________________
नवमं पर्व - द्वितीयः सर्गः क्षमयित्वा नमस्कारं स्मरन् विहितानशनो विपेदे । मृत्वा च द्वादशे कल्पे द्वाविंशतिसागरोपमस्थितिर्जम्बूद्रुमावर्ते विमाने समुत्पद्य देवैः सेव्यमानो विविधसुखमग्न: कालं गमयामास स मुनिः । स सर्पश्च हेमादिशिखरे भ्राम्यन् दवानलेन दग्धो धूमप्रभानरके सप्तदशसागरोपमायुर्नारको भूत्वा सपादशतधनुरुन्नतो विविधा यातनाः सेहे।
२४४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतश्च प्राग्विदेहेषु सुकच्छे विजये तिलकायां नगरीषु तिलकभूतायां विद्युद्गति म विद्याधरेन्द्रोऽभूत् । स च रूपसम्पदा तिलकायमानया कनकतिलकया महिष्या वैषयिकं सुखं भुञ्जान: कालं गमयामास । कनकतिलकादेव्याश्चोदरेऽष्टमकल्पाद् गजजीवश्च्युत्वा समवातरत् । पूर्णे समये च सा सर्वलक्षणलक्षितं सुतं सुषुवे । पिता च तस्य किरणवेग इति नाम चकार । स च धात्रीभिर्लाल्यमानः क्रमाच्छशिकलेव वर्धमानः सकलकलाकुशलो यौवनं प्रपन्नवान् । विद्युद्गतिश्च तं राज्ये न्यस्य श्रुतसागरमुनेर्दीक्षां जग्राह ।
अथ किरणवेगस्य नीत्या प्रजाः पालयत: पद्मावतीकुक्षिभव: तेजस्वी किरणतेजाः नाम सुतोऽभवत् । स च किरणतेजाः क्रमात् कवचहर: सिद्धविद्यश्चाऽभूत् । एकदा च तत्र सुरगुरुमुनौ समवसृते किरणवेगो गत्वा भक्त्या नत्वोपविवेश । मुनिश्च तदनुग्रहाय धर्मदेशनां चकार । तया च प्रतिबुद्धः किरणवेगो विरक्तो राज्ये सुतं किरणतेजसं न्यस्य सुरगुरुमुनेः पार्वे प्रव्रज्य क्रमाद् गीतार्थोऽभवत् ।
एकदा स गुर्वनुज्ञयैकाकिविहारं प्रतिपद्य गगनमार्गेण पुष्करद्वीपं जगाम । तत्र शाश्वतार्हतो नत्वा वैताढ्यसमीपे हैमशैलस्य प्रदेशे प्रतिमया तस्थौ । कुक्कुटसर्पजीवश्च नरकादुद्धृत्त्य हेमाद्रेः कन्दरे महाहिर्जातो भक्ष्यार्थं वने भ्रमन् निकुञ्जस्थं ध्यानमग्नं किरणवेगमुनि ददर्श । तत: प्राग्जन्मवैरात् क्रोधं गतश्चन्दनवृक्षमिव तं भोगेनाऽऽवेष्ट्याऽनेकशो ददंश । मुनिश्च विषावेगं जानन् अनेन कर्मक्षपणे ममोपकारः कृत' इति शुभं ध्यायन् समस्तं जगत्
इतश्च जम्बूद्वीपे प्रत्यग्विदेहे सुगन्धे विजये शुभङ्करायां पुर्या वज्रवीर्यो नाम धर्मिष्ठो नृपशिरोमणिपो बभूव । तस्य परमप्रिया: लक्ष्मीतुल्याया लक्ष्मीवतीभार्याया उदरे किरणवेगजीवोऽच्युताच्व्युत्वा मानसे सरसि हंसवदवततार ! पूर्णे समये च सा पवित्राकारं महीमण्डनं वज्रनाभाख्यं पुत्र प्रासूत । स च धात्रीभिर्लाल्यमानः क्रमाद् वर्धमानः सर्वशास्त्रकोविदो यौवनं प्रपन्न: शुभे दिने पित्रा राज्येऽभिषिक्तः । नृपश्च पन्या सह प्रव्रजितवान् । वज्रनाभस्य च राज्यं नीत्या पालयतश्चक्रायुधो नाम महापराक्रमी पुत्रोऽभवत् । यौवनं प्राप्तश्च स पित्रा प्रव्रज्येच्छया राज्यग्रहणायोपरुद्धोऽनिच्छन्नपि गुर्वाज्ञाविराधनाभीरुः स्वीचकार । ____ तदानीमेव च क्षेमकरो जिन आगत्य बहिरुद्याने समवससार । तच्छ्रुत्वा मुदितो वज्रनाभो गत्वा वन्दित्वा धर्मदेशनामशृणोत् । तया देशनया विशेषत: प्रतिबुद्धश्च जिनं सम्प्रार्थ्य तत एव प्रव्रज्यां गृहीतवान् । ततः श्रुतस्कन्धमधीयानः परं तपस्तप्यमानो गुर्वनुज्ञयैकाकिविहारप्रतिमाधरो विहरन् दृढमूलोत्तरगुणप्रभावादाकाशगमनलब्धि प्राप्योत्पत्त्य सुकच्छविजयं जगाम । स सर्पजीवोऽपि