________________
२३४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तदानीं च पुरिमतालात् चित्रजीवो महेभ्यपुत्रो जातिस्मृतेः प्रव्रज्य विहरंस्तत्राऽऽययौ । तत्र मनोरमोद्याने स्थित आरघट्टिकात्तच्छ्लोकार्धं शुश्राव । ततः स मुनिः 'एषा मे षष्ठिका जातिरन्योन्याभ्यां नियुक्तयोरि'ति पश्चार्धं पूरयित्वा तमपाठयत् । स आरघट्टिकश्च राज्ञः पुरं श्लोकपश्चार्धं पपाठ । राज्ञा पृष्ठश्च मुनि कवि जगौ । ततो नृपस्तस्मै पारितोषिकं प्रदायोत्कण्ठित उद्यानं गत्वा मुनि नत्वा सस्नेहः पूर्वजन्मवदन्तिके समुपविवेश । मुनिश्च धर्मलाभाशिष दत्त्वा नृपानुग्रहार्थं धर्मदेशनां प्रारेभे ।
'राजन् ! असारे संसारे धर्म एव सारः, यौवनादीनि सर्वाण्येव पवनोद्धृतपताकावच्चञ्चलानि । यथा बहिरङ्गान् शत्रूनजैषी: पृथ्वीं साधयितुं तथाऽन्तरङ्गांस्तान् मोक्षसाधनाय जय, यतिधर्मं गृहाण' । ततो ब्रह्मदत्त उवाच-'बान्धव ! दिष्ट्या दृष्टोऽसि, इयं राज्यश्रीस्तवैव, यथेच्छं भोगान् भुझ्व, राज्यसम्पद्रूपे फले प्राप्ते तपसाऽलम्' । __ततो मुनिरुवाच-'ममाऽपि सम्पद आसन्, ताश्च भवभ्रमणभीरुणा मया तृणवत् त्यक्ताः, क्षीणपुण्य एव महीतले समागतोऽसि, इतोऽपि क्षीणपुण्योऽधोगति मा गाः । आर्यदेश-कलादिकं मोक्षदं प्राप्य तेन भोगसाधनं सधया पादशौचवत् । आवां स्वर्गाच्च्युत्वा कुयोनिषु भ्रान्ती, तत् किं न स्मरसि' । तेनैवं बहुधा बोध्यमानोऽपि नृपो नाऽबुध्यत । ततो मुनिरन्यतो जगाम । घातिकर्मक्षयाच्च केवलं प्राप्य भवोपग्राहिकर्मक्षयात् स मुनिः परमं पदं प्राप ।
अथ ब्रह्मदत्तश्चक्रिसम्पदा भूमाविन्द्र इव नृपैः सेव्यमानो दिनानि व्यतीयाय । एकदा च यवनेशेनैकोऽश्व उपायने सर्वलक्षणलक्षितः
नवमं पर्व - प्रथमः सर्गः प्रेषितः । यथा रूपेणाऽयमप्रतिमस्तथा वेगेनाऽस्ति न वेति परीक्षितुं ब्रह्मदत्तस्तमश्वमारुरोह । तेन विक्रममाणेनाऽश्वेन स चक्री चतुरङ्गसैन्ययुतो नगराद् निर्ययौ । ततश्चक्री वेगेक्षणकौतुकी तमश्वं कशया जघान । स चाऽश्वस्तया कशया प्रेरितोऽतीव वेगेन धावमानः क्षणाददृश्योऽभूत् । वल्गयाऽऽकृष्यमाणोऽपि सोऽश्वो न विरराम । क्रूरश्वापदादिसङ्कीर्णामटवीं प्राप्य श्रान्तश्च सोऽश्व: स्वयं तस्थौ । चक्री च पिपासार्तोऽश्वादवरुह्य जलमन्वेष्टुमितस्तत: पर्याटत् । एकं सरो निरीक्ष्य चाऽश्वमुत्पर्याणीकृत्य जलं पाययित्वा तटे नीत्वा वृक्षमूले मुखरज्ज्वा तं बबन्ध ।
ततः स्वयं स्नात्वा स चक्री पयः पपौ । तत उत्तीर्य च तीरेऽतिसुन्दरी नागकन्यकां दृष्ट्वा तद्रूपविस्मितो यावदस्थात्, तावद् वटवृक्षादुत्तीर्णोऽहिराजः । नागकन्याऽपि च तत्क्षणं नागिनीरूपं विकृत्य तेन सर्पराजेन सम्भोगं प्रपन्ना । ततो नृपो दध्यौ-'हीनेन सर्पणाऽपीयं प्रसक्तेत्याश्चर्य, तदयं वर्णसङ्करो मया नोपेक्षणीयः, राज्ञा मह्या सर्वे पथि स्थापनीया' । एवं विचार्य स उभौ विधृत्य कशया ताडयामास । शान्तरोषेण नृपेण मुक्तौ च तौ क्वाऽपि जग्मतुः । ततो नृपः पुनर्दध्यौ-कोऽपि व्यन्तरो नागराजरूपो रन्तुमनया नागकन्यया क्वाऽपि नूनं वसति' । एवं चिन्तयति नृपे चाऽश्वपदानुसारतः समागतं सकलं सैन्यं नृपदर्शनादमोदत । चक्री च सैन्येन परिवृतो निजपुरं ययौ ।
अथ नागकन्या गत्वा रुदती पत्युः सर्वं वृत्तं कथयामास'मर्त्यलोके स्त्रीलम्पटो ब्रह्मदत्तोऽस्ति, स पर्यटन् भूतरमणामटवीमागतः । अहं च यक्षिणीपार्श्वे सखीभिर्वृता गच्छन्ती सरसि