________________
१८६
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मयेहाऽऽनायिताऽसि, मया सह भोगान् भुक्ष्व, धातकीखण्डद्वीपस्याऽमरकङ्कापुर्यां नृपः पद्मोऽहं तव दयितत्वमिच्छामी'त्युवाच । तदा प्रत्युत्पन्नमतित्वाद् 'यदि मासाभ्यन्तरे कोऽपि नाऽऽगमिष्यति तदा त्वद्वचः करिष्ये' इत्युवाच द्रौपदी । पद्मश्चाऽत्र जम्बूद्वीपनिवासिनां मनुष्याणामागमनमशक्यमिति विचार्य तद्वचः स्वीचकार । द्रौपदी च पत्या वियुक्ता मासं यावद् न भोक्ष्ये इत्यभिग्रह जग्राह ।
इतश्च पाण्डवाः प्रभाते द्रौपदीमपश्यन्तस्तत्र तत्र भृशमन्वेषयामासुः । तन्मातृप्रेषितदूतेन कृष्णोऽपि तज्ज्ञात्वा किङ्कर्त्तव्यताविमूढोऽस्थात् । तदानीमेव च नारदः स्वकृत्यफलं द्रष्टुं तत्राऽऽगत: 'कि द्रौपदी क्वाऽपि दृष्टे'ति कृष्णेन पृष्ट उवाच-'धातकीखण्डेऽमरकङ्कापुरीं गतोऽहं पद्मनृपस्य गृहे द्रौपदीमद्राक्षम्' । एवमुक्त्वा च सोऽन्यत्र जगाम । ततः कृष्णः पाण्डवानुवाच-'पद्मेन द्रौपदी हता, एषोऽहं तामानयिष्यामि, मा शुचः' । ततः पाण्डवैः सह कृष्णो महत्या सेनया परिवृतः पूर्वाब्धेर्मागधाख्ये तटे जगाम । पाण्डवैश्चाऽपारो यादोभि?रोऽद्रिभिर्दुर्गमो वडवानलेन दुष्प्रवेश ऊर्मिभिः प्राणभयङ्करो मेधैर्दुर्दर्शोऽयमब्धिः कथं लङ्घनीय इत्युक्तश्च कृष्णस्तानाश्वास्य सुस्थितं सुरं तपसाऽऽराधयामास । तेन देवेन प्रकटीभूय किं करोमीत्युक्तश्च कृष्ण उवाच-'नृपेण पद्धेन द्रौपदी हता, सा धातकीखण्डद्वीपाद् यथाऽनीयते तथा कुरु' ।
ततो देव उवाच-'पूर्वमित्रेण देवेन हृत्वा द्रौपदी पद्माय समर्पिता, तद्वदहमपि तामानीयाऽर्पयामि । तवेच्छा चेत् सपरिवार पद्म जलधौ क्षिप्त्वा द्रौपदीमर्पयामि' । ततः कृष्ण उवाच-'एवं
अष्टमं पर्व - दशमः सर्गः मा कार्षीः, किन्तु पाण्डवानां ममाऽपि चेति षण्णां रथानां जलान्तर्मागं देहि, यथा स्वयं गत्वा पद्म जित्वा द्रौपदीमानयामि, तेन हि यशोलाभ:' । ततः सुस्थितेन तथा कृते कृष्ण: सपाण्डवोऽब्धिमुल्लध्याऽमरकङ्कां प्राप्य तद्बहिरुद्याने स्थित्वा दारुकमनुशिष्य पद्मसमीपं प्रेषयामास ।
दारुकश्च गत्वा कुन्ताग्रेण लेखमर्पयित्वा पद्ममब्रवीत्-'त्वया कृष्णसहायानां पाण्डवानां प्रिया द्रौपदी जम्बूद्वीपस्य भरताद् हत्वाऽऽनीताऽस्ति । कृष्णोऽपि सपाण्डवोऽम्बुधिना दत्तमार्ग इहाऽऽगतोऽस्ति, तज्जिजीविषा चेत् कृष्णा सद्योऽर्पणीया' । ततः पद्म उवाच- 'स तत्रैव वासुदेवः, ते षड् मामग्रे कियन्तः ? ततो गच्छ, तान् युधि सज्जय' । तत आगतो दारुकश्च कृष्णाय सर्वं वृत्तं शशंस ।
अथ पद्मः सन्ना सेनया सह तत्राऽऽगतवान् । पाण्डवाश्च तेन युध्यमानाः पराजिताः । ततः कृष्णो युद्धाय प्रस्थितः पाञ्चजन्य दध्मौ । तेन च पद्मबलत्रिभागोऽभज्यत । कृष्णास्फालितशाङ्गध्वनिना चाऽपरः पद्मबलत्रिभागोऽत्रुट्यत् । अवशिष्टत्रिभागबलश्च पद्मः पलाय्याऽमरकरां प्रविवेश । गोपुराणि च लोहार्गलैः पिहितानि । कृष्णश्च क्रोधाज्ज्वलन् रथादुत्तीर्य समुद्घातेन नरसिंह वपुः कृत्वा पादाघातजातधराकम्पैः प्राकारादीनि बभज्ज । तत: पद्मो भयाद् द्रौपदीं शरणं गत्वा 'क्षम्यताम्, अस्मात् पाही'त्युवाच। ततो द्रौपद्या 'स्त्रीवेशं कृत्वा कृष्णं शरणं याही'त्युक्तस्तथा कृत्वा पद्मो गत्वा कृष्णं ननाम । कृष्णोऽपि तं मा भैषीरित्युवाच । ततः कृष्णः पाण्डवानां द्रौपदीमर्पयित्वा तैः सह रथारूढस्तेन मार्गेण पश्चाद् वलितवान् ।