________________
२४८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः निग्रहार्थमागतोऽस्मि' । ततोऽयं स एव राजेति तर्कयन्ती तां सखीं नृपोऽवदत्-'किमियं बालाऽनेन व्यापारेण क्लिश्यते' । ततो निःश्वस्य सोवाच-'इयं रत्नपुरेशस्य विद्याधरेन्द्रस्य रत्नावलीकुक्षिजा पद्माख्या सुता । अस्यां जातमात्रायां पिता विपन्नवान् । तद्राज्यार्थिन: पुत्राश्च मिथो युयुधिरे । ततो राज्यविप्लवे जाते रत्नावली मां बाला स्वभ्रातुर्गालवस्य कुलपतेराश्रमे उपानयत् ।
एकदा च समायाताद् दिव्यज्ञानिनो मुनेरत्राऽश्वापहृतः समागतश्चक्री वज्रबाहुपुत्रो वरो भावी ति गालवोऽज्ञासीत् । ततो नृपोऽकस्माद् ममाऽश्वापहरणमनया विधेः संघटनोपाय इति ध्यायन् 'क्वकुलपतिः, तं दिदृक्षामीत्यपृच्छत् । ततः सख्युवाच-'तं मुनिमन्यत्र विहर्तुं प्रस्थितमनुगन्तुं गतः कुलपतिः शीघ्रमेवाऽऽगमिष्यतीत्युवाच । तदानीमेव च काऽपि वृद्धा तापस्युवाच- 'नन्दे ! पद्मामानय, कुलपत्यागमक्षणो जातः' । नृपोऽपि चाऽश्वखुरध्वनिज्ञातसैन्यागम उवाच-'युवां गच्छतम्, अहमपि सैन्यमाश्रमाद् रक्षामि' ।
अथ नन्दया पद्मा तत: स्थानात् कथञ्चिद् नीता ग्रीवां वालयित्वा स्वर्णबाहुं पश्यन्ती गता । तदाऽऽगत: कुलपतिश्च रत्नावलीसख्या स्वर्णबाहुवृत्तान्तं निवेदितः । ततो गालव उवाच'मुनयो न मृषाभाषिणः, ततः पद्माया भावी पतिरयं पूज्यः, अहं पद्मया सह तं यामि' । ततः कुलपति: पद्मया रत्नावलीनन्दादिसमन्वितया सह नृपं जगाम । नृपोऽप्युत्थाय तं सत्कृतवान् । नृपेण स्वागतवचनेन सम्भावितश्च गालव उवाच-'आश्रममागतोऽन्योऽपि पूज्यः, त्वं तु नस्त्राता, इयं मे जामेयी पद्मा ज्ञानिना ते पत्नीत्युक्ता । तदस्या: पुण्यैरिहाऽऽगतस्त्वमिमां परिणय ।
नवमं पर्व - द्वितीयः सर्गः
२४९ तत: स्वर्णबाहुस्तां गान्धर्वेण विवाहेन परिणिनाय । रत्नावली च नृपायाऽऽशीर्वचनं जगौ । तदैव च रत्नावल्याः सापत्न: पद्मोत्तरो विद्याधरेन्द्रः सप्राभृतो विमानस्तत्रैत्य रत्नावल्या निवेदित: स्वर्णबाहुं नमस्कृत्य प्राञ्जलिरुवाच-'त्ववृत्तान्तं ज्ञात्वा त्वामेव सेवितुमिहाऽऽगम, तदाज्ञयाऽनृगृहाण । वैताढ्ये मम पुरे एहि, तत्र सुखं तिष्ठ' । ततो नृपस्तद्वचः प्रत्यपद्यत। पद्माऽपि मातरं नत्वा वियोगकातरा मृगादीनुल्लिख्योल्लिख्य विह्वला जाता । रत्नावली च चक्री पतिस्त्वया सर्वथाऽऽराधनीय इत्यादिकं समयोचितमुपदिश्य त्वमाश्वासयामास । ततः पद्मा मातरं नत्वाऽऽपृच्छ्य च पतिमनुससार ।
नृपश्चाऽपि रत्नावलीं गालवं चाऽऽऽपृच्छ्य पद्मोत्तरानुरोधात् तद्विमानं सपरिच्छद आरुरोह । तत: पद्मोत्तरस्तेन विमानेन सपञ स्वर्णबाहुं वैताढ्ये रत्नपुरे पुरे समानैषीत् । तत्र तेनाऽपिते रत्ननिर्मिते प्रासादे निवसने स्वर्णबाहुः श्रेणिद्वयाधिपत्यं प्राप । तत्र परिणीतानेकविद्याधरकन्यश्च स विद्याधरैः सर्वविद्याधरैश्वर्येऽभिषिक्तः । तस्य च स्वर्णबाहोविधिवद् महीं पालयतश्चतुर्दश महारत्नानि समुदभूवन् । चक्ररत्नमार्गानुगश्च षट्खण्डां महीं लीलया साधयित्वा सुरैरपि सेव्यमानो विविधं सुखं भुञ्जानस्तत्राऽस्थात् । ___अन्यदा च हऱ्यातलोपविष्टः स चक्री गगने उत्पततो निपततश्च देवान् दृष्ट्वा विस्मितस्तीर्थकरं जगन्नाथमुपागतं श्रुत्वा च तत्र गत्वा जिनेश्वरं नत्वा यथास्थानमुपविश्य धर्मदेशनामश्रृणोत् । जिनश्च भव्यान् प्रबोध्याऽन्यत्र जगाम । स्वर्णबाहुश्च निजगृहे समायातान् देवान् स्मारं स्मारं जातिस्मरणमाप । तत: पूर्वान् भवान् ध्यायन् प्रविव्रजिषुर्निजे राज्ये सुतं न्यस्य विहारक्रमादागतं जगन्नाथं