________________
नवमं पर्व - द्वितीयः सर्गः
२४३
२४२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतश्च पोतनपुरेशोऽरविन्दः शरदुत्सवेऽन्तःपुरस्त्रीभिः सह हर्ये स्थितो रेमे । रममाणश्च स गगने दृष्टनष्टं मेघं ज्ञात्वा संसारासारतां ध्यायन् ज्ञानावरणीयादिक्षयोपशमवशादवधिज्ञानं प्राप । ततो महेन्द्र पुत्र राज्ये न्यस्य समन्तभद्राचार्यपादान्ते प्रव्रजितो नृपः । गुर्वनुज्ञयैकाकिविहारप्रतिमाधरो वपुष्यपि निर्ममस्तपःकृशाङ्गो विविधाभिग्रहपरो विहरन् सागरदत्तसार्थेशसार्थेनाऽष्टापदं प्रति प्रतस्थे । सागरदत्तेन पृष्टश्चाऽरविन्दो मुनिरष्टापदमाहात्म्यं तत्र प्रतिमादिवृत्तान्तं धर्मं च वर्णयामास । तेन प्रबुद्धः सार्थेशस्तदन्तिके श्रावकत्वं जग्राह । तथा ततो मुनेधर्मकथां शृण्वन् स मरुभूतिगजसेवितं वनं प्राप्यैकस्य सरसस्तटे भोजनकाले स सार्थोऽपि न्यवात्सीत् । तदानीमेव च मरुभूतिगज: करेणुभि: सहैत्य तत्र सरसि पय: पपौ । तत्र चिरं क्रीडित्वोत्तीर्य च दिशोऽवलोकयन् सार्थं दृष्ट्वा क्रोधाद् धावित्वा सार्थान् गजितैर्नाशयामास । सार्थस्था नरा नार्यः पशवश्च सर्वे भयात् कान्दिशीका: पलायामासुः ।
अरविन्दमुनिश्चाऽवधेस्तस्य गजस्य बोधकालं ज्ञात्वा कायोत्सर्ग कृत्वाऽस्थात् । गजश्च क्रोधात् तत्र गतस्तस्य मुनेस्तपःप्रभावाच्छान्तकोपो जातसंवेगः शैक्ष इव तस्याऽग्रतस्तस्थौ । मुनिश्च तस्योपकाराय कायोत्सर्गं पारयित्वा शान्तगम्भीरया वाचा तमबोधयत्-'भो भो गज ! कि निजं मरुभूतिभवं न स्मरसि, किं मामरविन्दनृपं नोपलक्षयसि, तद्भवे प्रतिपन्नमार्हतं धर्मं व्यस्मार्षीः किं ? तिर्यग्योनिभवं मोहं त्यज, सर्वं स्मर' । ततः स गजो मुनिवाचा जातिस्मरणमाप्य सद्य एव तं मुनि ननाम । ततो मुनिना धर्म बोधित: स गजः श्रावकत्वं प्रतिपेदे । वरुणा करिणा चाऽपि तत्र स्थिता जातिस्मरणमाप । ततो गजो भूयो मुनेगुहिधर्मं श्रुत्वा तं नत्वा
यथागतं ययौ । तत्रत्या जनाश्च गजप्रबोधेन विस्मिताः प्रबुद्धाश्च परिव्रज्यां श्रावकत्वं च यथायथं प्रतिपेदिरे ।
तदानीं सागरदत्तोऽपि जिनधर्मे दृढश्रद्धो विशिष्टं श्रावकत्वं प्राप । सोऽरविन्दमुनिश्चाऽष्टापदं गत्वाऽर्हतो वन्दित्वाऽन्यत्र विजहार । श्रावकः स गजश्च भावयतिर्भूत्वाऽऽचारनिष्ठः षष्ठादिकं तपः कुर्वन् निवृत्तविषयो विरक्तो दध्यौ-'ये प्रव्रजितास्ते धन्याः, व्रतमेव मर्त्यजन्म फलं, मया च पूर्वभवे दीक्षामगृहीत्वा मर्त्यजन्म निष्फलं कृतम्, अधुना पशुः किं करोमि' । एवं शुभभावनामग्नः स सुखदुःखयोः समः कालं गमयामास । ___ इतश्च कमठो मरुभूतिवशादशान्तो गुरुप्रभृतिभिर्निन्द्यमान आर्त्तध्यानस्थो मृत्वा कुक्कुटसो भूत्वा प्राणिनो दंशै शयन् सूर्यकरतप्तं सरसि जलं पिबन्तं मरुभूतिगजं दैवात् पङ्के मग्नं निर्गन्तुमक्षमं दृष्ट्वा कुम्भे ददंश । स गजश्च विषप्रभावेण स्वमरणं ज्ञात्वा समाहितश्चतुर्विधाहारप्रत्याख्यानं विदधे । ततो धर्मध्यानलीनो नमस्कारमन्त्र जपन् विपद्य सहस्रारे सप्तदशसागरोपमायुः सुरोऽभूत् । वरुणा करिणी चाऽपि दुस्तपं तपः कुर्वती विपद्य द्वितीये कल्पे देवी बभव । सा चाऽन्यदेवं विहाय गजजीवदेवसङ्गमं कामयमाना तस्थौ । गजजीवदेवोऽपि तस्यामनुरागवानभूत् । तामवधेरनुरक्तां ज्ञात्वा सहस्त्रारमुपनीय स्वाग्रमहिषीं चकार । तया सह च स्वर्गोचितं वैषयिकं सुखं भुजानः स कालं गमयामास । कुकुटाहिश्च विपद्य पञ्चमे नरके सप्तदशसागरोपमायुर्भूत्वा विविधा यातनाः सेहे।