________________
१९० Manoraman
me१९१
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रत्यलाभयत् । तदनन्तरं च देवयश:-शत्रुसेनौ समागतौ नत्वा कृताञ्जलिर्देवक्यपृच्छत्-'भवन्तो दिङ्मोहात् पुनः पुनरिहाऽऽगताः, अथवा यूयं भिन्ना एव, ममैव मतिभ्रमः, अथवा समृद्धेऽप्यस्मिन् पुरे मुनय उचितं भक्तपानादिकं नाऽऽप्नुवन्ति' । ततस्तावूचतुः'नाऽस्माकं दिग्भ्रमः, वयं षट् सोदरा भद्दिलपुरवास्तव्याः सुलसानागयोः सुताः । वयं षडेव नेमेधर्मं श्रुत्वा प्रव्रज्यामग्रहीष्म । त्रीणि युग्मानि भूत्वा च तव गृहमागताः' । __ ततो देवकी दध्यौ-'कथं नामाऽमी षडपि कृष्णस्य तुल्याः ? ममाऽतिमुक्तमुनिना जीवन्तोऽष्टौ पुत्रा उक्ताः, किमेते मम पुत्राः स्युः' । 'एवं विचार्य सा द्वितीये दिने तत् प्रष्टुं नेमिमुपाययौ । प्रभुश्च तद्भावं ज्ञात्वोवाच-'तवाऽमी पुत्रा जीवन्तो नैगमेषिणा सुलसाया दत्ताः' । तत: सा तान् षडपि मुनीन् पश्यन्ती जातस्नेहा वन्दित्वा 'हे पुत्रा: ? साधु दृष्टाः । मम पुत्राणां राज्यं दीक्षा च किन्त्वेकोऽपि पुत्रो मया न लालित इति खिद्ये' । ततः प्रभुरुवाच-'मा खेदमावह, तवैतत् पूवकर्मफलम् । त्वं पूर्वजन्मनि सपत्न्याः सप्त रत्नान्यहार्षीः, रुदत्याश्च तस्या एकं रत्नं दत्तम्' । तच्छ्रुत्वा देवकी पुराकृतं निन्दन्ती स्वगृहं गत्वा पुत्रजन्मेच्छन्ती तस्थौ। ___ अथ कृष्णेन किमेवं खिन्नाऽसीति पृष्टा देवक्युवाच-'मम जीवनं निष्फलं, त्वं हि नन्दगृहे वर्धितः, तवाऽग्रजाश्च नागगृहे पालिताः । मया तु कोकिलयेवैकमप्यपत्यं न लालितं, तत्पुत्रमिच्छामि, यथा सा लालसा मम पूर्येत' । तच्छ्रुत्वा तव प्रयोजनमेषोऽहं साधयामीत्युक्त्वा ततः प्रयाय कृष्णः शक्रसेनापति नैगमेषिणमाराधयामास । देवश्च प्रसन्न स्तव मातुरष्टमः पुत्रो भविष्यति, स च प्रपन्नयौवनः प्रव्रजिष्यतीति वरं ददौ ।
अष्टमं पर्व - दशमः सर्गः
तदनन्तरं च स्वर्गाद् महर्द्धिको देवश्च्युत्वा देवक्याः कुक्षाववातरत् । पूर्णे च समये देवक्याः पुत्रो जातः । देवकी च देवोपमं गजसुकुमालाख्यं तं स्वयमतिप्रेम्णा लालयामास । यौवनं प्राप्तश्च पित्राज्ञया द्रुमनृपपुत्री प्रभावतीं परिणिनाय । तथाऽनिच्छन्नपि मातृ-भ्रात्रोरुपरोधात् स विप्रस्य सोमशर्मणः क्षत्रियाकुक्षिजां सोमाख्यां पुत्री परिणिनाय । तदानीमेव च तत्र समवसृतस्य नेमिप्रभोः स सभार्यो धर्मदेशनां श्रुत्वा जातवैराग्यः पितरौ समनुज्ञाप्य सभार्यो गजसुकुमालो नेमिप्रभुपावें दीक्षामग्रहीत् । तस्मिन् प्रव्रजिते च तद्वियोगासहिष्णवः पितरौ कृष्णादयश्चाऽत्यन्तं रुरुदुः । गजश्च सायं श्मशाने स्वाम्याज्ञया प्रतिमां चकार ।
तत्र सोमशर्मणा दृष्टश्च 'पाखण्ड्ययं मत्पुत्रीविडम्बनाय परिणीतवानि ति क्रोधाद् गजस्य शिरसि ज्वलिताङ्गारपूर्णघटकपालो निहितः । तेन च दह्यमानोऽप्यविचलित: स कर्माणि क्षपयित्वा केवलमाप्य परं पदं ययौ । प्रातश्च गजसुकुमालं दिदृक्षुः प्रस्थितः कृष्णो द्वारकाया बहिर्मूर्नेष्टिकां वहन्तं देवालयं प्रतिगच्छन्तं विप्रं दृष्ट्वा कृपया स्वयमापाकादिष्टिकां निनाय । तमनुसृत्य चाऽन्येऽपि लोकास्तथा चक्रुः । एवं तं विप्रं कृतार्थं कृत्वा नेमिं प्राप्य कृष्णस्तत्र गजमदृष्ट्वा क्व मे भ्रातेति पप्रच्छ ।
प्रभुश्च सोमद्विजाद् गजस्य मोक्षमाख्यात् । तच्छ्रुत्वा मूच्छी प्राप्य लब्धसंज्ञः सोमशर्मणे कुपित: 'स ते भ्रातुर्मोक्षप्राप्तौ सहायो न कोपयोग्य' इति प्रबोधितो नेमिना । 'यः स्वमुद्बद्धं व्रजन् त्वां पुरि प्रविशन्तं वीक्ष्य भिन्नमूर्धा म्रियेत स ते भ्रातृहन्ते'ति नेमिप्रभुणाऽऽख्यातो हरिः । ततः स रुदन् भ्रातुः संस्कारादिकं