________________
me
१९७
अष्टमं पर्व - दशमः सर्गः पृष्टः प्रभुः पुनरुवाच-'अस्य शरीरक्लेशः फलं, यतोऽसौ त्वामनुसृत्य वन्दते' । ततः कृष्णो भगवन्तं नत्वा सपरिच्छदो द्वारकां ययौ ।
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ___ ततो द्वितीयेऽह्नि सभास्थ: कृष्णो नृपाणां पुरो वीरचरितमवदत् । तेऽपि सावधाना अश्रौषुः । ततः कृष्णोऽनेन कुविन्देन वीरेण बदरीवने भूमिशस्त्रेण रक्तफणो नागो हतः, चक्रोत्खाता कलुषं जलं वहन्ती च गङ्गा वामपादेन धारिता, कलशीपुरे घोषवती सेना वामकरेण निरुद्धा, तदयं क्षत्रियो मम योग्यो जामातेत्युक्त्वा केतुमञ्जरी गृहाणेति वीरमुवाच । स चाऽनिच्छन्नपि कृष्णाग्रहात् तां परिणीय केतुमञ्जरी स्वगृहं निनाय । ___केतुमञ्जरी च तद्गृहे शय्याधिरूद्वैव तस्थौ । वीरश्चाऽपि सदा तदादेशकरोऽभूत् । कृष्णश्च तज्ज्ञात्वा 'प्रसह्य तां निजं कार्य कारय, अन्यथा तव गुप्तिप्रवेशो दुनिवार' इत्युक्तवान् । ततश्च वीरः कृष्णाशयं ज्ञात्वा तां तथैव निजं कार्यं कारयामास । तत: खिन्ना दुःखिता च केतुमञ्जरी कृष्णं प्रार्थयित्वा नेमिसमीपे दीक्षा ललौ ।
अन्यदा च कृष्णः साधूनां द्वादशावर्त्तवन्दनं ददौ । अन्ये नृपाश्च निष्क्रियास्तस्थुः । वीरस्तु कृष्णमनुवर्त्तमानस्तथैव साधूनां द्वादशावर्त्तवन्दनं ददौ । ततः कृष्णो नेमिप्रभुमुवाच-'षष्ट्युत्तरशतत्रययुद्धैरपि यथाऽहं न श्रान्तस्तथाऽनेन वन्दनेन श्रान्तोऽस्मि' । तत: प्रभुरुवाच-'कृष्ण ! त्वयाऽद्य भूरि पुण्यं क्षायिकसम्यक्त्वं तीर्थकृन्नामकर्म चाऽजितम् । सप्तमनरकादुद्वृत्त्य तृतीयनरकोचितं बद्धमायुस्त्वया, प्रान्ते निकाचितं करिष्यसि ।।
ततः कृष्ण उवाच-'पुनर्वन्दनं करोमि, यथा पूर्ववदेव मम नरकायुः क्षीयते' । ततः प्रभुरुवाच-'तवेतोऽग्रे वन्दनं द्रव्यात्मकं भवेत्, फलं तु भाववन्दनेन प्राप्यते' । ततः कृष्णेन वीरस्य फलं
अथ कृष्णस्य ढण्ढणाख्यायां पत्न्यां जातः पुत्रो ढण्ढणस्तरुणो बह्वी राजपुत्री: परिणिनाय । एकदा च स नेमिजिनसमीपे धर्मं श्रुत्वा विरक्तः पित्रा कृतनिष्क्रमणोत्सवो दीक्षां ललौ । स्वामिना सार्धं विहरमाणस्य लोकप्रियस्य तस्याऽन्तरायकर्मोदयो जातः । तेन स यत्र यत्र ययौ, क्वाऽपि किमपि न प्राप । तेन सह गच्छतामन्येषामपि मुनीनां सैवाऽवस्थाऽभूत् । ततः साधवो नेमिजिनं पप्रच्छु:-'तव जिनस्याऽयं शिष्यः कृष्णस्य च वासुदेवस्य पुत्रो ढण्ढणः, तथाऽपि महेभ्यादिगृहेऽपि भिक्षां न लभते, तत्र किं कारणम्' ।।
ततः प्रभुरुवाच-'मगधेषु धान्यपूरकाख्ये ग्रामे नृपायुक्तः पाराशरो नाम विप्रो राज्यक्षेत्राणि ग्रामीणैरवापयत् । स चैकदा भोजने प्राप्तेऽपि भोजनाय ग्राम्यान् नाऽमुञ्चत् । क्षुत्-तृषार्तेः श्रान्तैरपि च हालिकैर्वृषभैश्च स पृथक् पृथक् बलात् क्षेत्राणि कर्षयामास । तेनाऽन्तरायकर्माऽर्जयित्वा विपद्य भवं भ्रान्त्वा सोऽयं ढण्ढणोऽभूत् । तदन्तरायं कर्माऽस्याऽधुनोदितम्' । तच्छ्रुत्वाऽत्यन्तं संविग्नो ढण्ढणोऽहं परलब्ध्या न भोक्ष्ये इत्यभिग्रहमग्रहीत् । तदनन्तरमलाभपरीसहं सहमान: परलब्ध्या भोजनमकुर्वन् स कमपि कालं निनाय ।
अन्यदा च कृष्णो नेमिप्रभुमेषु मुनिषु को दुष्करकारक इत्यपृच्छत् । ततः प्रभुरुवाच-'सर्वे दुष्करकराः, किन्तु ढण्ढणोऽतिदुष्करकरः, । यतोऽसावियन्तं कालमलाभपरीषहं सहमानोऽस्ति'।