पुनरुवाच-तदा लाक्षागृहे दग्धे दीर्घः प्रातरेकमेव दग्धं कर सुरङ्गां तदन्तेऽश्वपदानि च दृष्ट्वा धनोर्बुड्याऽऽवां प्रणष्टाविति ज्ञात्वा तस्मै चुकोप । युवां बद्ध्वा समानेतुं च प्रतिदिशं
नवमं पर्व - प्रथमः सर्गः महान्ति सैन्यानि प्रेषयामास । धनुर्मन्त्री च पलायितवान् । किन्तु तव माता दीर्घेण नरके इव मातङ्गपाटके क्षिप्ता । अनया वार्तया च नितान्तं दुःखितः कम्पील्ये गतवानहं मातङ्गपाटके छद्मकापालिकीभूय चर इव गृहं गृहं प्रविशन् लोकेन भ्रमणकारणं पृच्छयमानश्च मातङ्गया विद्याया एव कल्प इत्यवोचम् । तत्रैवं भ्राम्यता मया तदारक्षकस्य मैत्री जाता । ___ एकदा च तन्मुखेन त्वन्मातरमवोचम्-'असौ त्वत्पुत्रमित्रं कौण्डिन्यस्तवाऽभिवादनं करोति' । द्वितीयदिने च स्वयं गत्वा त्वन्मातुर्बीजपूरकं सगुटिकमदां, येन भक्षितेन सा नि:संज्ञा जाता । पुराध्यक्षश्च तां मृतेति नृपाय व्यजिज्ञपत् । राज्ञा च तस्याः संस्कारार्थ पुरुषा आदिष्टास्तत्राऽऽयाता मयोक्ता: 'अत्र क्षणेऽस्याः संस्कारश्चेद् युष्माकं राज्ञश्च महाननर्थो भवेत्, तत्स्वगृहं यात । आरक्षकं चाऽहमवोच-'त्वं सहायश्चेत् तदाऽस्याः शवेनैकं मन्त्रं साधयामि । तत्प्रपन्नेनाऽऽरक्षेण सहितस्त्वज्जननीमादाय दूरं स्मशानमगाम् । तत्र मायया स्थण्डिले मण्डलादिनी विधाय पुरदेवीनां बलिं दातुमारक्षस्तत: प्रेषितः । तस्मिन् गते चाऽहं त्वन्मातुरपरां गुटिकामदाम् । ततः सा जातचेतनोदस्थात् । स्वं ज्ञापयित्वा रुदतीं तां निवार्य कच्छग्रामे पितुर्मित्रस्य देवशर्मणो गृहे तामनयम् । इतस्ततो भ्रमंश्च त्वामन्विष्यनिहाऽऽगतो दिष्ट्या दृष्टवानस्मि' । ततस्तेन पृष्टः कुमारोऽपि स्वं सर्वं वृत्तान्तं कथयामास ।
अथ तदानीमेव कोऽप्युपेत्य तावुवाच-'ग्रामे दीर्घभटा युष्मत्तुल्यरूपं पदं दर्शयन्त ईदृङ्नरौ किमायातावत्रेति वदन्ति' । तदाकर्ण्य मयाऽत्रैत्य युवां दृष्टौ, यदुचितं तत् कुरुतम्' । ततस्तस्मिन् गते ती वनमध्येन पलायमानौ कौशाम्बी पुरीं प्रापतुः । तत्र श्रेष्ठिन: