________________
२२०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः सगृहे प्रजज्वाल । धूमौघे सर्वतः प्रसरति वह्नौ प्रवर्धमाने च ब्रह्मदत्तेन किमेतदिति पृष्टो मन्त्रिपुत्रश्चुलन्याः सर्वं दुश्चेष्टितमाख्यायोवाच-त्वामितः स्थानादन्यत्र नेतुं मत्पित्रा सत्रगृहगामिनी सुरङ्गा दापिताऽस्ति । तदत्र पाष्णिप्रहारेण सुरङ्गामुखमुद्घाट्याऽधुनैव प्रविश । ततः स ब्रह्मदत्तस्तथा कृत्वा समित्र: सुरङ्गाया नीरीय तदन्ते धनमन्त्रिणा स्थापितावश्वावधिरुयन्तौ पलायामासतुः ।
अथाऽश्वौ क्रोशवत् पञ्चाशद्योजनी पञ्चमधारया गत्वा गतासू बभूवतुः । ततस्तौ पादचारेण कोष्ठकाख्यं ग्रामं निकषा प्रापतुः । तत्र च ब्रह्मदत्तं क्षुत्-तृषार्तं ज्ञात्वा क्षणं प्रतीक्षस्वेत्युक्त्वा मन्त्रिपुत्रो ग्रामाद् नापितमाहूतवान् । ब्रह्मदत्तश्च मन्त्रिपुत्रेण प्रेरितो वपनं कारयित्वा शिखामात्रमधारयत् । तत: कषायवस्त्राणि परिधाय कण्ठे वरधनुदत्तं यज्ञोपवीतं च धारयामास । तथा मन्त्रिपुत्रो ब्रह्मदत्तस्य श्रीवत्सलाञ्छनं वक्षः पटेन पिदधे । मन्त्रिपुत्रश्च स्वस्याऽपि वेषपरिवर्तनं चकार ।
अथ ग्रामं प्रविष्टौ द्वावपि केनाऽपि विप्रेण भोजनाय निमन्त्रितौ सादरं भोजितौ च । ब्राह्मणी च कुमारस्य मस्तकेऽक्षतान् विकीर्य वस्त्रयुगं देवीतुल्यां कन्यां च दत्तवत्ती। निवारयति मन्त्रिपुत्रे च द्विज उवाच-'ममेयं कन्या गुणग्रामसमग्रा बन्धुमती', अस्या अमुं विहाय नाऽन्यो योग्यो वरः । निमित्तज्ञा अस्याः पतिं चक्रिणमूचुः । सोऽयमेव यतस्तैरेवोक्तं-'पट्टगोपितश्रीवत्सलाञ्छनो यस्तव गृहे भोक्ष्यते, तस्मै स्वकन्या देया' । ततस्तया ब्रह्मदत्तस्य तया विवाहो जज्ञे । कुमारश्च तां रात्रि तत्र वासं विधाय बन्धुमतीमाश्वास्याऽन्यतो ययौ ।
नवमं पर्व - प्रथमः सर्गः
.......२२१ अथ प्रान्तग्रामं प्राप्य तावशृणुताम्-'दीर्घेणाऽधिब्रह्मदत्तं सर्वे मार्गा रोधिता:' । ततस्तावुत्पथेन प्रस्थितौ महाटवीं प्रापतुः तत्र च तृषार्तं कुमारं वटवृक्षतले मुक्त्वा वरधनुर्वेगेन जलार्थं जगाम । दीर्घनियुक्तैः पुरुषैश्च वरधनुरयमित्युपलक्ष्य क्रुद्धः कुकुरैः शूकरशावक इव निरुद्धो बद्धश्च वरधनुर्ब्रह्मदत्ताय पलायस्वेति संज्ञामकार्षीत् । ततः पलायितश्च कुमारो वनान्तरं गतस्तृतीये दिवसेऽग्रत एकं तापसं दृष्ट्वान् । तेन च 'भगवन् ! | कुत्र व आश्रम' इति पृच्छन् कुमारो निजाश्रमपदं प्रापितः । तत्र तं प्रणमन्तं दृष्ट्वा कुलपतिरुवाच-'वत्स ! त्वमति मधुराकृतिः तवाऽत्राऽऽगमने को हेतुः । ततो विश्वस्तो ब्रह्मदत्तो निजं सर्वं वृत्तान्तमाख्यत् । ___ ततो हृष्टः कुलपतिः सगद्गदमुवाच-'तव पितुर्लघुभ्राताऽहं, ततो यथासुखमत्र तिष्ठ, तवैतद् गृहम्' । ततः स तत्राऽऽश्रमेऽतिष्ठत् । तदानीं च वर्षाकालोऽपि प्राप्तः । तत्र निवसंश्च स कुमारः सर्वाणि शास्त्राणि शस्त्राण्यस्त्राणि चाऽधीतवान् ।
अथ प्रावृट्कालेऽतीते च फलाद्यर्थं वनं प्रचलितेन तापसेन सह कुलपतिना वार्यमाणोऽपि कुमारोऽगात् । ततस्ततो भ्रमंश्च करिणो विण्मूत्रं दृष्ट्वाऽदूरत एव तं स्थितमनुमाय तापसेन वार्यमाणोऽपि सोऽनुपदं गच्छन् योजनपञ्चकस्याऽन्ते तं दृष्ट्वा मल्लो मल्लमिव गजितं कुर्वन् तमाह्वास्त । गजश्च क्रुद्धः कुमारं प्रत्यधावत । कुमारश्च समीपगं तं वञ्चयितुं स्वमुत्तरीयं चिक्षेप । एवं विधाभिश्चेष्टाभिश्च कुमारे गजं रमयति सति मेघः कृताम्बरो ववर्ष । ततो विरसं रसित्वा मृगनाशं नष्टे गजेऽद्भिर्दिङ्मूढः कुमारो नदी प्राप । तामुत्तीर्य तस्यास्तटे प्राचीनमुद्वसं पुरं दृष्ट्वा प्रविश्य वंशजालिकां खड्ग-चर्मणी च ददर्श । खड्गमादाय वंशजालिकां