Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 115
________________ २०२ त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः तेऽवश्यं नरकं गच्छन्ति, त्वं वालुकाप्रभां नरकं गमी' । तच्छ्रुत्वा च कृष्णोऽत्यन्तं दुःखितोऽभूत् । ततः प्रभुः पुनरुवाच- 'कृष्ण ! मा विषीद, त्वं नरकादुवृत्त्य मर्त्यः सन् विपद्य वैमानिको भूत्वा च्युत्वाऽत्र भरते गङ्गाद्वारपुरनरस्य जितशत्रोः पुत्रोऽममनामतो द्वादशोऽर्हन् भविष्यसि । बलभद्रश्च ब्रह्मलोकं प्राप्य च्युत्वा मर्त्यो भूत्वा विपद्य देवत्वमाप्य पुनश्च्युत्वाऽत्र भरते पुरुषः सन्नुत्सर्पिण्यां तीर्थकरस्य तव तीर्थे मोक्षमेष्यति' । एवमुक्त्वा नेमिप्रभुस्ततोऽन्यत्र विजहार । कृष्णश्च तं नत्वा द्वारकां ययौ । अथ कृष्णः पुर्यां पूर्ववदेव धर्माराधनघोषणामकारयत् । द्वैपायनश्च विपद्याऽग्निकुमारेषूदपद्य पूर्ववैरं स्मृत्वा द्वारकामाययौ । तत्र च तपोनिरतेषु लोकेषु धर्ममाहात्म्यादुपसर्गं कर्तुमक्षमश्छिद्राणि प्रतीक्षमाण एकादशवर्षाणि यावत् तस्थौ । द्वादशे वर्षे प्राप्ते च तपोमाहात्म्याद् द्वैपायनो जितो नष्टश्चेति ध्यात्वा लोका मद्यपानमांसभक्षणादिपराः क्रीडापरा बभूवुः । तदवसरं प्राप्य च द्वैपायनोऽपि विविधानुत्पातानकरोत् । तैरङ्गारवृष्ट्यादिभिरुपसर्गे राम-कृष्णयोर्हल-चक्रादीनि रत्नानि नष्टानि । द्वैपायनःश्च दिग्भ्यः काष्ठान्यानीय पुरीं पूरयित्वा यदूनां बाह्याः षष्टिं मध्यगा द्वासप्तति कोटिं चैकत्रीकृत्याऽग्निमदीपयत् । ते सबालवृद्धाः पौराः संपिण्डिता निगडिता इव पदमपि गन्तुं न शेकुः । कृष्णश्च स रामो वसुदेवं देवकीं रोहिणीं च रथे समारोप्य दाहभिया प्रतस्थे । किन्तु देवेन स्तम्भितेषु हयेष्वचलितेषु स्वयं बल - कृष्णौ रथमाचकृषतुः । तेन च धुरीद्वये भग्नेऽपि स्वशक्त्या रथमाकृष्य द्वारं निन्यतुः । देवेन पिहिते द्वारे तत्कपाटं रामः पाणिप्रहारेण भङ्क्त्वा रथमाचकर्ष । तथाऽपि रथो द्वाराद् न अष्टमं पर्व एकादशः सर्गः २०३ निरगात् । ततो वसुदेवादयश्चतुर्विधाहारप्रत्याख्यानं कृत्वा नमस्कारपरायणास्तस्थुः । देवकृताग्निवर्षणेन विपद्य च स्वर्गं ययुः । रामकृष्णौ च पुर्या बहिर्जीर्णोद्याने गत्वा दह्यमानां पुरीं ददृशतुः । ततः पुरीदुर्दशां द्रष्टुमसमर्थौ तौ मिथो विचार्य 'पाण्डवाः सत्पुरुषा अस्साभिः पुरा तिरस्कृता अपि प्रागुपकारं स्मृत्वा सत्करिष्यन्त्येवे 'ति पाण्डुपुराभिधां पाण्डवपुरीमुद्दिश्य पूर्वदक्षिणां दिशं प्रतस्थाते । इतश्च पुर्यां ज्वलन्त्यां रामपुत्रः कुष्ठावारकश्चरमदेहो जृम्भकसुरेण पल्लवे देशे समवसृतस्य नेमिप्रभोः समीपं नीतः प्राव्रजत् । प्रागप्रव्रजिताः राम-कृष्णादिपल्यो नेमिं स्मरन्त्यो विहितानशना मृता: । तत्रैवं षष्टिर्द्वासप्ततिश्च कुलकोटयो दग्धाः । एवं षण्मास्या दग्धा पुरी जलधिना प्लाविता । *** इतश्च गच्छन् कृष्णो हस्तिकल्पं पुरं प्राप्तो रामाय स्वबुभुक्षां निवेदयामास । रामश्च 'त्वमत्र सावधानस्तिष्ठ, वैधुर्यं प्राप्तस्य मम वेडामाकर्ण्य शीघ्रमागच्छेः, अहं त्वदर्थं भक्तानयनाय गच्छामी'त्युक्त्वा पुरीं प्रविष्टो देवाकार: पौरैः सविस्मयं ददृशे । वह्निना द्वारका दग्धेति रामोऽयमायात इति किंवदन्ती लोके प्रवृत्ता । रामश्चाऽङ्गुलीयकं दत्त्वा कान्दविकाद् द्विविधं भोज्यं कटकं दत्त्वा शौण्डिकाद् द्विविधं मद्यं चाऽऽदाय यावद् गोपुरं याति तावदारक्षा विस्मिता नृपतिं ययुः । तस्मिन् पुरे च पाण्डुपुत्रैर्हतावशिष्टोऽच्छदन्तो धृतराष्ट्रपुत्रो नृपोऽभवत् । ते आरक्षास्तमूचुः - 'चौरवदयमूर्मिकां दत्त्वा भोज्यमग्रहीत्, मूर्त्याऽयं बलभद्रतुल्यः' । तच्छ्रुत्वाऽच्छदन्तो बलदेवं हन्तुं

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159