________________
२२२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः छित्त्वा तदन्तरग्रतः स्फुरदोष्ठदलं पृथिव्यां पतितं शिरो ददर्श । तत्र सम्यक् पश्यंश्च स वल्गुलीकरणस्थस्य कस्यचिद् धूमपायिन कबन्धमपश्यत् । ततः स 'हा विद्यासाधकः कोऽपि मया निरपराधं हत' इति स्वं निनिन्द । ___ अथाऽग्रतो गत उद्यानं वीक्ष्याऽग्रे प्रविशन् सप्तभूमिकं प्रासाद दृष्ट्वा तमारूढस्तत्रैकां करन्यस्तकपोलां सुरीमिव द्वितीयामेकाकिनी कन्यां निषण्णां ददर्श । ततोऽपसृत्य का त्वमेकाकिनी, किं च तव शोककारणमिति पप्रच्छ । तत: सा भयाक्रान्ता सगद्गदं जगाद'मम महान् वृत्तान्तः, त्वं कोऽसि, किमिहाऽऽगत:' । ततो ब्रह्मदत्तोऽवोचत्-'अहं पाञ्चालनपतेब्रह्मणः पुत्रः' । तावदेव सोत्थाय सानन्दाश्रुभिः पाद्यं कुर्वतीव तस्य पादयोः पपात । तथा 'कुमार ! शरणं मे त्वमागत इति' ब्रुवाणोच्चै रुरोद । तेन पृष्टा च सा त्वन्मातृभ्रातुः पुष्पचूलस्य पुत्री पुष्पवत्यहं भवते दत्ताऽस्मि ।
एकदा चोद्यानं रन्तं गता तडागतटे भ्रमन्ती दृष्टविद्याधरेण नाट्योन्मत्ताभिधेनाऽपहत्य रावणेन सीतेवाऽत्राऽऽनीताऽस्मि । स च मम दृष्टिमसहमानो विद्यासाधनाय वंशजालिकां प्राविशत । ऊर्ध्वपादस्य धूमपायिनस्तस्याऽद्य विद्या सेत्स्यति । ततः स मां परिणेष्यति । ततः कुमारोऽपि तद्वधवृत्तान्तं न्यवेदयत् । तदा तयोर्हर्ष प्राप्तयोरन्योन्यमनुरागवतोर्गान्धर्वो विवाहोऽभूत् । ततस्तया साधू रममाण: कुमारस्तां रात्रिमत्यवाहयत् ।
अथ प्रभाते खेचरस्त्रीणां ध्वनि शुश्राव । किमकस्मादेवाऽऽकाशे ध्वनिरिति तेन पृष्टा च पुष्पवत्युवाच-'तव शत्रोर्नाट्योन्मत्तस्यैते द्वे खण्डा विशाखा च भगिन्यौ तन्निमित्तं
नवमं पर्व - प्रथमः सर्गः
२२३ विवाहोपस्करमादाय समागते स्तः । तत् तावत् तं क्षणमपसर्प । यावत् त्वद्गुणकीर्तनस्त्वय्यनयोर्भावमहं जानामि । रागे ज्ञाते मम रक्तपताकां प्रेरयिष्यामि विरागे च श्वेतम् । तदा त्वमन्यतो गच्छे:' । ततो ब्रह्मदत्तोऽवोचत्-'मा भैषीः, इमे तुष्टे रुष्टे वा मम किं करिष्यतः' । ततः पुष्पवत्युवाच-'नैताभ्यां ते भयं कथयामि, किन्त्वेतदीयाः खेचरास्त्वया विरोधं मा कार्युरिति वच्मि' । ततः कुमारस्तत्रैकतोऽस्थात् । पुष्पवती च तत्र गत्वा तयोर्भावमनुमाय श्वेतां पताकां चालयामास । ततः कुमारस्तत्प्रदेशाच्छनैः शनैरगमत् ।
अथ ब्रह्मदत्तो दुरवगाहं तं वनमतिक्रम्य सायं चैकं महासरः प्रापत् । तत्र प्रविश्य स्नात्वा पयः पीत्वा निर्गत्य कुमारो लताकुजादिमनोहरं पश्चिमं तीरमभ्यगात् । तत्र कुञ्जे च पुष्पाणि चिन्वती काऽपि सुन्दरी दृष्टा । साऽपि च दास्या सह जल्पन्ती तं पश्यन्त्यन्यतो ययौ । कुमारश्च तामेव पश्यन् यावदन्यतो याति तावद् वस्त्र-ताम्बूल-जलाद्यादाय दासी तत्र समुपागता तदर्पयित्वोवाच'या त्वयाऽधुना दृष्टा, तयेदं सर्वं प्रेषितं, त्वं मया तत्पितुर्मन्त्रिणो मन्दिरं गत्वाऽऽतिथ्यं स्वीकुरु' ।
तत: कुमारस्तया सह नागदेवस्य मन्त्रिणो गृहमगात् । मन्त्री च तमभ्युदस्थात् । दासी च 'राज्यपत्र्या श्रीकान्तया वासाय तव गृहेऽयं प्रेषित' इत्युक्त्वा जगाम । कुमारश्च तेन मन्त्रिणा विविधं राजेवोपास्यमानस्तां रात्रि क्षणमिवाऽतीयाय । प्रभाते च मन्त्री कुमारं राजकुलमनैषीत् । राजा चाऽादिना तमुपतस्थे । तथा वंशादिकमपृष्ट्वाऽपि नृपः कुमाराय स्वपुत्रीं ददौ । कुमारश्च तां परिणीतवान् ।
अन्यदा च क्रीडन् कुमारस्तां रहसि पप्रच्छ-'ममाऽज्ञातवंशादेस्त्वं पित्रा कथं दत्ताऽसि । ततः श्रीकान्तोवाच-'वसन्तपुरे