________________
षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः
सबलस्तत्राऽऽगतो गोपुरं प्यधावयत् । ततो बलभद्रो भक्त पाने मुक्त्वा गजस्तम्भमुन्मूल्य क्ष्वेडां विधाय शत्रून् हन्तुं प्रवृत्तवान् । क्ष्वेडामाकर्ण्य कृष्णोऽपि धावितः पार्ष्णिप्रहारेण कपाटौ भङ्क्त्वा पुरं प्राविशत् । तदा परिघेन शत्रुसैन्यं हत्वा वशंगतमच्छदन्तं निर्भत्र्त्स्य तं स्वे राज्ये मुक्त्वा पुराद् बहिर्गत्वोद्याने भुक्त्वा द्वावपि प्रस्थाय कौशाम्बवनं प्रापतुः ।
२०४
तत्र च तृषार्तोऽस्मीति कृष्णेनोक्तो रामस्त्वमत्र सावधानस्तिष्ठेत्युक्त्वा जलार्थं ययौ । कृष्णश्च जानोरुपरि पादं न्यस्य पीतेन वाससा स्वमाच्छाद्य मार्गतरुमूले सुप्तो निद्रां ययौ । तत्र च जरासुतो लम्बकूर्ची व्याधो व्याघ्रचर्मवसनो धनुर्धरो मृगयार्थं तत्राऽऽगतः शयानं कृष्णं मृगबुद्ध्या बाणेन पादतले जघान । कृष्णश्च वेगादुत्थाय 'केनाsनागा अहमनाख्यायैव पादतले विद्ध:, नाऽहमज्ञातज्ञातिनामधेयं हतपूर्वी, तद्भवानपि निजं गोत्रं नाम चाऽऽख्यातुमर्हती'ति जगाद । ततो वृक्षान्तरितो लम्बकूर्चो जरासुतः स्वं गोत्रादिकमगात् । तथा 'नेमिवचः श्रुत्वा कृष्णरक्षार्थमहमिहाऽऽगमं, द्वादशाब्दानीह मम व्यतीतानि, इह कदाऽपि मनुष्यो न दृष्टः, त्वं स्वपरिचयं देही' त्युवाच स जरासुतः ।
ततः कृष्ण उवाच-'भ्रातर् ! एहि, यदर्थे त्वं वनवास्यभूः स ते भ्राता कृष्णोऽहं तव प्रयासो वृथा जात:' । तच्छ्रुत्वा चाऽऽशङ्कित जरासुतस्तत्राऽऽगत्य कृष्णं दृष्ट्वा मूच्छितः कथमपि लब्धसंज्ञः करुणं रुदन् किमिहाऽऽगत इति कृष्णं पप्रच्छ । कृष्णश्च द्वारकादाहादिकं सर्वं वृत्तान्तं कथयामास । ततो विलपन्तं मुहुर्मुहुः स्वं निन्दन्तं च जरासुतं कृष्ण उवाच भवितव्यता दुर्लङ्ख्या, यदुषु त्वमेवैकोऽवशिष्टोऽसि, चिरं जीव इतः सत्वरं याहि, अन्यथा रामो
अष्टमं पर्व एकादशः सर्गः
२०५
मद्बधक्रोधात् त्वां हन्यात् । ममाऽभिज्ञानं कौस्तुभं गृहाण, पाण्डवान् व्रज, सर्वं वृत्तान्तं तेभ्यो निवेदयेः, ते तव सहाया भवन्तु । त्वयेतो विपरीतैः पदैः कश्चिदध्वा गन्तव्यः, यथा पदानुसारी रामस्त्वां न प्राप्नुयात् । मद्वाचा सर्वान् पाण्डवादीन् क्षमयेः' । एवं कृष्णेन पुनः पुन: प्रतिबोधितः स कृष्णपादाच्छरमाकृष्य कौस्तुभमादाय ययौ ।
गते जरासुते च पादव्रणपीडितः कृष्णः प्राञ्जलिरुदङ्मुखो नमस्कारं जपन् तृणनिर्मिते संस्तरे पूर्ववदेव जानोरुपरि पादं न्यस्य वस्त्रेण शरीरमाच्छाद्य दध्यौ - 'प्रभुर्नेमिः प्रद्युम्नादयः कुमारा रुक्मिण्यादयश्च मत्स्त्रियो धन्याः, ये गृहवासं परित्यज्य भवच्छेदकं व्रतं जगृहु:' ।
एवं चिन्तयतश्च तस्य सर्वतोऽङ्गान्यभज्यन्त वायुश्चुकोप, तृषादिपीडितश्च भ्रश्यच्चैतन्यः कृष्णः पुनरचिन्तयत्- 'अहं जन्मत: केनाऽपि न पराभूतः, किन्तु द्वैपायनेन दुर्दशां नीतः । अधुनापि चेत् स प्राप्यते, तदेदृशोऽप्युत्थाय तं नाशयामि, कोऽपि तं रक्षितुं क्षमो न स्यात्' । एवं रौद्रध्यानगतः कृष्णः समाप्तवर्षसहस्त्रजीवितो विपद्य निकाचितैः कर्मभिस्तृतीयं नरकं प्राप । तस्य च कौमारे षोडशाब्दानि, माण्डलिकत्वे षट्पञ्चाशद्वर्षाणि जयेऽष्टौ वर्षाणि, अर्धचक्रित्वे च विंशत्यधिकनवशतानि वर्षाणि व्यतीतानि ॥ ११ ॥
इति अष्टमे पर्वणि द्वारकादाह-कृष्णावसानवर्णनात्मकः एकादशः सर्गः ॥११॥