________________
२१० amummmmmmmmmmmmmm
२११
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततः कृष्ण उवाच-'भ्रातः ! त्वयाऽत्र स्थितेन किम् ? ममोपार्जितं नारकायुर्भोक्तव्यमेव । यद् नेमिना मम नरकगमनकथनावसरे मित्राणां ग्लानि: शत्रूणां च हर्षोऽभूत् तद् नरकादपि दुःखाय । ततो भरतं गच्छ, तत्र चक्रादिसहितं मां लाङ्गलादिसहितं स्वं च पदे पदे विमानस्थं दर्शयेः, येन राम-कृष्णावनश्वरौ स्वेच्छाविहारिणाविति पूर्वापवादनिरासको लोके प्रघोष: स्यात्' ।
ततो रामस्तत् प्रपद्य भरतं गत्वा तथैव चकार । तथा लोकानूचे-'भवन्त आवयोः प्रतिमा देवता बुद्ध्या पूजयत । आवामेव सृष्टिस्थित्यादिसमर्थौ स्वर्गादायावो यावश्च' । लोकाश्च तद्वाण्या तथैव चक्रुः । स देवश्च प्रतिमापूजकानां महती सम्पदं ददौ, येन निखिलो लोकस्तथा कर्तुं प्रववृते । एवं भ्रातृवचः पालयित्वा स रामसरो विमना ब्रह्मलोकं जगाम ।।
इतश्च जरापुत्रः पाण्डवान् प्राप्य कौस्तुभमर्पयन् द्वारकादाहादिवृत्तान्तमाख्यत् । तज्ज्ञात्वा च ते पाण्डवा वर्षं यावद् रुदन्तः शोकमग्नाः कृष्णस्य प्रेतकार्याणि चक्रुः । नेमिप्रभुश्च तान् प्रविव्रजिषून् ज्ञात्वा मुनिपञ्चशत्या परिवृतं ज्ञानचतुष्टयधरं धर्मघोषमुनि प्राहिणोत् । पाण्डवाश्च जरासुतं राज्ये न्यस्य द्रौपद्यादिभिः सह प्रव्रज्य साभिग्रहं तपश्चक्रुः । द्वादशाङ्गधरास्ते विहरन्तः पाण्डवा उत्कण्ठया नेमिजिनं नन्तुं प्रतस्थिरे ।
अष्टमं पर्व - द्वादशः सर्ग: चत्वारिंशत्सहस्त्राणि, चतुर्दशपूर्वधराणां चतुःशत्यवधिज्ञानिनां पञ्चदशशतानि, वैक्रियलब्धिमतां केवलिनां च तावन्ति, मनःपर्ययिणामेकं सहस्रं, वादलब्धिमतामष्टौशतानि, श्रावकाणां नवषष्टिसहस्रसहितं लक्षमेकं, श्राविकाणां चैकोनचत्वारिंशत्सहस्रसहिता त्रिलक्षी च परिवारा अभवन् । ____ अथेदृशपरिवारपरिवृत्तः सुरासुरादिसेवित: प्रभुनिर्वाणसमयं ज्ञात्वा रैवतकादि प्राप्य देवैविकृते समवसरणे देशनां व्यधात् । तया देशनया च प्रबोधं प्राप्ता जनाः प्रवव्रजुः श्रावकत्वं च प्रपेदिरे । ततः प्रभुः साधूनां षट्त्रिंशदधिकपञ्चशत्या सह मासिकं पादपोपगमनमनशनं प्रपद्य त्वाष्ट्रगे विधौ शैलेशीध्यानमास्थितोऽषाढशुक्लाष्टम्यां तैर्मुनिभिः सह परमं पदं प्राप । प्रद्युम्नाद्याः कुमारा: कृष्णमहिष्यः प्रभोर्बन्धवश्च राजीमतीप्रभृतयोऽन्या अपि च वतिन्य परमं पदं प्रापुः । रथनेमिश्च गेहेऽब्धानां चतुश्शती छाद्मस्थ्ये वर्ष कैवल्ये च पञ्चशत्यायुः । तपोधना राजीमत्यपीदृशायुविभागवती । शिवा-समुद्रविजयौ माहेन्द्रं कल्पं ययुः । अन्ये चाऽपि यदवो देवत्वं प्रापुः ।
नेमिप्रभोश्च कौमारे त्रिवर्षशती छद्मस्थ-केवलयोश्च सप्तवर्षशतीति मिलित्वाऽब्दसहस्रमायुः । श्रीनमिजिननिर्वाणाच्च वर्षाणां पञ्चसु लक्षेष्वतिक्रान्तेषु नेमिजिननिर्वाणमभूत् । शक्राद्या देवाश्च प्रभोः शरीराग्निसंस्कारं यथाविधि विधाय यथायोग्यं प्रभोदष्ट्रादिकं च जगृहुः । शक्रश्च स्वामिशरीराग्निसंस्कारवैडूर्यशिलायां नेमिप्रभोर्लक्षणानि नाम च वज्रेण लिलेख । तथा तत्र नेमिजिनप्रतिमासनाथं चैत्यं च कारयामास । एवं सर्वं विधाय शक्राद्याः स्वं स्वं स्थानं ययुः ।
इतश्च नेमिप्रभुमध्यदेशादौ विहृत्योदीच्यां गजपुरादिषु विजहार। ह्रीमन्तं गिरिं गत्वा म्लेच्छदेशेषु बहून् नृपा-ऽमात्यप्रभृतीनबोधयत् । पुनश्च हीमन्तं गिरिमेत्य किरातदेशेषु विहृत्य दक्षिणापथे विजहार । आकेवलादेवं विहरतः प्रभोः श्रमणानामष्टादशसहस्राणि, साध्वीनां