________________
त्रिषष्टिशलाकापुरुषचरितम् - गद्यात्मकसारोद्धारः
क्वाऽपि पुरे प्रविशन् कयाऽपि सबालयास्त्रिया कूपकण्ठस्थया दृष्टः । रामदर्शनाकृष्टचित्तया च तया घटस्थाने स्वपुत्रकण्ठ एव रज्जुं बद्ध्वा स्वसुतः कूपे प्रक्षेप्तुमारब्धः । बलश्च तद् दृष्ट्वाऽनर्थकृतं स्वरूपं निन्दन् 'अतः परं पुरादिषु न प्रवेक्ष्यामि, किन्तु वन एव काष्ठादिहारिभ्यो भिक्षया पारयिष्यामि । एवं निर्णीय तां स्त्रियं बोधयित्वा वनं गत्वा मासिकादिकं दुस्तपं तपस्तेपे स बलः । तथा तृण-काष्ठादिहारिभिरानीतं दत्तं च प्रासुकं भक्त - पानादि गृहीत्वाऽपारयत् ।
२०८
अथ ते काष्ठादिहारकाः स्वान् राज्ञो 'देवरूपः कोऽपि पुरुषो वने तपश्चरन्नस्ती'त्यूचुः । ते चाऽस्मद्राज्यलिप्सया कोऽपि तपः करोति, मन्त्रं वा साधयती' त्याशङ्क्य गत्वा तं हन्म इति निर्णीय च युगपदेव ते सर्वसैन्येन सह मुने रामस्य समीपमागताः । सदा सन्निहितेन देवेन विकृतान् भयङ्करान् सिंहान् दृष्ट्वा च विस्मितास्ते बलं प्रणम्य यथागतं ययुः । बलश्च तत्प्रभृति नरसिंह इति ख्यातोऽभूत् । तथा वने तपः परायणस्य तस्य धर्मदेशनया वासिता व्याघ्रादयोऽपि प्राणिनः प्रशमं प्राप्ताः । ते च कायोत्सर्गानशनादिकं विदधाना मांसाहाराद् निवृत्ताः शिष्या इव राममुनेः पारिपार्श्वका बभूवुः ।
अथ रामस्य प्राग्भवसम्बन्धी कोऽपि जातिस्मरो हरिणः संविग्नः सदा तस्य सहचरोऽभवत् । स राममुनिमुपास्य वने समायातान् सान्नान् काष्ठादिहारिणोऽन्विष्य रामं निवेदयति स्म । रामश्च तदुपरोधेन ध्यानं पारयित्वा भिक्षायै निर्गच्छति स्म । एकदा च तत्र वने रथकाराः समागता: उत्तमान् बहून् वृक्षांश्चिच्छिदुः । रामश्च हरिणेन तन्निवेदितो ध्यानं पारयित्वा तेषु भोक्तुमुपविष्टेषु
अष्टमं पर्व द्वादशः सर्गः
२०९
मासपारणे भिक्षार्थमाययौ । रथकारश्च रामं प्रेक्ष्य प्रसन्नो 'वनेऽपि कल्पवृक्ष इव कोऽपि मुनिरप्रतिमरूपतेजा अतिथिर्लब्ध' इति स्वं कृतार्थं मन्यमानः प्रणम्याऽशन - पानानि प्रत्यलाभयत् ।
ततो रामो दध्यौ - 'कोऽप्ययं सन्मतिः श्राद्धः, यत् स्वर्गफलं कर्माऽर्जितुं मे भिक्षां दातुमुद्यतोऽस्ति । मया भिक्षायामगृहीतायामेतस्य सद्गतेरेवाऽन्तरायः कृतः स्यादिति भिक्षां गृह्णामि । एवं विचार्य स राममुनिरनिच्छन्नपि दयालुतया ततो भिक्षां जग्राह । तत ऊर्ध्वमुखः साश्रुनेत्रो मृगो मुनिं रथकारं च पश्यन् दध्यौ'निरीहोऽपि प्रभुर्दयालुतया रथकारमन्वग्रहीत्, रथकारश्चाऽयं धन्य येन स्वामी भक्ताद्यैः प्रतिलाभितः, मामनीदृशं मन्दभाग्यं धिक्' । एवं त्रिषु धर्मध्यानपरेषु स्थितेषु वृक्षोऽर्धच्छिन्नो वारितोऽपतत्। तेन च ते त्रयोऽपि विपन्नाः पद्मोत्तरविमाने ब्रह्मलोके देवा अभूवन् ।
***
अथ बलभद्रोऽब्दशतं व्रतं पालयित्वा दिवं गतोऽवधिना तृतीयनरकस्थं कृष्णं दृष्ट्वा वैक्रियशरीरेण भ्रातृस्नेहात् तत्र व कृष्णमालिङ्ग्योवाच-‘अहं तव भ्राता रामो ब्रह्मलोकात् त्वां त्रातुमागतोऽस्मि, वद, किं ते प्रियं करोमि । एवमुक्त्वा रामः कृष्णं पाणिना गृहीत्वोद्दध्रे । स च पाणितः शीर्णो भूत्वा पारदवद् भूमौ पतित्वा मिलितावयवो जातः । तथा कृष्ण आलिङ्गनात् कथनादुद्धरणाच्च राममुपलक्ष्योत्थाय ससम्भ्रमं नमश्चकार । ततो राम उवाच- 'नेमिना दुःखान्तं विषयसुखं यदुक्तं तत् तवाऽधुना प्रत्यक्षम् । त्वां कर्मार्त्तं स्वर्गं नेतुमहं न शक्तः, तत् तव प्रीतये इह तव समीप एव तिष्ठामि ।