________________
२०१
एकादशः सर्गः अथाऽन्यदा देशनान्ते कृष्णः कृताञ्जलिर्नेमिप्रभुं पप्रच्छ'द्वारकाया यदूनां मम चाऽन्यकृतः स्वयं कालवशेन वा क्षयः स्यात् ?' ततः प्रभुरुवाच 'शौर्यपुरस्य बहिराश्रमे पराशरनामा तापसो यमुनाद्वीपे काञ्चिद् नीचकुला कन्यां भेजे । तयोश्च द्वैपायनो नाम पुत्रोऽभूत् । स परिव्राड् ब्रह्मचारी दान्तश्च यदुसौहृदात् शौर्यपुरे निवसन् मत्तैः शाम्बाद्यैरुपद्रुतः क्रोधाद् द्वारकां यदुभिः सह धक्ष्यति । तव च स्वभ्रातुर्जरत्कुमाराद् मृत्युभविष्यति' ।
ततो यदुभिर्जरत्कुमारः कुलाङ्गारोऽयमित्यवज्ञया ददृशे । जरत्कुमारश्च वसुदेवपुत्रोऽहं स्वभ्रातृहत्यां प्रयस्याऽन्यथा करिष्यामीति चिन्तयन्नुत्थाय प्रभुं नत्वा तृणयुग्मधरो धनुरादाय कृष्णरक्षार्थं वनमियाय । कृष्णोऽपि स्वामिनं नत्वा द्वारकां गत्वाऽनर्थमूलं मद्यपानं न्यवारयत् । सर्वे जनाश्च कृष्णाज्ञया समीपपर्वते कदम्बवनमध्ये कादम्बर्याख्यायां कन्दरायां शिलाकुण्डेषु पुराकृतानि मद्यानि तत्यजुः। ___ अथ सिद्धार्थ: सारथिर्धाता च बलदेवं 'पुर्याः कुलस्य च दुर्दशां द्रष्टुं नाऽहं क्षम इति मम दीक्षार्थमनुजानीही'त्युवाच । ततश्च 'देवीभूतस्त्वं विपद्गतं मां सम्बोधयेरि'त्युक्त्वा बलभद्रस्तं विसृष्टवान् । ततः सिद्धार्थः स्वामिपादान्ते प्रव्रज्य षण्मासी यावत् तीव्र तपस्तप्त्वा विपद्य दिवं ययौ ।
अष्टमं पर्व - एकादशः सर्गः
इतश्च पुरा शिलाकुण्डे जनैस्त्यक्ता सुरा नानाद्रुम-पुष्प-पत्रादिपतनात् स्वाद्वी जाता । तदानीं च वैशाखे मासि शाम्बस्य कोऽपि पुरुषोऽटंस्तत्राऽऽगतस्तृषार्त्तः सुरां तां पपौ । तेन प्रमुदितश्च मद्येन चर्मपात्रं भृत्वा स गृहं गत्वा शाम्बस्योपायनं ददौ । शाम्बश्च तत् पीत्वा प्रसन्नः कुत्रेदं त्वया लब्धमिति पृष्टवान् । पुरुषोऽपि तत् स्थानमाख्यत् । ततः शाम्बो द्वितीयदिने कुमारैः सह कादम्बरी कन्दरां गत्वा भृत्यैरानाय्य सर्वैर्जनैः सह सुरां पपौ । अग्रे च गिरौ स्थितं द्वैपायनर्षि ध्यानस्थं दृष्ट्वा मत्तास्ते कुमारा: शाम्बेन नगरी कुलं च हन्तैव मुनिहन्यतामित्युक्तम् । ततस्ते लेष्टुभि: पादताङनैश्चपेटाभिर्मुष्टिभिश्च ताडयामासुः । महीतले पतितं मृतप्रायं तं मुनि विधाय च ते सर्वे द्वारकां गत्वा स्वं स्वं गृहं प्रविविशुः ।
इत: कृष्णश्च चरैस्तज्ज्ञात्वा कुमाराणामुद्दण्डतां शोचन् सरामो द्वैपायनं मुनिमुपगम्य तं कोपरक्तनेत्रं दृष्ट्वा सान्त्वयितुमारेभे । कृष्णेन शम्यमानोऽप्यनुपशान्तः स कृष्णमुवाच-'तव सान्त्वनवचनैरलं, तव पुत्रस्ताड्यमानेन मया युवां विना सलोकां द्वारकां दग्धं निदानं कृतम्' । ततः शोकसन्तप्तः कृष्णः स्वगृहं ययौ । द्वैपायनस्य निदानं च द्वारकायां प्रकटितम् । कृष्णश्च द्वितीयदिने 'जना धर्मनिरतास्तिष्ठन्त्वि'त्यघोषयत् । नेमिप्रभुश्च तदानीं रैवतकाद्रौ समवासार्षीत् । कृष्णश्च तत्र गत्वा देशनां शुश्राव । तत्र च विरक्ताः कतिपये प्रद्युम्न-शाम्बादयः कुमाराः प्राव्रजन् । रुक्मिणीजाम्बवत्याद्या यदुस्त्रियोऽपि भवोद्विग्ना प्रवव्रजुः ।
अथ तदानीं कृष्णेन पृष्टः प्रभुरुवाच-'द्वैपायनो द्वादशेऽब्दे इमां द्वारकां धक्ष्यति' । तथा प्रभुः प्रव्रज्यालाभात् खिद्यमानं कृष्णमुवाच-'वासुदेवाः कृतनिदानत्वात् कदाऽपि न प्रव्रजन्ति,