________________
द्वादशः सर्गः
अथ बलरामः कमलदलपुटे जलमादाय सत्वरं कृष्णसमीपमागतः 'सुप्तोऽसाविति क्षणं तूष्णीं स्थितः तदा स कृष्णा मक्षिका दृष्ट्वा कृष्णमुखाद् वस्त्रमाक्षिप्य बन्धुं मृतं ज्ञात्वा मूच्छितश्छिन्नमूलस्तरुरिव भूमौ पपात । कथञ्चिल्लब्धसंज्ञश्चोत्थाय सर्वप्राणिभयङ्करं सिंहनादं कृत्वोवाच- 'येन सुखसुप्तो ममाऽनुजो हतः स स्वं प्रकटयतु' । को नाम सुप्तप्रमत्तादिषु प्राहरेदित्येवमाक्रोशंश्च वनं भ्रान्त्वा पुनः कृष्णमुपगत्याऽऽलिङ्ग्य 'हा कृष्ण ! क्व मां विहाय गतोऽसीत्येवमादिकं भृशं विललाप । तत्र रुदंश्च तां रात्रिमतिवाह्य प्रभातेऽप्युत्तिष्ठ भ्रातरिति वदन्ननुतिष्ठन्तं तं स्नेहात् स्कन्धे समारोप्य गिरि वनादिषु बभ्राम । एवं स कृष्णशरीरं पुष्पादिभिरर्चयन् षण्मासान् व्यतिचक्राम ।
अथ तस्मिन्नेवं भ्रमति वर्षाकाले समागते देवभूयं गतः सिद्धार्थस्तमवधिना ददर्श । मृतं भ्रातरं मोहाद् वहन्तं बोधयामीति विचार्य विपदि मां बोधयेरिति पुरा रामकृतां प्रार्थनां च स्मृत्वा गिरेरवतरन्तं प्रस्तरमयं रथं विचक्रे सः । स रथश्चोच्चावचाद् गिरिखण्डात् पतित्वा समे भूभागे भग्नः । देवश्च कुटुम्बिवेषस्तं रथं सन्धातुं प्रचक्रमे । ततो रामस्तमुवाच- 'यो रथो विषमादेत्य समे भग्नस्तं किं मौयात् सन्धित्ससि ?"
अष्टमं पर्व द्वादशः सर्गः
२०७
ततो देव उवाच- 'रणसहस्त्रेष्वहतो युद्धं विना मृतो जनो यदि जीवेत् तदाऽयं मे रथः सज्जो भवेत् । एवमुक्त्वा स देव उपले कमलमारोपयितुमारेभे । ततो रामेण 'किमश्मनि नलिनी प्ररोहती'त्युक्तो देव उवाच - 'यदा तवाऽनुजो जीविष्यति तदेमा नलिन्योऽपि प्ररोक्ष्यन्ति' । ततः पुनः किञ्चिदग्रे गत्वा स देवो दग्धं तरुं सिञ्चन् बलेन 'किं दग्धो वृक्षः सिक्तः प्ररोहती 'त्युक्तस्तव स्कन्धस्थितं शवं जीवेच्चेद् दग्धस्तरुरपि प्ररोक्ष्यती' त्युवाच । पुनरपि स देवोऽग्रे गोपालको भूत्वा गोशवस्य मुखे नूतना दूर्वा: प्रक्षेप्तुमारेभे । बलश्च 'मूढ ! मृता गौः कथं दूर्वाश्चरिष्यती' त्युवाच । तदा देवेन यदा तवाऽनुजो जीविष्यति तदेयं गौरपि दूर्वाश्चरिष्यती' त्युवाच ।
ततो रामो दध्यौ - 'किं ममाऽनुजः सत्यं मृतः ? एते सर्वे कुटुम्बिप्रभृतयः पृथक् पृथक्समानार्थमेव वाक्यं वदन्ति' । देवश्च बलस्य तच्चिन्तितं ज्ञात्वा सद्यः सिद्धार्थरूपो भूत्वाऽब्रवीत्- 'तव सारथिरेष सिद्धार्थोऽहं त्वदाज्ञया प्रव्रज्य देवो भूत्वा प्राक् त्वत्प्रार्थनया त्वां बोधयितुमागतोऽस्मि । नेमिप्रभुणा पुरा जरासुतात् कृष्णस्य वधः प्रोक्तः, तत् तथैवाऽभूत् । जराकुमारश्च कृष्णेन निजाभिज्ञानं कौस्तुभं दत्त्वा प्रेषितः पाण्डवपुरमगात्' । ततो राम उवाच-'सिद्धार्थ ! साधु त्वयाऽहं बोधितः, साम्प्रतं शोकसन्तप्तः किं करोमि ?' ततः सिद्धार्थ उवाच- 'तवाऽतः परं प्रव्रज्यैव युज्यते' । ततो बलदेवस्तद्वचः प्रतिपद्य तेन देवेन सह कृष्णशरीराग्निसंस्कारं सिन्धुसङ्गमे चकार ।
अथ नेमिप्रभुरपि प्रविव्रजिषु रामं ज्ञात्वा शीघ्रमेकं विद्याधरमृषिं प्रैषीत् । बलश्च तत्पार्श्वे प्रव्रज्य तुङ्गिकाशिखरे गत्वा तीव्रं तपश्चचार, सिद्धार्थश्च रक्षकोऽस्थात् । अन्यदा च मासपारणके