________________
पुरुष-गद्यात्मकसारोद्धारः
ब्रह्मदत्तस्य द्वादशसु वर्षेषु पूर्णेषु शिरः पीडया विपन्नवान् । कटकादयश्च तस्यौर्ध्वदैहिकं कृत्वा दध्युः - 'यावद् ब्रह्मदत्तो बालस्तावदस्मास्वेकैकोऽत्र वर्षे वर्षे प्राहरिक इव रक्षकोऽस्तु' । ततो दीर्घो मित्रराज्यं रक्षितुं तत्र नियुक्तः । अन्ये च त्रयो यथास्थानं जग्मुः । दीर्घश्चाऽदीर्घदर्शी ब्रह्मणो राज्यसम्पदं स्वच्छन्दं बुभुजे । ऐश्वर्यमदमत्तश्च स चिरगूढं कोशं मार्गयामास । प्राक्परिचयाश्चाऽन्तःपुरं सञ्चचार । चुलनीदेव्या सह चिरं नर्माऽकरोत् । तावुभौ च लोकमर्यादामतीत्य सुखं विलेसतुः ।
२१८
अथ कियत्यपि काले गते ब्रह्ममन्त्री धनुस्तयोर्दुश्चेष्टितं ज्ञात्वाऽयं रक्षको भक्षकः सन् ब्रह्मदत्तकुमारस्याऽनिष्टं मा कार्षीदिति विमृश्य वरधनुसंज्ञं स्वपुत्रं दीर्घस्य तद्वृत्तं ज्ञापयितुं ब्रह्मदत्तं सेवितुं चाऽऽदिशत् । ब्रह्मदत्तश्च मन्त्रिपुत्रेण सर्वं वृत्तं ज्ञात्वा शनैः प्रवृद्धकोपः काक - कोकिले गृहीत्वा मातुः समीपं गत्वा 'वध्यौ वर्णसङ्करावेतावन्यमपि चेदृशं हनिष्यामी' त्युच्चैरुवाच । दीर्घेण च 'काकोऽहं त्वं च कोकिलेत्यावामसौ हन्तुमिच्छतीति प्रोक्ता च 'बालवचनाद् मा भैषीरिति चुलन्युवाच ।
अन्यदा च भद्रगजेन सह मृगगजं नीत्वा कुमारस्तयोर्वधसूचकं वचनं प्राग्वदेव साक्षेपमुवाच । ततो दीर्घः साभिप्रायं बालवचनमित्यवदत् । चलनी च तदुपेक्षितवती । ततोऽन्यदा ब्रह्मदत्तो हंस्या सह बकं बद्ध्वोवाच- 'अनया सहैष रमते ततः कस्याऽपीदृशं न सहिष्ये' । ततो दीर्घश्चलनीमुवाच- 'एवमुक्त्या कुमारो वर्धमानक्रोधोऽनुमीयते तदयमवश्यमावयोर्विघ्नाय भविष्यति, तस्माद् यावदयं कवचहरो न जायते तावदेव विषवृक्षवदुन्मूलनीयोऽसौ' ।
नवमं पर्व प्रथमः सर्गः
२१९
ततश्चलन्युवाच- 'पक्षिणोऽपि स्वसुतान् रक्षन्ति, अयं च राज्यधरः पुत्रः कथं विहन्यते' ।
ततो दीर्घोऽवदत्- अयं पुत्ररूपस्तव कालः मा शुचः, मयि सति तव पुत्रा न दुर्लभा:' । ततश्चलनी तद्वाक्यममन्यत । तथा साऽमन्त्रयत्-‘अयं विवाह्य वासागारच्छलेन लाक्षागृहे नेयः, सुषुप्ते च तस्मिन् रात्रावग्निः प्रज्वालनीयः' । एवं मन्त्रयित्वा ताभ्यां पुष्पचूलस्य कन्या वृता । वैवाहिकी सर्वा सामग्री चोपकल्पिता । मन्त्री धनुश्च तयोः क्रूरमाशयं विज्ञाय कृताञ्जलिर्दीर्घमुवाच- 'मम पुत्रो वरधनुर्योग्यस्त्वदाज्ञाकार्यस्तु, अहं वृद्धोऽशक्तस्त्वदाज्ञया गत्वा क्वचिदनुष्ठानं करोमि । ततो दीर्घो 'मायाव्ययमन्यत्र गतः कमप्यनर्थं कुर्वीते 'ति मनसि शङ्कित्वाऽलक्षितभाव उवाच - 'अत्रैव यागादिना धर्मं कुरु, अन्यतो मा गाः, सद्वृक्षैर्वनमिव भवादृशैरेव राज्यं शोभते' |
ततः सुमतिर्धनुर्गङ्गातीरे सत्रमण्डपं कारयित्वा पान्थानां कृतेऽनवच्छिन्नं सत्रं प्रवर्त्तयामास । तथा निजपुरुषैर्जतुगृहावधि द्विक्रोशां सुरङ्गां कारयामास । तथा सर्वमिदमत्रत्यं वृत्तान्तं धनुर्गुप्तलेखेन पुष्पचूलमज्ञापयत् । पुष्पचूलोऽपि बुद्धिमांस्तज्ज्ञात्वा स्वपुत्र्याः स्थाने हंस्या: स्थाने बकीमिव स्वदासीपुत्रीं प्रेषयामास । सा च पुरीं विशन्ती भूषणाद्यैः पौष्पचूलीति लोकैर्लक्षिता । चुलनी च मुदा तां ब्रह्मदत्तेन पर्यणाययत् । सायं च सर्वं लोकं विसृज्य चुलनी सवधूकं कुमारं लाक्षागृहे वासार्थं प्रेषयत् ।
अथ कुमारश्च तया वध्वा सह तद्गृहं गत्वा मन्त्रिपुत्रेण वार्ताभिरर्धरात्रं व्यतिचक्राम् । चुलन्यादिष्टपुरुषैश्च प्रेरितोऽग्निर्वा