Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 116
________________ षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः सबलस्तत्राऽऽगतो गोपुरं प्यधावयत् । ततो बलभद्रो भक्त पाने मुक्त्वा गजस्तम्भमुन्मूल्य क्ष्वेडां विधाय शत्रून् हन्तुं प्रवृत्तवान् । क्ष्वेडामाकर्ण्य कृष्णोऽपि धावितः पार्ष्णिप्रहारेण कपाटौ भङ्क्त्वा पुरं प्राविशत् । तदा परिघेन शत्रुसैन्यं हत्वा वशंगतमच्छदन्तं निर्भत्र्त्स्य तं स्वे राज्ये मुक्त्वा पुराद् बहिर्गत्वोद्याने भुक्त्वा द्वावपि प्रस्थाय कौशाम्बवनं प्रापतुः । २०४ तत्र च तृषार्तोऽस्मीति कृष्णेनोक्तो रामस्त्वमत्र सावधानस्तिष्ठेत्युक्त्वा जलार्थं ययौ । कृष्णश्च जानोरुपरि पादं न्यस्य पीतेन वाससा स्वमाच्छाद्य मार्गतरुमूले सुप्तो निद्रां ययौ । तत्र च जरासुतो लम्बकूर्ची व्याधो व्याघ्रचर्मवसनो धनुर्धरो मृगयार्थं तत्राऽऽगतः शयानं कृष्णं मृगबुद्ध्या बाणेन पादतले जघान । कृष्णश्च वेगादुत्थाय 'केनाsनागा अहमनाख्यायैव पादतले विद्ध:, नाऽहमज्ञातज्ञातिनामधेयं हतपूर्वी, तद्भवानपि निजं गोत्रं नाम चाऽऽख्यातुमर्हती'ति जगाद । ततो वृक्षान्तरितो लम्बकूर्चो जरासुतः स्वं गोत्रादिकमगात् । तथा 'नेमिवचः श्रुत्वा कृष्णरक्षार्थमहमिहाऽऽगमं, द्वादशाब्दानीह मम व्यतीतानि, इह कदाऽपि मनुष्यो न दृष्टः, त्वं स्वपरिचयं देही' त्युवाच स जरासुतः । ततः कृष्ण उवाच-'भ्रातर् ! एहि, यदर्थे त्वं वनवास्यभूः स ते भ्राता कृष्णोऽहं तव प्रयासो वृथा जात:' । तच्छ्रुत्वा चाऽऽशङ्कित जरासुतस्तत्राऽऽगत्य कृष्णं दृष्ट्वा मूच्छितः कथमपि लब्धसंज्ञः करुणं रुदन् किमिहाऽऽगत इति कृष्णं पप्रच्छ । कृष्णश्च द्वारकादाहादिकं सर्वं वृत्तान्तं कथयामास । ततो विलपन्तं मुहुर्मुहुः स्वं निन्दन्तं च जरासुतं कृष्ण उवाच भवितव्यता दुर्लङ्ख्या, यदुषु त्वमेवैकोऽवशिष्टोऽसि, चिरं जीव इतः सत्वरं याहि, अन्यथा रामो अष्टमं पर्व एकादशः सर्गः २०५ मद्बधक्रोधात् त्वां हन्यात् । ममाऽभिज्ञानं कौस्तुभं गृहाण, पाण्डवान् व्रज, सर्वं वृत्तान्तं तेभ्यो निवेदयेः, ते तव सहाया भवन्तु । त्वयेतो विपरीतैः पदैः कश्चिदध्वा गन्तव्यः, यथा पदानुसारी रामस्त्वां न प्राप्नुयात् । मद्वाचा सर्वान् पाण्डवादीन् क्षमयेः' । एवं कृष्णेन पुनः पुन: प्रतिबोधितः स कृष्णपादाच्छरमाकृष्य कौस्तुभमादाय ययौ । गते जरासुते च पादव्रणपीडितः कृष्णः प्राञ्जलिरुदङ्मुखो नमस्कारं जपन् तृणनिर्मिते संस्तरे पूर्ववदेव जानोरुपरि पादं न्यस्य वस्त्रेण शरीरमाच्छाद्य दध्यौ - 'प्रभुर्नेमिः प्रद्युम्नादयः कुमारा रुक्मिण्यादयश्च मत्स्त्रियो धन्याः, ये गृहवासं परित्यज्य भवच्छेदकं व्रतं जगृहु:' । एवं चिन्तयतश्च तस्य सर्वतोऽङ्गान्यभज्यन्त वायुश्चुकोप, तृषादिपीडितश्च भ्रश्यच्चैतन्यः कृष्णः पुनरचिन्तयत्- 'अहं जन्मत: केनाऽपि न पराभूतः, किन्तु द्वैपायनेन दुर्दशां नीतः । अधुनापि चेत् स प्राप्यते, तदेदृशोऽप्युत्थाय तं नाशयामि, कोऽपि तं रक्षितुं क्षमो न स्यात्' । एवं रौद्रध्यानगतः कृष्णः समाप्तवर्षसहस्त्रजीवितो विपद्य निकाचितैः कर्मभिस्तृतीयं नरकं प्राप । तस्य च कौमारे षोडशाब्दानि, माण्डलिकत्वे षट्पञ्चाशद्वर्षाणि जयेऽष्टौ वर्षाणि, अर्धचक्रित्वे च विंशत्यधिकनवशतानि वर्षाणि व्यतीतानि ॥ ११ ॥ इति अष्टमे पर्वणि द्वारकादाह-कृष्णावसानवर्णनात्मकः एकादशः सर्गः ॥११॥

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159