________________
२५०
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः जिनेश्वरमुपजगाम । तदन्तिके प्रव्रज्य तपस्तप्यमानो गीतार्थोऽर्हद्भक्त्यादिकैः स्थानकैः सेवितैस्तीर्थकरनामकर्मोपार्जयामास । ततो विहरन् क्षीरमहागिरिसमीपे भीषणां क्षीरवणां महाटवीं प्राप्तः सूर्याभिमुखमातापनां कुर्वन् स्थिरप्रतिमाधरस्तस्थौ । ___ कुरङ्गकोऽपि च नरकादुद्धृत्य तत्पर्वते सिंहो जातः । स च तदानीमितस्ततो भ्रमंस्तत्राऽऽगतो बुभुक्षितस्तं मुनि दूरादेव ददर्श । प्राग्जन्मवैरात् क्रुद्धोऽभ्येत्य तलप्रहारेण मुनि भूमावपातयत् । मुनिश्च चतुर्विधाहारप्रत्याख्यानं विधाय समाहित आलोचनां सर्वप्राणिक्षमणां चाऽकरोत् । सिंहेऽपि शुभाशयो धर्मध्यानस्थ: सिंहेन विदारितो विपद्य विंशतिसागरोपमस्थितिर्दशमे कल्पे महाप्रभविमाने सुरोऽभूत् । स सिंहश्च मृतश्चतुर्थे नरके दशसागरोपमस्थितिको गत: । तत उवृत्त्य च तिर्यग्योनिषु बहुधा वेदना: सेहे ॥ २ ॥ इति नवमे पर्वणि श्रीपार्श्वनाथपूर्वभववर्णनात्मको
द्वितीयः सर्गः ॥२॥
तृतीयः सर्गः अथ स सिंहजीवो भवे दुःखान्यनुभवन् क्वचिद् ग्रामे दरिद्रस्य विप्रस्य पुत्रोऽभवत् । जातमात्रस्यैव तस्य पितृ-भ्रात्रादयो विपन्नाः । लोकैश्च कृपया पालित: कमठनाम्ना चाऽऽहूतः । स यौवनं प्राप्य कथमपि जीविकामकरोत् । अन्यदा समृद्धान् जनान् दृष्ट्वा जातवैराग्यः सोऽचिन्तयत्-'एतेषामेतत् प्राग्जन्मतपः फलमेव, मया च तपो नाऽऽचरितं, तदुर्गतोऽस्मि, तदधुना तपश्चरामि' । एवं विचिन्त्य वैराग्यात् तापसव्रतं प्रपन्नवान् ।
इतश्च जम्बूद्वीपे भरतक्षेत्रमण्डनेऽनुगङ्गं वाराणस्यां पुर्यां चैत्य-प्राकारादिशोभितायां सर्वदा महोत्सवसमन्वितायामिक्ष्वाकुवंश्योऽश्वसेनमहीपतिरभूत् । तस्य पराक्रमिणो विदुषोऽप्रतिहताज्ञस्य गुणग्रामसमग्रस्य भार्यायाः शीलवत्या ललनारत्नस्य वामादेव्याः कुक्षौ चैत्रकृष्णचतुर्थ्यां विशाखास्थे चन्द्रे सुवर्णबाहुजीवः प्राणतकल्पाच्च्युत्वाऽवातरत् । तदानी च वामादेवी स्वप्ने मुखे प्रविशतश्चतुर्दश महास्वप्नान् ददर्श । इन्द्रैः पत्या निमित्तज्ञैश्च स्वप्नफले कथिते प्रसन्ना सा गर्भ बभार । पूर्णे समये च सा पौषकृष्णदशम्यां विशाखास्थे चन्द्रे सर्पलाञ्छनं नीलवर्णं विडूरमहीरत्नमिव सुतं सुषुवे । __तदानीं च षट्पञ्चाशद्दिकुमार्यः समेत्य जिनस्य तन्मातुश्च सूतिकर्माणि चक्रुः । शक्रश्चाऽऽगत्य यथाकल्पं जिनं मेरावुपनीय