________________
षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
पुनरुवाच। तदानीमेव वृद्धोऽमात्य एत्य तान् निवार्य देवाधिदेवेन पार्श्वेन वैरं न युज्यते' । दूततिरस्कारस्तु सर्वथाऽनुचित इति निर्भस्र्त्य च दूतं करे धृत्वा साम्नोवाच- 'एभिरज्ञानादेवमुक्तं त्वया क्षन्तव्यं, स्वामिने चैतद् न निवेदनीयम् । प्रभोः शासनं शिरसा स्वीकर्तुं स्वयं तवाऽनुपदमागमिष्यामो वयम्' । एवं प्रबोध्य सत्कृत्य च स दूतं विसृज्य यवनमादरादुवाच- 'देव ! नेदमुचितमनुष्ठितं, यस्य सेन्द्राः सुरा - ऽसुराः सेवकास्तेन वैरं स्वनाशायैव । तत्तं प्रभुमुपगम्य क्षमयित्वा तदाज्ञां स्वीकुरु, स्वस्थाने निर्भयश्च तिष्ठ' । ततो यवनो विमृश्य तद्वचः सादरं प्रपद्य सपरिवारः कण्ठे कुठारं कृत्वा श्रीपार्श्वप्रभुमुपाजगाम ।
२५४
तत्रोद्यानेच लक्षशो हयान् सहस्रशो गजेन्द्रान् रथान् देवविमानान् पत्तींश्च दृष्ट्वा विस्मितो जातो यवनः । तत्र भटैः सावज्ञमीक्ष्यमाणो यवनः प्रभुप्रासादद्वारं प्राप्तो वेत्रिणा विज्ञपय्य सभायां प्रवेशितो दूरादपि दृष्ट्वा प्रभुं नमश्चकार । प्रभुणा मोचितगलकुठारश्च यवनः पुनः प्रभुं नत्वाऽग्रत उपविश्य कृताञ्जलिर्जगाद - 'देवाधिदेवस्य तवाऽग्रतोऽहमतिलघुः । यद् दूतं प्रेष्य मामबोधयस्तद् मय्यनुग्रहः । तव पवित्रदर्शनाद् ममाऽपराधोऽपि शुभाय जातः । तन्निष्कारणपरमकारुणिको भवान् । तवाऽहं सेवकोऽस्मि भीतस्य मेऽभयं देहि' । ततः श्रीपार्श्वप्रभुरुवाच- 'तुभ्यं स्वस्ति, मा भैषीः, स्वं राज्यं शाधि, पुनरीदृशं मा कार्षीः' । तथेति प्रतिपद्यमानं तं प्रभुः प्रसन्नः सच्चकार । कुशस्थलपुरस्याऽवरोधो निवृत्तः ।
पुरुषोत्तमश्च प्रभुमनुज्ञाप्य गत्वा प्रसेनजिद् नृपस्य सर्वं वृत्तं शशंस । प्रसेनजिच्च मुदितः प्रभावतीपितृत्वेन स्वभाग्यं प्रशंसन् पार्श्वप्रभोर्नगरागमनं मनसि कृत्वोपायनमिव प्रभावतीमादाय हृष्टः
२५५
नवमं पर्व तृतीयः सर्गः सपरिवारः प्रभुमुपययौ । तं च नत्वा कृताञ्जलिरुवाच- 'प्रभो ! दिष्ट्या तवाऽऽगमनमनभ्रवृष्टिरिव शत्रुरपि यवनो ममोपकारक एव जातो यद् भवानिहाऽऽगतः । मामनुगृह्य प्रभावतीं स्वीकुरु, इयं त्वय्यनुरागवती, तदेतस्यां कृपां कुरु । प्रभावती च दध्यौ'किन्नरीभिर्यथा गीतस्तथैवाऽयमद्य दृष्टः, मदर्थे तातेनाऽयमुपरुद्ध इत्यधुना साध्वेवाऽभूत् । तथाऽपि तातप्रार्थनामेष स्वीकरिष्यति न वेति मम सन्देहः । एवं तस्यां ध्यायन्त्यां पार्श्वप्रभुरुवाच- 'वयं पितुराज्ञया त्वं त्रातुमेवेहाऽऽगता न तु विवाहार्थं तदत्राऽऽग्रहं मा कार्षीः, तातस्याऽऽज्ञां पालयित्वा तत्समीपमेव गमिष्यामः ।
प्रभावती च तच्छ्रुत्वा विषण्णा ‘सर्वत्र दयालुरयं मयि निष्कृप इति मन्दभाग्याऽहं हे कुलदेव्यः ! उपायं दर्शयत, इत्येवं बहु चिन्तयामास । प्रसेनजिच्च दध्यौ- 'प्रभुः स्वयं निःस्पृहोऽप्यश्वसेनोपरोधाद् मदिच्छां पूरयिष्यति, ततोऽश्वसेनदर्शनव्याजेन सह यामि, तत्र चाऽश्वसेनमाग्रहीष्ये' । ततः प्रभुमुवाच - अहमश्वसेनपादान् नन्तुं सह चलामि । ततः प्रभुणा तथाऽस्त्वित्युक्तः प्रभावतीमुपादाय स सहैव वाराणसीं ययौ । पार्श्वप्रभुश्च शरणागतरक्षणेन पितरमानन्दयामास । पार्श्वे स्वावासं गते च प्रसेनजित् प्रभावत्या सहाऽश्वसेनस्य पुरतो गत्वा नत्वाऽभ्युत्थायाऽश्वसेनेनाऽऽलिङ्ग्य सत्कृतः, ससम्भ्रममुवाच - 'तव प्रसादात् सर्वं कुशलम् एकं पीडाकरमप्यवशिष्टं त्वत्प्रसादात् सेत्स्यति नृप ! मम कन्या प्रभावती पार्श्वेऽनुरक्ता । इमां पार्श्वकुमारार्थं स्वीकुरु' ।
ततोऽश्वसेन उवाच- 'पार्श्वकुमारः सदा संसाराद् विरक्त एवाऽस्ति, न जाने स किं करिष्यति । अस्माकमप्येष मनोरथोत्