Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 125
________________ २२२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः छित्त्वा तदन्तरग्रतः स्फुरदोष्ठदलं पृथिव्यां पतितं शिरो ददर्श । तत्र सम्यक् पश्यंश्च स वल्गुलीकरणस्थस्य कस्यचिद् धूमपायिन कबन्धमपश्यत् । ततः स 'हा विद्यासाधकः कोऽपि मया निरपराधं हत' इति स्वं निनिन्द । ___ अथाऽग्रतो गत उद्यानं वीक्ष्याऽग्रे प्रविशन् सप्तभूमिकं प्रासाद दृष्ट्वा तमारूढस्तत्रैकां करन्यस्तकपोलां सुरीमिव द्वितीयामेकाकिनी कन्यां निषण्णां ददर्श । ततोऽपसृत्य का त्वमेकाकिनी, किं च तव शोककारणमिति पप्रच्छ । तत: सा भयाक्रान्ता सगद्गदं जगाद'मम महान् वृत्तान्तः, त्वं कोऽसि, किमिहाऽऽगत:' । ततो ब्रह्मदत्तोऽवोचत्-'अहं पाञ्चालनपतेब्रह्मणः पुत्रः' । तावदेव सोत्थाय सानन्दाश्रुभिः पाद्यं कुर्वतीव तस्य पादयोः पपात । तथा 'कुमार ! शरणं मे त्वमागत इति' ब्रुवाणोच्चै रुरोद । तेन पृष्टा च सा त्वन्मातृभ्रातुः पुष्पचूलस्य पुत्री पुष्पवत्यहं भवते दत्ताऽस्मि । एकदा चोद्यानं रन्तं गता तडागतटे भ्रमन्ती दृष्टविद्याधरेण नाट्योन्मत्ताभिधेनाऽपहत्य रावणेन सीतेवाऽत्राऽऽनीताऽस्मि । स च मम दृष्टिमसहमानो विद्यासाधनाय वंशजालिकां प्राविशत । ऊर्ध्वपादस्य धूमपायिनस्तस्याऽद्य विद्या सेत्स्यति । ततः स मां परिणेष्यति । ततः कुमारोऽपि तद्वधवृत्तान्तं न्यवेदयत् । तदा तयोर्हर्ष प्राप्तयोरन्योन्यमनुरागवतोर्गान्धर्वो विवाहोऽभूत् । ततस्तया साधू रममाण: कुमारस्तां रात्रिमत्यवाहयत् । अथ प्रभाते खेचरस्त्रीणां ध्वनि शुश्राव । किमकस्मादेवाऽऽकाशे ध्वनिरिति तेन पृष्टा च पुष्पवत्युवाच-'तव शत्रोर्नाट्योन्मत्तस्यैते द्वे खण्डा विशाखा च भगिन्यौ तन्निमित्तं नवमं पर्व - प्रथमः सर्गः २२३ विवाहोपस्करमादाय समागते स्तः । तत् तावत् तं क्षणमपसर्प । यावत् त्वद्गुणकीर्तनस्त्वय्यनयोर्भावमहं जानामि । रागे ज्ञाते मम रक्तपताकां प्रेरयिष्यामि विरागे च श्वेतम् । तदा त्वमन्यतो गच्छे:' । ततो ब्रह्मदत्तोऽवोचत्-'मा भैषीः, इमे तुष्टे रुष्टे वा मम किं करिष्यतः' । ततः पुष्पवत्युवाच-'नैताभ्यां ते भयं कथयामि, किन्त्वेतदीयाः खेचरास्त्वया विरोधं मा कार्युरिति वच्मि' । ततः कुमारस्तत्रैकतोऽस्थात् । पुष्पवती च तत्र गत्वा तयोर्भावमनुमाय श्वेतां पताकां चालयामास । ततः कुमारस्तत्प्रदेशाच्छनैः शनैरगमत् । अथ ब्रह्मदत्तो दुरवगाहं तं वनमतिक्रम्य सायं चैकं महासरः प्रापत् । तत्र प्रविश्य स्नात्वा पयः पीत्वा निर्गत्य कुमारो लताकुजादिमनोहरं पश्चिमं तीरमभ्यगात् । तत्र कुञ्जे च पुष्पाणि चिन्वती काऽपि सुन्दरी दृष्टा । साऽपि च दास्या सह जल्पन्ती तं पश्यन्त्यन्यतो ययौ । कुमारश्च तामेव पश्यन् यावदन्यतो याति तावद् वस्त्र-ताम्बूल-जलाद्यादाय दासी तत्र समुपागता तदर्पयित्वोवाच'या त्वयाऽधुना दृष्टा, तयेदं सर्वं प्रेषितं, त्वं मया तत्पितुर्मन्त्रिणो मन्दिरं गत्वाऽऽतिथ्यं स्वीकुरु' । तत: कुमारस्तया सह नागदेवस्य मन्त्रिणो गृहमगात् । मन्त्री च तमभ्युदस्थात् । दासी च 'राज्यपत्र्या श्रीकान्तया वासाय तव गृहेऽयं प्रेषित' इत्युक्त्वा जगाम । कुमारश्च तेन मन्त्रिणा विविधं राजेवोपास्यमानस्तां रात्रि क्षणमिवाऽतीयाय । प्रभाते च मन्त्री कुमारं राजकुलमनैषीत् । राजा चाऽादिना तमुपतस्थे । तथा वंशादिकमपृष्ट्वाऽपि नृपः कुमाराय स्वपुत्रीं ददौ । कुमारश्च तां परिणीतवान् । अन्यदा च क्रीडन् कुमारस्तां रहसि पप्रच्छ-'ममाऽज्ञातवंशादेस्त्वं पित्रा कथं दत्ताऽसि । ततः श्रीकान्तोवाच-'वसन्तपुरे

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159