________________
नवमं पर्व - द्वितीयः सर्गः
२४७
२४६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः नरकादुद्धृत्त्य भवं भ्रान्त्वा तत्रैव ज्वलनपर्वते महावने भिल्लो नाम्ना कुरङ्गकोऽभूत् । यौवनं प्राप्तश्च स कुरुङ्गको धृतकार्मुको जीविकाथ जीवान् निघ्नन् बभ्राम। वज्रनाभोऽपि विहरन् तां महाटवीं प्राप्तो ज्वलनगिरि जगाम । तदानीं च रविरस्तमाप ।
मुनिश्च ज्वलनाद्रिकन्दरे कायोत्सर्गेण तस्थौ । प्रातश्च युगमात्रदत्तदृष्टिः प्रचलित: क्रूरेण व्याधेनाऽशकुनमिदमिति क्रुधा दृष्टः । प्राग्जन्मवैराददूरादेव मृगवद् बाणेन विद्धश्च । स मुनिश्च प्रहारपीडितोऽपि आर्तध्यानवर्जितो नमोऽर्हद्भ्य इति जपन् भूमि प्रतिलिख्योपविश्य सम्यगालोच्य सर्वान् क्षमयित्वाऽनशनेन धर्मध्यानमग्नो विपेदे । ततो मृत्वा मध्यप्रैवेयके ललिताङ्गो नाम महद्धिको देवोऽभवत् । कुरङ्गकश्च तमेकप्रहारेण मृतं दृष्ट्वा मुदितो धनुर्धरम्मन्यो मृगवधाजीवो विपद्य रौरवाख्ये सप्तमे नरके समुदभूत् ।
अथैकदा स क्रीडयाऽपूर्वमश्वमारूढस्तस्य वेगं जिज्ञासुस्तं कशया ताडयामास । कशाहतश्च सोऽश्वो वायुवेगेन दधाव । वल्गाकर्षणेनाऽप्यनिवृत्तः स हयः क्षणेनैव सैनिकान् दूरेऽमुचत् । वनं प्राप्तश्च स नृप एकं निर्मलाशयं सरो दृष्ट्वाऽश्वं जलं पाययित्वा स्वयं च स्नात्वा पपौ । सरसो निर्गत्य तीरे क्षणं विश्रम्याऽग्रे चलितश्चाऽग्रे रम्यमेकं तपोवनं दृष्टवान् । तत्र तापसबालकैर्मृगशावैः क्रीडद्भिः सिच्यमानतरं तद् दृष्ट्वा च मुदितः स तत्र प्रविवेश । ____ अथ तदानीमेव तस्य दक्षिणं नेत्रं पस्पन्दे । अग्रे गच्छंश्च स दक्षिणेन सखीभिः सह तरून् सिञ्चन्तीं मुनिकन्यकां दृष्ट्वा तद्रूपसौन्दर्यविस्मितो वृक्षान्तरितो यावत् तां चिन्तयति तावत् सा सख्या सह माधवीमण्डपं प्रविवेश । विस्मितश्च नृपो यावत् तद्रूप-सौन्दर्य वर्णयति तावद् मुखे पद्मभ्रान्त्या भ्रमरस्तां त्रासं जनयन् पपात । सा च करौ धुन्वती सखीमुद्दिश्य रक्ष रक्षेति पूच्चक्रे । ततः सख्युवाच'स्वर्णबाहं विना न कोऽपि तव रक्षणेऽलं, तत्तमेवाऽनुसर ।
राजा च प्रस्तावज्ञ:-'को नाम स्वर्णबाहौ महीं पाति व उपद्रोतेति वदन् प्रकटोऽभूत् । अकस्मात् तं प्रेक्ष्य ते द्वे अपि कन्ये सभये अवतस्थाते। नोचितमुपचारं चक्रतुर्नवा किञ्चिज्जजल्पतुस्ते । राजा भीते इमे इति जानानः पुनरुवाच-'शुभे ! वां तपो निर्विघ्नं वहति किम् ? ततः सख्यूचे-सुवर्णबाहौ नृपे सति कस्तपोविघ्नं कर्तुमीश्वरः, इयं तु बाला भ्रमराद् भीता रक्ष रक्षेत्यभाषत । ततस्तया दत्ते आसने तरुमूले उपवेश्य च स मधुरगिरा पृष्टः-'त्वमनिन्दितयाऽऽकृत्याऽप्रतिमो देवो विद्याधरो वाऽन्यो वा कोऽसि ?'
ततो नृपः स्वं स्वयमेवाऽऽख्यातुमनीश्वर उवाच-'अहं वसुमतीपतेः कनकबाहोः सेवकस्तदनुज्ञयेहाऽऽ श्रमे विघ्नकारिणो
___ इतश्च जम्बूद्वीपे प्राग्विदेहेषु देवपुरोपमे पुराणपुरे नृपः सेव्यमानः कुलिशबाहुर्नाम भूपतिर्बभूव । तस्य च परमसुन्दर्याः सुदर्शनाख्याया महिष्या उदरे वज्रनाभदेवजीवश्च्युत्वाऽवातरत् । सा च देवी रात्र्यन्ते चतुर्दश महास्वप्नान् स्वप्ने ददर्श । पत्या च फलं ज्ञात्वा मुदिता सा पूर्णे समये प्राची सूर्यमिवाऽप्रतिमं पुत्रं प्रासूत । पिता च समहोत्सवं तस्य सुवर्णबाहुरिति नाम चकार । क्रमात् प्राप्तयौवनं कलाकलापकुशलं विनीतं पराक्रमिणं च तं सोपरोधं राज्येऽभिषिच्य नृपः प्रवव्राज । स सुवर्णबाहुश्च प्रजाः पालयन् भोगान् भुञ्जान: कालं निनाय ।