________________
१८८
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः तदानीं चम्पायां पूर्णभद्रके उद्याने जिनो मुनिसुव्रतः समवससार । तत्रोपविष्टो विष्णुः कपिलश्च कस्याऽयं शङ्खनादः श्रूयते इति स्वामिनं पप्रच्छ । कृष्णस्य वासुदेवस्येति जिनेनोक्तश्च स किमेकत्र द्वौ वासुदेवौ स्यातामिति पुनः पप्रच्छ । ततो भगवता द्रौपदी-कृष्ण-पद्मानां वृत्तान्ते कथिते कपिलः कृष्णस्याऽभ्यागतस्य स्वागतिको भवामि किमिति पप्रच्छ । स्वामिना च 'नैकत्र द्वितीयोऽर्हद् न चक्री न वा वासुदेवः कारणागतो मिलेदि'ति निषिद्धोऽपि स कृष्णं द्रष्टुमब्धितटं जगाम । मध्ये समुद्रे गच्छतः कृष्णस्य रथध्वजान् दृष्ट्वा च 'कपिलो विष्णुरहं त्वां द्रष्टुमागतः, तद्वलस्वेत्यक्षरात्मकं शङ्ख दध्मौ । कृष्णोऽपि च 'वयं दूरमागताः, त्वया न किमपि वाच्यमि'ति शङ्ख दध्मौ । तदाकर्ण्य वलितः कपिलः कङ्कापुरीं गत्वा पद्म किमेतदित्यपृच्छत् । पद्मोऽपि च त्वयि स्वामिनि कृष्णेनाऽहं पराजित इति स्वापराधमवोचत् । तत: कपिलस्तं निर्भय॑ निर्वास्य तद्राज्यं तत्सुतं स्थापयमास ।
कृष्णोऽपि जलधिमुत्तीर्य पाण्डवान् ‘यावत् सुस्थितमापृच्छे तावद् गङ्गां गच्छते'त्युक्तवान् । ततस्ते नावमारुह्य द्वाषष्टियोजनपृथु गङ्गामुत्तीर्य मिथोऽवदन्-'अद्य विष्णोर्बलं द्रक्ष्यामि, नौरत्रैव स्थाप्यतां, नावं विना कृष्णः कथं गङ्गामुत्तरिष्यति' । एवं सङ्केतं विधाय ते नदीतटे निलीयाऽस्थुः । इतश्च कृष्णो गङ्गातटं प्राप्तो नावमपश्यन्नेकस्मिन् बाहौ साश्वरथं धृत्वाऽन्येन बाहुना तरन् गङ्गामध्यं प्राप्तः श्रान्तो दध्यौ-'अहो ! पाण्डवा बलवन्तो यद् नावं विना गङ्गां तेरुः' । गङ्गा च तज्ज्ञात्वा स्तब्धा जाता । ततः कृष्णस्तां सुखमुत्तीर्य युष्माभिः कथं गङ्गा लङ्घिते'ति पाण्डवान् पप्रच्छ । ते चाऽस्माभिर्नावोत्तीर्णा गङ्गेत्यूचुः । ततो वालयित्वा नौः
अष्टमं पर्व - दशमः सर्गः
१८९ किं न प्रेषितेति कृष्णेन पुन: पृष्टा 'युष्मबलं परीक्षितुं न प्रेषिते'ति ते प्रोचुः ।
ततः कृष्णः कुपित उवाच-'मबलमब्धितरणेऽमरकङ्काजये चाऽज्ञातमधुना ज्ञास्यथेत्युक्त्वा लोहदण्डेन तेषां रथं मर्दयामास । तेन तत्र लोहमर्दनं नाम पुरमभूत् । पाण्डवांश्च निर्विषयान् कृत्वा शिबिरेण मिलित्वा कृष्णो द्वारकां ययौ । पाण्डवाश्च स्वपुरं गत्वा तद्वृत्तं कुन्तीं कथयामासुः । कुन्ती च द्वारकां गत्वा कुष्णमुवाच'त्वया निर्वासिता मम पुत्राः क्व तिष्ठन्तु' । ततः कृष्ण उवाच'दक्षिणाब्धेस्तटे नवां पाण्डुमथुरापुरीं निवेश्य ते पुत्रास्तिष्ठन्तु' । कुन्त्या तां कृष्णाज्ञां ज्ञात्वा च पाण्डवा अपि तथा चक्रुः । कृष्णश्च हस्तिनापुरे जामे: सुभद्रायाः पौत्रमभिमन्युपुत्र परीक्षितमभिषिषेच।
इतश्च नेमिप्रभुर्विहारक्रमतो भद्दिलपुरं प्राप्तवान् । तत्र च सुलसा-नागयोर्देवकीकुक्षिजा नैगमेषिणा दत्ताः षट् पुत्रा आसन् । ते च प्रत्येकं द्वात्रिंशतं कन्या: परिणीतवन्तः । नेमिप्रभुणा बोधिताश्च व्रतं जगृहुः । ते सर्वे च चरमशरीरिणो द्वादशाङ्गधरा महत्तपस्तपस्यन्त: प्रभुणा सह विहरन्ति स्म ।
अथ भगवान् नेमिर्विहरन् द्वारकामागतः सहस्राम्रवणे समवासार्षीत् । ते षड् देवकीपुत्राश्च षष्ठतपःपारणार्थं पृथग् द्वौ द्वौ द्वारकापुरीं प्राविशन् । तेष्वनीकयशोऽनन्तसेनौ द्वौ स्वगृहमागतौ कृष्णतुल्यौ दृष्ट्वा मुदिता देवकी मोदकैः प्रत्यलाभयत् । तयोर्गतयोश्चाऽन्यौ द्वौ तत्सोदरावजितसेन-निहतशत्रू मुनी समागतौ सा