________________
२०२
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
तेऽवश्यं नरकं गच्छन्ति, त्वं वालुकाप्रभां नरकं गमी' । तच्छ्रुत्वा च कृष्णोऽत्यन्तं दुःखितोऽभूत् । ततः प्रभुः पुनरुवाच- 'कृष्ण ! मा विषीद, त्वं नरकादुवृत्त्य मर्त्यः सन् विपद्य वैमानिको भूत्वा च्युत्वाऽत्र भरते गङ्गाद्वारपुरनरस्य जितशत्रोः पुत्रोऽममनामतो द्वादशोऽर्हन् भविष्यसि । बलभद्रश्च ब्रह्मलोकं प्राप्य च्युत्वा मर्त्यो भूत्वा विपद्य देवत्वमाप्य पुनश्च्युत्वाऽत्र भरते पुरुषः सन्नुत्सर्पिण्यां तीर्थकरस्य तव तीर्थे मोक्षमेष्यति' । एवमुक्त्वा नेमिप्रभुस्ततोऽन्यत्र विजहार । कृष्णश्च तं नत्वा द्वारकां ययौ ।
अथ कृष्णः पुर्यां पूर्ववदेव धर्माराधनघोषणामकारयत् । द्वैपायनश्च विपद्याऽग्निकुमारेषूदपद्य पूर्ववैरं स्मृत्वा द्वारकामाययौ । तत्र च तपोनिरतेषु लोकेषु धर्ममाहात्म्यादुपसर्गं कर्तुमक्षमश्छिद्राणि प्रतीक्षमाण एकादशवर्षाणि यावत् तस्थौ । द्वादशे वर्षे प्राप्ते च तपोमाहात्म्याद् द्वैपायनो जितो नष्टश्चेति ध्यात्वा लोका मद्यपानमांसभक्षणादिपराः क्रीडापरा बभूवुः । तदवसरं प्राप्य च द्वैपायनोऽपि विविधानुत्पातानकरोत् । तैरङ्गारवृष्ट्यादिभिरुपसर्गे राम-कृष्णयोर्हल-चक्रादीनि रत्नानि नष्टानि । द्वैपायनःश्च दिग्भ्यः काष्ठान्यानीय पुरीं पूरयित्वा यदूनां बाह्याः षष्टिं मध्यगा द्वासप्तति कोटिं चैकत्रीकृत्याऽग्निमदीपयत् । ते सबालवृद्धाः पौराः संपिण्डिता निगडिता इव पदमपि गन्तुं न शेकुः ।
कृष्णश्च स रामो वसुदेवं देवकीं रोहिणीं च रथे समारोप्य दाहभिया प्रतस्थे । किन्तु देवेन स्तम्भितेषु हयेष्वचलितेषु स्वयं बल - कृष्णौ रथमाचकृषतुः । तेन च धुरीद्वये भग्नेऽपि स्वशक्त्या रथमाकृष्य द्वारं निन्यतुः । देवेन पिहिते द्वारे तत्कपाटं रामः पाणिप्रहारेण भङ्क्त्वा रथमाचकर्ष । तथाऽपि रथो द्वाराद् न
अष्टमं पर्व एकादशः सर्गः
२०३
निरगात् । ततो वसुदेवादयश्चतुर्विधाहारप्रत्याख्यानं कृत्वा नमस्कारपरायणास्तस्थुः । देवकृताग्निवर्षणेन विपद्य च स्वर्गं ययुः । रामकृष्णौ च पुर्या बहिर्जीर्णोद्याने गत्वा दह्यमानां पुरीं ददृशतुः । ततः पुरीदुर्दशां द्रष्टुमसमर्थौ तौ मिथो विचार्य 'पाण्डवाः सत्पुरुषा अस्साभिः पुरा तिरस्कृता अपि प्रागुपकारं स्मृत्वा सत्करिष्यन्त्येवे 'ति पाण्डुपुराभिधां पाण्डवपुरीमुद्दिश्य पूर्वदक्षिणां दिशं प्रतस्थाते ।
इतश्च पुर्यां ज्वलन्त्यां रामपुत्रः कुष्ठावारकश्चरमदेहो जृम्भकसुरेण पल्लवे देशे समवसृतस्य नेमिप्रभोः समीपं नीतः प्राव्रजत् । प्रागप्रव्रजिताः राम-कृष्णादिपल्यो नेमिं स्मरन्त्यो विहितानशना मृता: । तत्रैवं षष्टिर्द्वासप्ततिश्च कुलकोटयो दग्धाः । एवं षण्मास्या दग्धा पुरी जलधिना प्लाविता ।
***
इतश्च गच्छन् कृष्णो हस्तिकल्पं पुरं प्राप्तो रामाय स्वबुभुक्षां निवेदयामास । रामश्च 'त्वमत्र सावधानस्तिष्ठ, वैधुर्यं प्राप्तस्य मम वेडामाकर्ण्य शीघ्रमागच्छेः, अहं त्वदर्थं भक्तानयनाय गच्छामी'त्युक्त्वा पुरीं प्रविष्टो देवाकार: पौरैः सविस्मयं ददृशे । वह्निना द्वारका दग्धेति रामोऽयमायात इति किंवदन्ती लोके प्रवृत्ता । रामश्चाऽङ्गुलीयकं दत्त्वा कान्दविकाद् द्विविधं भोज्यं कटकं दत्त्वा शौण्डिकाद् द्विविधं मद्यं चाऽऽदाय यावद् गोपुरं याति तावदारक्षा विस्मिता नृपतिं ययुः ।
तस्मिन् पुरे च पाण्डुपुत्रैर्हतावशिष्टोऽच्छदन्तो धृतराष्ट्रपुत्रो नृपोऽभवत् । ते आरक्षास्तमूचुः - 'चौरवदयमूर्मिकां दत्त्वा भोज्यमग्रहीत्, मूर्त्याऽयं बलभद्रतुल्यः' । तच्छ्रुत्वाऽच्छदन्तो बलदेवं हन्तुं