________________
दशमः सर्गः
इतश्च पाण्डवाः कृष्णप्रसादात् स्वपुरे स्थिताः प्रमुदिता द्रौपद्या सह भोगान् बुभुजिरे । अन्यदा च नारदो द्रौपद्या गृहमागतस्तयाऽविरतोऽयमित्यवज्ञयाऽसत्कृतः । ततः कोपात् 'कथमेषा दुःखं गच्छेदिति' विचारयंस्ततो निर्गतोऽत्र कृष्णप्रसादात् तस्या अनिष्टमपश्यन् धातकीखण्डभरतं यातः । तत्र चम्पापुरीशस्य कपिलाख्यस्य वासुदेवस्याऽमरकङ्कायां नगर्यां सेवकं स्त्रीलुब्धं पद्ममुपययौ । तेन चोत्थायाऽन्तःपुरे नीत्वा स्वा: स्त्री: प्रदर्श्य 'ईदृश्यः स्त्रियः क्वाऽपि दृष्टाः किमिति पृष्टो नारदः स्वेष्टसिद्धि विचार्योवाच- 'राजन् ! कूपमण्डूकवत् किमाभिर्धन्यंमन्योऽसि ? जम्बूद्वीपस्य भरते हस्तिनापुरे पाण्डवानां महिष्या द्रौपद्याः पुरत एताश्चेट्य इव । एवमुक्त्वा च स मुनिरन्यतो जगाम ।
पद्मश्च द्रौपदीं कामयमानः पातालवासिनं पूर्वमित्रं देवं तपसाऽसाधयत् । प्रसन्नेन तेन वरं ब्रूहीति गदितश्च पद्मो द्रौपदीमानीय समर्पयेत्युवाच । स च 'द्रौपदी पाण्डवान् मुक्त्वा नाऽन्यमिच्छति, किन्तु त्वदाग्रहात् तामानयामी' त्युक्त्वा हस्तिनापुरं जगाम । अवस्वापनीं दत्त्वा निशि सुप्तां द्रौपदीं हृत्वाऽऽनीय पद्माय समर्पयामास । द्रौपदी च प्रबुद्धा निजं स्थानमनवलोकमाना स्वप्न इन्द्रजालं वेति व्यमृशत् । तदा पद्मेन मा भैषीः,