________________
१९८
पुरुष-गद्यात्मकसारोद्धारः
ततः प्रभुं नत्वा द्वारकां प्रविशन् कृष्णो ढण्ढणं भिक्षार्थं गच्छन्तं दृष्ट्वा गजादवरुह्य भक्त्या नमश्चकार । एकः श्रेष्ठी च तद् दृष्ट्वा चिन्तितवान्- 'धन्योऽयं ढण्ढणो यः कृष्णेन वन्दित:' । ढण्ढणश्च भ्रमंस्तस्यैव श्रेष्ठिनो गृहमगात् । स श्रेष्ठी च सबहुमानं मोदकैस्तं प्रत्यलाभयत् । ततो ढण्ढण आगत्य प्रभुमुवाच- 'किं मेऽन्तरायकर्म क्षीणं येन मया भिक्षा प्राप्ता' ।
ततः प्रभुरुवाच- 'तवाऽन्तरायकर्म न क्षीणं, किन्त्वियं कृष्णस्य लब्धि:, त्वं कृष्णेन वन्दितोऽसीत्यतः श्रेष्ठी त्वां प्रत्यलाभयत् । ततो रागादिरहितो ढण्ढणः परलब्धिरसाविति भिक्षां स्थण्डिले परिष्ठापयितुं प्रारेभे । तदानीं च 'पूर्वार्जितानि जीवानां कर्माणि दुर्निर्जराणी 'ति स्थिरेण मनसा ध्यायतस्तस्य केवलमुत्पन्नम् । ततो ढण्ढणमुनिर्नेमिं प्रदक्षिणीकृत्य देवैः पूजितः केवलिपर्षदि निषसाद । भगवांश्च ग्रामादिषु विहरन् पुनः पुनरेत्य द्वारकायां समवासार्षीत् ।
***
अथैकदा द्वारकायां समवसृते प्रभौ वृष्टिर्जाता, रथनेमिमुनिश्च भिक्षार्थं भ्रान्त्वा स्वामिनं प्रत्यागच्छन् वृष्ट्या पीडित एकां गुहां प्रविवेश । राजीमती च प्रभुं वन्दित्वा निवृत्ता साध्वीभिः सह वृष्टिभयात् पलायिता तामेव गुहां प्रविष्टा । तत्र च पूर्वं प्रविष्टं रथनेमिमन्धकारवशादपश्यन्ती सा वस्त्राणि शोषयितुं मुक्त्वोर्ध्वं स्थिता । रथनेमिश्च विवस्त्रां तां दृष्ट्वा कामार्त्तोऽवदत्- 'त्वं मया पुराऽपि प्रार्थिता, अधुना सम्भोगावसरोऽस्ति' ।
ततो राजीमती स्वरेण रथनेमिमुपलक्ष्य झटित्यङ्गानि गोपायित्वोवाच- 'कुलीनानां नेदमुचितं कर्तुम् । त्वं सर्वज्ञस्याऽनुजः
१९९
अष्टमं पर्व दशमः सर्गः शिष्यश्चाऽसि, अद्याऽपि तव लोकद्वयविनाशिनी बुद्धिरवतिष्ठते ? अहं सर्वज्ञशिष्या तवेच्छां पूरयितुं नाऽलं, त्वं चाऽनेन कामेन भवसमुद्रे निमङ्क्ष्यसि । तयैवं निर्भत्सितो बोधितश्च रथनेमिः पश्चात्तापं कुर्वन् सर्वां भोगेच्छां त्यक्त्वा तीव्रं व्रतं पालयामास । शुद्धमनाश्च स प्रभोरग्रे तद्दुश्चरितं समालोच्य वत्सरं यावच्छद्मस्थः स्थित्वा केवलं प्राप ।
अथ नेमिप्रभुर्विहारक्रमतो रैवतकाद्रिं प्राप्य तत्र समवासार्षीत् । ततः कृष्णः पालक- शाम्बादीन् पुत्रानुवाच- 'प्रभा यः प्रभुं प्रथमं वन्दिता तस्येष्टमश्वं दास्यामि'। तच्छ्रुत्वा शाम्बकुमारः प्रातः शय्यात उत्थाय गृहेऽपि तिष्ठन् नेमिप्रभुं भावतो ववन्दे । पालकश्च रात्रावुत्थाय हयेन गत्वाऽभव्यत्वात् प्रभुं हृद्याक्रोशन्नवन्दत । तत: पालकेन दर्पकाश्वं याचितः कृष्णः केनाऽदौ वन्दित इति प्रभुं पप्रच्छ । ततः प्रभुरादौ पालकेन द्रव्यतः शाम्बेन च भावतो वन्दितोऽहमित्युवाच । ततः पुनरपि किमेतदिति कृष्णेन पृष्टः प्रभुः 'पालकोऽभव्यः शाम्बो भव्य' इत्युवाच । ततः क्रुद्धः कृष्णस्तं भावहीनं पालकं निर्वास्य शाम्बं यथेष्टं हयं दत्त्वा महामाण्डलिकं व्यधात् ॥ १० ॥
इति अष्टमे पर्वणि द्रौपदीप्रत्याहरणगजसुकुमालादिचरितवर्णनात्मको दशमः सर्गः ॥१०॥