________________
नवमं पर्व - द्वितीयः सर्गः
mmm..२४१
द्वितीयः सर्गः
पार्श्वनाथचरितम् अथाऽस्य जम्बूद्वीपस्य भरतक्षेत्रे सर्वसम्पत्समृद्धे पोतनपुरे जलानां समुद्र इव श्रीणां पतिर्जिनभक्तोऽरविन्दो नाम नृपो बभूव। तस्य चतुर्विधपुरुषार्थपरायणस्याऽनुरूपस्तत्त्वज्ञः परमश्रावको विश्वभूतिर्नाम विप्रः पुरोहितो बभूव । तस्य विप्रस्य चाऽनुद्धराकुक्षिभवौ कमठो मरूभूतिश्च द्वौ पुत्रावभूताम् । तत्र कमठस्य वरुणा मरुभूतेर्वसुन्धरा च पत्नी जाता । द्वावपि भ्रातरौ विद्वांसावर्थोपार्जनसमर्थौ मिथः प्रीतिमन्तौ चाऽऽस्ताम् । तत्र विश्वभूतिनमस्कारमन्त्रं स्मरन् विपद्य सौधर्मे सुरोत्तमोऽभूत् । तद्वियोगसन्तप्ता तप:परायणा नमस्कारमन्त्रं स्मरन्ती साऽनुद्धराऽपि विपन्ना । तौ भ्रातरौ च पित्रोः प्रेतकार्याणि विदधतुः । हरिश्चन्द्रमुनिना बोधितौ च तौ विशोकावभूताम् ।
तत्र कमठः शक्तत्वाद् गृहकार्याणि चकार । मरुभूतिस्तु विरक्तः स्वाध्यायादिपरायणः पौषधगृह एव कालमतिवाहयामास । तथा तस्य सर्वदैव प्रविव्रजिषा भवति स्म । कमठस्तु स्वच्छन्दः प्रमादी व्यसनासक्तोऽभूत् । मरुभूतेः पत्नी वसुन्धरा चाऽतिसुन्दरी नवयौवनाऽपि मरुभूतिना भावयतित्वात् कदाऽपि स्पृष्टाऽपि न । वन्यकुसुमवत् स्वयौवनं निष्प्रयोजनं मन्यमानां कामाता तां कमठो
ऽनुरागेणाऽऽललाप । तथाऽनिच्छन्तीमपि तां मधुरैर्वचनैः प्रलोभ्य बलाद् रमयामास । तज्ज्ञात्वा च वरुणा सेा क्रुद्धा सर्व वृत्तं मरुभूतये शशंस । ततो मरुभूतिना बोधिता निषिद्वाऽपि च वसुन्धरा न विरराम । तथा स्वदोषं न स्वीचकार ।
मरुभूतिस्तयोर्वृत्तं स्वयं साक्षाज्ज्ञातुमनसा कमठं ग्रामाय यास्यामीत्युक्तवान् । ततः कुत्राऽपि गत्वा रात्रौ पुनरागत्य वेषपरिवर्त्तनेन श्रान्त: कार्पटिको भूत्वा कमठमाश्रयं ययाचे । कमठोऽप्यविशङ्कितस्तद् ददौ । तद्दर्शितस्थाने च स मायाकार्पटिक स्तयोर्दुश्चेष्टितं द्रष्टुकामो व्याजनिद्रयाऽस्थात् । तौ च वसुन्धराकमठौ मरुभूतिमं गत इति निःशङ्कं चिरं रेमाते । मरुभूतिश्च तद् दृष्ट्वा सर्वं वृत्तं नृपायाऽरविन्दाय व्यजिज्ञपत् । स नृपोऽपि च 'दुर्नयनिवारणाय कमठः पुरोहितपुत्रत्वादवध्योऽपि खरमारोप्य विडम्ब्य निर्वासनीय' इत्यारक्षानादिशत् । तेऽपि च तथा चक्रुः । कमठश्च पौरेर्वीक्ष्यमाणो लज्जानम्रमखः प्रतीकारासमर्थो वनं ययौ । तत्र च शिवतापससन्निधौ तपस्वी भूत्वा बालतपःपरायणोऽभूत् । ___ अत्र मरुभूतिश्च, 'मयेदं न साध्वाचरितं' ततो गत्वा भ्रातरं क्षमयामी'ति विचार्य वनं गत्वा कमठस्य पादयोः पपात । कमठश्च प्राक् स्वविडम्बनां स्मृत्वा क्रुद्धो नमतो भ्रातुर्मूनि शिलाखण्डमुत्क्षिप्य जघान । प्रहारार्तस्य तस्योपरि च पुनरेव शिलां चिक्षेप । तत्प्रहारविवश आर्तध्यानस्थो मरुभूतिर्विपद्य विन्ध्यपर्वते यूथपतिर्गजो बभूव । वरुणाऽपि रौद्रध्यानपरायणा मृत्वा तस्यैव यूथपतेः करिणो वल्लभाऽभूत् । स यूथपतिश्च तया सहाऽखण्डसम्भोगसुखमन्वभूत्।