________________
mom२५३
२५२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तत्र सर्वैरिन्द्रादिभिः सह प्रभोः स्नात्रं विधाय भक्त्या स्तुत्वाऽऽदाय पुनर्वामादेवीपार्वे यथास्थिति मुमोच । ततस्तस्य रक्षादिकं विधाय च शक्रः स्वं धाम जगाम । प्रातश्चाऽश्वसेनः समहोत्सवं 'गर्भस्थितेऽस्मिन् कृष्णरात्रावपि पार्श्वत: सर्पन्तं सर्पमद्राक्षीदि'ति तस्य पावं इत्याख्यां चकार । प्रभुश्च धात्रीभिर्लाल्यमानः क्रमाद् वर्धमानो यौवनं प्रपन्नो नवहस्तप्रमाणो नीलशरीरकान्त्या शोभमानो वज्रसर्पलाञ्छनधरः शुशुभे ।
अन्येधुश्च जिनधर्मकथामग्नो नृपः सभास्थो द्वारपालेन 'कोऽपि नृपाकृतिः पुमान् किमपि विज्ञीप्सुभरि तिष्ठती'ति निवेदितस्तत्प्रवेशाय समादिशत् । द्वारपालेन प्रवेशितश्च स नृपं नत्वा निर्दिष्टे आसने समुपाविशत् । नृपेण च 'कोऽसि, कस्याऽसि, किमिहाऽऽगतश्चेति पृष्टः स उवाच-'नृप ! इह भरते लक्ष्मीसनाथे कुशस्थले शरण्योऽर्थिकल्पद्रुमो नरवर्मा नृपो बहून् नृपान् तेजसाऽसाधयत् । एवं स विराजमानो जिनधर्मप्रियो मुनिसेवी प्रजा नयेन पालयामास । एकदा च भवविरक्तः स तृणवच्छ्रियं त्यक्त्वा मुनिसमीपे परिवव्राज' । ___ अत्राऽवसरे चाऽश्वसेनेन नरवाणं प्रशस्याऽग्रिमवृत्तान्तं पृष्टोऽसौ पुनराह-'नृप ! तस्य नरवर्मणः पुत्रो महासेनः प्रसेनजिदभूत् । तस्याऽधुना प्राप्तयौवनाऽप्रतिमरूपा प्रभावती नाम कन्यकाऽस्ति । तस्या अनुरूपवरार्थे चिन्ताकुलश्च प्रसेनजिद् नृपोऽस्ति । एकदा चोद्यानगता प्रभावती किन्नरीभिर्गीयमानान् पार्श्वनाथस्य गुणानशृणोत् । तत्र जातानुरागा कामार्ता सर्वव्यापारविरक्ता सर्वदा पार्श्वमेव ध्यायन्ती कदाऽपि निर्वतिं न याति । पितरौ च सख्यास्तस्याः पार्वेऽनुरागं ज्ञात्वा मुदितौ पार्श्वेनैव लोकश्रेष्ठेन सा
नवमं पर्व - तृतीयः सर्गः परिणायितव्येत्यूचतुः । सा च प्रभावती सखीमुखात् तच्छृत्वा नितान्तं मुमुदे । पार्श्वमेव चिन्तयन्ती दिने दिनेऽतिविधुरां दृष्ट्वा पार्श्वसमीपं स्वयंवरां तां प्रेषयितुं पितरौ निश्चिक्याते । ____ कलिङ्गदेशेशो यवनश्च तज्ज्ञात्वा सभायामुवाच-'मयि सति प्रभावतीं पाश्वो न परिणेतुमर्हति' । ततः सोऽतुलपराक्रमी सैन्यैरागत्य कुशस्थलपुरमरौत्सीत् । तत्र कस्याऽपि प्रवेशो निर्गमो वा दुर्लभः । अहं तुं रात्रौ राज्ञा प्रेषितः पुराद् निरगाम् । मन्त्रिण: सागरदत्तस्य पुरुषोत्तमः पुत्रोऽहम् । अतः परं यत् कृत्यं तत्र देव एव प्रमाणम्' । ततः क्रुद्धोऽश्वसेन उवाच-'कुशस्थलं त्रातुं यवनमभिषेणयिष्यामि' । एवमुक्त्वा स सैन्यान् भम्भां वादयित्वा मेलयामास ।
पार्श्वश्च भम्भारवं सैनिकानां तुमुलं च श्रुत्वा किमेतदिति सम्भ्रमात् पितुरन्तिकं ययौ । सर्वं वृत्तान्तं ज्ञात्वा च पितरं महताऽऽग्रहेण निर्वार्य पित्राऽऽदिष्टो द्विपारूढः शुभे मुहूर्ते पुरुषोत्तमेनाऽनुयातः सोत्सवं प्रस्थितः पार्श्वः । जिने प्रदत्तकप्रयाणे च शक्रेण प्रेषितं ससारथिं सर्वशस्त्रास्त्रसम्भृतमस्पृष्टभूतलं दिव्यं रथं शक्रः प्रेषयामास । पार्श्वप्रभुश्च तं रथमारुरोह । सैन्येन महताऽनुयातश्च पार्श्वप्रभुः कतिपयैर्लघुभिः प्रयाणकैः कुशस्थलं प्राप्योद्याने सुरविकृते प्रासादे निवासमकरोत् ।
अथ पार्श्वप्रभुः सुमेधसं दूतमनुशिष्योपयवनं प्रेषितवान् । स च दूत: पार्वाज्ञानुसारेण युद्धाद् विनिवृत्तये यवनं बहुधा प्रतिबोधयामास । यवनेन गर्वनिर्भर्त्तित: सैनिकैरुदायुधैर्जिघांसितश्चाऽपि स 'स्वामिना त्रिलोकनाथेन वैरं वो न कल्याणाये'ति दूत: