________________
ommmm.९३
१९२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कृत्वा पुरीं प्रविश्य सोमं मृतं दृष्ट्वा पादयोर्बद्ध्वा पुरुषैर्नगरे भ्रमयित्वा बहि: प्रक्षेपयामास । ___ अथ तेन शोकेन बहवो यदवो वसुदेवं विना नव दशार्हाश्च नेमिप्रभुसमीपे प्रव्रज्यां जगृहुः । शिवादेवी सप्त सहोदरा: कृष्णकुमाराश्च प्रभोः सन्निधौ प्राव्रजन् । कृष्णश्च कन्यापरिणयनप्रत्याख्यानाभिग्रहमाददे । तस्य सर्वाः कन्याः प्रभोरन्तिके प्रवव्रजुः । कनकवती-रोहिणी-देवकीर्विहाय सर्वा वसुदेवस्य पल्यश्च प्रवव्रजुः । कनकवत्याश्च गृहेऽपि भवस्वरूपं चिन्तयन्त्याः कर्मक्षयात् केवलमुत्पेदे । नेमिप्रभुणाऽऽदिष्टैर्देवैः कृतमहिमा च सा स्वयं प्रव्रज्यामादाय स्वामिनोऽन्तिकं ययौ । नेमिं दृष्ट्वा च वनं गता त्रिंशतं दिनानि कृतानशना सा कनकवती मोक्षं प्राप । रामपौत्रो नैषधिः सागरचन्द्रो विरक्तोऽणुव्रतधरो बहि: श्मशानं जगाम । तदा कायोत्सर्गस्थो नभःसेनेन दृष्टस्स शिरसि धृतचिताङ्गारपूर्णघटक पाल: कृतः । तदुपसर्ग सहमानश्च स सागरः पञ्चपरमेष्ठिनमस्कार स्मरन् विपद्य स्वर्ग प्राप ।
अष्टमं पर्व - दशमः सर्गः ततः कृष्णः स्वयं धावमानस्तेन युद्धे मां विजित्याऽश्वं गृहाणेत्युक्तो मिलितयुद्धाय प्रेरितश्चोवाच-'त्वयाऽहं जितोऽस्मि, हयं नय, अहं सर्वनाशेऽपि नीचयुद्धेन योर्बु नोत्सहे' । तेन च प्रसन्नः स सुरः शक्रवृत्तान्तमाख्याय वरं वृणीष्वेति कृष्णमुवाच । __तत: कृष्णेन द्वारकायां रोगोपसर्गशान्त्यै किञ्चिद् देहीति याचितश्च स देवो भेरी प्रदायाऽवोचत्-'षण्मास्यन्ते षण्मास्यन्ते इयं भेरी त्वया वादनीया । अस्याः शब्दश्रवणेन च प्राग्भवा उपसर्गा विनक्ष्यन्ति षण्मासीं यावदने नवा न भविष्यन्ति च' । एवमुक्त्वा स देवस्तिरोदधौ । कृष्णेन च वादितायां तस्यां भेयाँ नगरे रोगोपसर्गा विनष्टाः ।
अथ भेरीख्याति श्रुत्वा दाहज्वरपीडितः कोऽप्याढ्यो देशान्तरादागत्य भेरीपालं भूरिधनेन भेदयित्वा भेरीमादाय वादयित्वा नीरुजोऽभवत् । अनन्तरं च स भेरीपालोऽर्थलोभादन्येभ्योऽपि भेरी ददौ । अन्यदा च नगरे उपसर्गे जाते कृष्णस्तामवादयत् । किन्तु पुनः पुनर्वादनेन जीर्णायास्तस्या ध्वनिः सभाभवनादपि बहिर्न ययौ । ततः प्राग्वृत्तान्तं ज्ञात्वा कृष्णो भेरीपालं हत्वाऽष्टमभक्तेन प्रसादितेन तेन देवेनाऽन्यां भेरीं प्राप्य वादयित्वोपद्रवं शमयामास ।
अथ कृष्णश्चिकित्सार्थं धन्वन्तरि-वैतरणिवैद्यावप्यादिशत् । तयोर्भव्यो वैतरणिर्यथोचितां चिकित्सां चकार । धन्वन्तरिस्तु पापानुबन्धिनी चिकित्सां कुर्वन् साधुभिर्नेयं चिकित्साऽस्माकं विहिते'ति निषिद्ध उवाच-'साधुयोग्यां चिकित्सां न जानामि, अतो भवद्भिर्मम चिकित्सा न ग्राह्या' । एवं तौ द्वावपि वैद्यौ तत्र चिकित्सामकुरुताम् । ततः कृष्णो नेमिजिनमेतयोर्गतिमपृच्छत् ।
अन्यदा च शक्र: सभायामुवाच-'कृष्णो दोषान् विहाय गुणमेव कीर्तयति, न च नीचयुद्धेन युध्यते' । तदश्रद्दधानश्च कश्चिद् देवो द्वारकामगात् । तदानीमेव कृष्णः स्वेच्छया रन्तुं रथस्थ: प्रचचाल। तेन देवेन च पथि दुर्गन्धेन पौरान बाधमान: कृष्णाङ्गो मृतः श्वा विकृतः । तं दृष्ट्वा च कृष्णोऽवोचत्-'अस्य कृष्णस्य शुनो मुखे पाण्डुरा दन्ता: शोभन्ते' । ततो देवोऽश्वचोरको भूत्वा कृष्णस्याऽश्वरत्नं जहार । अनुपदमनुधावितानि सैन्यानि बभज च ।