________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
अथ कदाचित् प्राक्परिचितः कश्चिद् द्विजस्तं जगाद चक्रिन् ! यत् स्वयं भुङ्क्षे तद् भोजनं मे देहि । ततो ब्रह्मदत्त उवाच - 'विप्र ! मदन्नं दुर्जरं, चिराज्जीर्यमाणं चेद् मोदाय जायते' । ततो द्विजेनाऽन्नदानेऽपि कदर्यं त्वां धिगिति भत्सितः स चक्री तं सकुटुम्बं निजं भोजनमभोजयत् । रात्रौ च विप्रस्य तदोदनाद् दुरुपशमः कामः प्रादुरभूत् । ततश्च स विप्रः स्वत्रादिसम्बन्धमप्यविगणय्य सपुत्रः पशुवद् रते प्रावृतत् । रात्र्यन्ते च विप्रो गृहजनश्चाऽन्योन्यं स्वमुखमपि लज्जया दर्शयितुं न शशाक । ततो द्विजो राज्ञा क्रूरेणाऽन्नेन विडम्बितोऽस्मीति चिन्तयन् सकुटुम्बो नगराद् निर्ययौ । बहिश्च तेन द्विजेन कश्चिदजापालः शर्कराखण्डैरश्वत्थपत्राणि काणयन् दूराद् दृष्टः । ततो द्विजो मद्वैरसाधनायाऽसावलमिति विचिन्त्य तं सत्कृत्योवाच-‘राजमार्गे गजारूढः श्वेतच्छत्रचामरो याति, तस्य दृशौ गोलिके प्रक्षिप्य भेत्तव्ये' । अजापालश्च द्विजवाचं प्रपन्नवान् ।
२३८
ततः स कुड्यन्तरे स्थित्वा गोलिके क्षिप्त्वा राज्ञो दृशावस्फोटयत् । अङ्गरक्षकैश्च गृहीतो हन्यमानश्च सोऽजापालो विप्रियकारकं विप्रमाख्यत् । तच्छ्रुत्वा च क्रुद्धो नृपस्तं विप्रं निर्भय सपुत्रबन्धुमित्रं घातयित्वा क्रुधा विप्रजातिद्रोही सर्वानेव पुरोध:प्रभृतीनपि विप्रानघातयत् । तथा सचिवानादिशत्- 'एतेषां विप्राणां नेत्रैः स्थालमापूर्य मम पुरतो निधेहि' । मन्त्र्यपि च नृपस्य तां रौद्रां मनोवृत्तिं ज्ञात्वा श्लेष्मातकफलैः स्थालं पूरयित्वा राज्ञः पुरतो न्यधात् । ब्रह्मदत्तश्च तत्पाणिना स्पृशन् विप्राणां लोचनैः साधु स्थालं पूर्णमिति वदन् मुमुद । तत्स्थालस्पर्शने च चक्रिणः स्त्रीरत्नस्पर्शादप्यधिकं सुखमभूत् । स च तत्स्थालमग्रतः कदाऽपि
नवमं पर्व प्रथमः सर्गः
नाऽपसारयामास । विप्रनेत्रबुद्ध्या स सदैव श्लेष्मातकफलानि पस्पर्श । एवं च क्रमात् तस्य रौद्रध्यानं व्यवर्धत |
२३९
एवं रौद्रध्यानगतस्य तस्य षोडशवर्षाणि ययुः । तस्य चक्रिणः कौमारेऽष्टाविंशतिवर्षाणि मण्डलित्वे षट्पञ्चाशद्वर्षाणि भरतक्षेत्रपालने षोडशवर्षाणि चक्रित्वे च वर्षाणां षट्शतानि एवं मिलित्वा जन्मतः सप्तशतेषु वर्षेषु गतेषु पुनः पुनः कुरुमतीति ब्रुवाणो हिसानुबन्धिकर्मफलरूपां सप्तमीं नरकभूमिं स चक्री ब्रह्मदत्तो जगाम ॥ १ ॥
इति नवमे पर्वणि श्रीब्रह्मदत्तचक्रिचरितवर्णनात्मकः प्रथमः सर्गः ॥१॥