________________
१९४
षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
ततः प्रभुरुवाच- 'धन्वन्तरिः सप्तम्यां नरकभूमावप्रतिष्ठानमावासं गमिष्यति, वैतरणिश्च विन्ध्यवने कपिर्जातस्तारुण्यं प्राप्य यूथपतिर्भविष्यति । तत्र वने चैकदा समागतेषु साधुष्वेकः पादे भग्नशल्यो भविष्यति, स्वं प्रतीक्षमाणानन्यान् मुनींश्च स 'मां मुक्त्वा यूयं यात, अन्यथा सार्थभ्रष्टाः सर्वे मरिष्यथे 'ति वक्ष्यति । ततश्च साधवस्तं छायायामुच्चभूमौ मुक्त्वा गमिष्यन्ति । स कपियूथपतिश्च तत्राऽऽगमिष्यति, वानराश्च तं मुनिं दृष्ट्वा क्लिकिलारावं करिष्यन्ति । ततो रुष्टो यूथपतिर्मुनेरग्रे भूत्वा तं दृष्ट्वा कुत्रेदृग्जनो मया दृष्ट इति ध्यायन् जातिस्मरत्वं प्राप्य तं मुनिं चिकित्सया सज्जं करिष्यति । तथाऽहं पुरा द्वारकायां वैतरणिर्वैद्योऽभूवमित्यक्षराणि मुनेरग्रे लिखिस्यति । ततो मुनिना धर्मं श्रुत्वा त्र्यहमनशनं कृत्वा विपद्य स कपिः सहस्रारं गमिष्यति । तत्र गतश्चाऽवधिना पूर्वभवं ज्ञात्वा तं मुनिं वन्दित्वा कृतज्ञतां निवेदयित्वा स्वसाधुभिर्योजयिष्यति । स साधुश्च तां कपिवार्तां साधूनां कथयिष्यति' । कृष्णश्च तच्छ्रुत्वा जैनधर्मश्रद्धानो नेमिं नत्वा स्वस्थानं ययौ । भगवानपि ततोऽन्यत्र विजहार ।
अथाऽन्यदा वर्षर्त्तोरादावेव नेमिप्रभुर्द्वारकामागत्य समवासार्षीत् । कृष्णश्च प्रभुं सेवमानो वर्षासु साधवः किमिति न विहरन्तीति पप्रच्छ । ततः प्रभुरुवाच- 'वर्षासु पृथिवी नानाविधैजीवैर्व्याप्ता भवति, तस्माज्जीवाभयप्रदाः साधवो न विहरन्ति' । ततः कृष्णः पुनरुवाच–‘सपरिवारेण मया गतागतं कुर्वता भूयान् जीवक्षयः क्रियते, तदहं वर्षासु गृहाद् बहिर्न निर्गमिष्यामि' । एवमभिगृह्य स कृष्णो निजगृहं जगाम । तथा वर्षतुं यावत् कस्याऽपि मम गृहे प्रवेशो न दातव्य इति द्वारपालानादिशत् ।
अष्टमं पर्व दशमः सर्गः
१९५
तत्र नगरे च वैष्णवो वीरो नाम कुविन्दोऽभूत् स कृष्णस्य दर्शना - ऽर्चनं विना कदाऽपि नाऽभुक्त प्रवेशमलभमानश्च स कृष्णगृहद्वारेऽभुञ्जान एव कृष्णमुद्दिश्य पूजां कुर्वंस्तत्रैव तस्थौ । कृष्णश्च वर्षासु व्यतीतासु गृहाद् निर्ययौ । तं वीरं दृष्ट्वा च किं कृशोऽसीति पप्रच्छ । द्वारपालेन तदवस्थां ज्ञात्वा च दयालुः कृष्णस्तं स्वगृहेऽनिषिद्धप्रवेशं चकार ।
अथ कृष्णः सपरिच्छदो गत्वा वन्दित्वा यतिधर्मं श्रुत्वा नेमिप्रभुमुवाच- 'दीक्षाग्रहणे नाऽहं समर्थः तथाऽप्यन्यान् दीक्षां ग्राहयितुमनुमोदयितुं च नियमं गृह्णामि, यं कमपि प्रव्रजन्तं न वारयिष्यामि, किन्तु पुत्रस्येव तस्य निष्क्रमणमहोत्सवं करिष्यामि' । एवमभिगृह्य गृहं गतः कृष्णः परिणेयाः स्वकन्या नन्तुमागताः 'स्वामिन्यो दास्यो वा भविष्यथे 'ति पप्रच्छ । स्वामिन्यो भविष्याम इति तासां प्रतिवचः श्रुत्वा च कृष्णो नेमिजिनपार्श्वे दीक्षां गृह्णीष्वेति ता उक्त्वा प्राव्राजयत् ।
एकदा चैका राज्ञी केतुमञ्जरीं स्वसुतामुवाच - 'पित्रा पृष्टाऽहं दासी भविष्यामीति ब्रूयाः । ततो विवाहयोग्या सा पितुरन्तिके प्रेषिता कृष्णेन पृष्टा मातृशिक्षितमुवाच । तच्छ्रुत्वा च मत्पुत्र्यो भवाटवीमटिष्यन्तीति न साधु, तदियं यथाऽन्याभ्यो न वदति तथाऽस्तु' इति ध्यात्वा वीरं कुविन्दं त्वया किं प्रकृष्टं कृतमिति पप्रच्छ । ततो वीर उवाच - 'मया पुरा बदरीतरुस्थः कृकलासः प्रस्तरेण हत्वा पातितः, स च मृतः, मार्गे प्रधिकृतरेखायां वहज्जलं मया वामपादेनाऽऽक्रम्य धृतं तच्च दूरमपासरत् । वस्त्रपातघटस्याऽन्तः प्रविष्टा रणन्त्यो मक्षिका द्वारे वामहस्तं कृत्वा मया चिरं निरुद्धा:' ।