________________
२३६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः स्नानार्थमुत्तीर्णा तेन दृष्टाऽस्मि, स च मां दृष्ट्वा कामातः, प्रार्थयमानामप्यनिच्छन्तीं रुदती कशया ताडयामास । भवन्नाम कथयन्त्यपि मृतेति बुद्ध्यैव मुक्ताऽस्मि' । तच्छ्रुत्वा कुपितो नागकुमारो निशायां ब्रह्मदत्तं हन्तुं तद्वासगृहं प्राप । तदानीं च महिषी ब्रह्मदत्तमवोचत् 'अश्वेन हृतेन भवता किञ्चिद् दृष्टं किं ?' ततो नृपो नागकन्या-नागराजयोः पापां वार्ता स्वयं कृतं तच्छासनं च जगौ । नागकुमारश्च च्छनस्तत्सर्वं शुश्राव । स्वप्रियादोषं ज्ञात्वा च क्षणाच्छान्तकोपोऽभवत् ।।
तदानीं च नृपः शरीरचिन्तार्थं वासगृहाद् निर्गतो भास्वन्तं नागकुमारं दृष्ट्वान् । ततो नाग उवाच-ब्रह्मदत्तो नृपो जयतु, यो दुविनीतानां शासिता । या त्वया नागी ताडिता सा मम पत्नी । तया मिथ्यावचसोत्प्रेरितोऽहं त्वां दग्धुमिहाऽऽयातः । त्वन्मुखाच्च सत्यं वृत्तं श्रुतं मया । सा पुंश्चली त्वया साधु शासिता । तद्वाण्या यत् त्वदमङ्गलमचिन्तयं तत् सहस्व' । ततो राजोवाच-'न ते दोषः, स्त्रियो हि माययाऽन्यं दूषयित्वा स्वदोषं गोपायन्ति' । __ततो नाग उवाच-'सत्यमेतत्, तव न्यायेन तुष्टोऽस्मि, ब्रूहि, किं ते करवाणि' । ततो नृप उवाच-'मम राज्ये क्वचित् कदाऽपि पारदार्यं चौर्यमपमृत्युश्च मा भूत्' । ततो नाग उवाच-'एवमस्तु, स्वार्थं किमपि याचस्व' । ततो राजा विमृश्योवाच-'सर्वेषां प्राणिनां वाचं यथाऽहं वेद्मि तथा कुरु' । ततो नाग उवाच-'एतद् दुर्देयमपि ते दत्तं, परमन्यस्मै कथयतस्तव शिरः सप्तधा भेत्स्यते' । एवमुक्त्वा स नागकुमारो ययौ ।
अथ ब्रह्मदत्तः स्वप्रियया समं प्रसाधनगृहं जगाम । तत्र च गृहगोधं गृहगोधाऽऽह-'प्रिय ! राज्ञोऽङ्गरागमेतमानय, येन मे दोहदः
नवमं पर्व - प्रथमः सर्गः पूर्यते' । ततो गृहगोल आह-किं ममाऽऽत्मना कार्यं नास्ति । राजा च तज्ज्ञात्वा जहास । ततो देवी विना हेतुं कथं हास इति पप्रच्छ। राजा च विपद्भयात् तद् न कथयामास । ततो देव्युवाच-'यदि हासकारणं न कथयिष्यसि तदाऽहमवश्यं मरिष्यामि' । ततो राजोवाच-'अकथिते त्वं मरिष्यसि न वा, कथिते त्वहमवश्यं मरिष्यामि' । तदश्रद्दधाना च सोवाच-'कथय, उभावपि मरिष्याव:'। राजा च स्त्रीग्रहे पतित: स्मशाने चितामकारयत् । तत: स्नात्वा गजारूढो महिष्या सह पौरैरीक्षितश्चितासमीपं प्राप । ___ तदानीं चक्रिण: प्रबोधाय काचित् कुलदेवता छागस्य गुविण्यछाग्याश्च रूपं व्यकरोत् । छागी च च्छागमुवाच-'अमुष्माद् यवराशेर्यवपूलमानय, येन भक्षितेन मम दोहदः पूर्यते' । ततश्छाग उवाच-'एते यवाश्चक्रिणोऽश्वार्थं रक्ष्यन्ते, तदानयने मम मृत्युरेव' । ततश्छाग्युवाच 'यदि नाऽनयसि तदा मरिष्यामि' । ततश्छागोऽवदत्-त्वं मृता चेद् ममाऽन्या भार्या भविष्यति' । ततः छागी पुनरुवाच-'पश्यैष चक्री भार्यानुरोधात् स्वं जीवितं त्यजति, त्वं तु मयि नि:स्नेहः' । ततश्छागोऽप्युवाच-'नाऽहं स इव मूर्यो यदनेकस्त्रीपतिरेकस्त्रीकते प्राणान त्यजामि | राज्ञी सह म्रियते चेदपि, भवान्तरे योगो दुर्लभः, प्राणिनां हि कर्माधीना गतिः' । ____ ततश्चक्यपि तद्वाचं श्रुत्वा दध्यौ-'नूनमहं मूर्खः, यत् स्त्रीमात्रेण मोहितो विपद्ये' । ततस्तुष्टश्चक्री छागस्य कण्ठे कनकमाला-कुसुममालिके निधाय स्वं गृहं जगाम । त्वद्गिरा नाऽहं मरिष्यामीति राजी निवार्य च पुन: पूर्ववद् राज्यं पालयामास । एवं हि जन्मत एवाऽनेकधा क्रीडश्चक्री वर्षाणां षोडशन्यनां सप्तशतीं क्रमशो व्यतीयाय ।