________________
२१२
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः इतश्च पाण्डवा हस्तकल्पं पुरं प्रापुः । 'इतो द्वादश योजनानि गिरिः, प्रभाते तत्र नेमिजिनं दृष्ट्वा मासिकपारणं करिष्यामः' । एवं मिथो वदन्तस्तत्र पुरे लोकैर्नेमिप्रभोः साधुभिः सह निर्वाणं ज्ञात्वा शोकमग्ना विमलाद्रिं ययौ । तत्राऽनशनं प्रपद्य केवलं प्राप्ताः पाण्डवाः शिवं ययुः । द्रौपदी च ब्रह्मलोकं जगाम ।
द्वाविंशोऽर्हन्नथ च नवम: शार्ङ्गभृत् सीरपाणिस्तद्वैरी चेत्यतुलमहस: कीर्तिताः पर्वणीह । चत्वारोऽपि प्रवचनदिशं सम्यगुद्वीक्ष्य येषामेकैकोऽपि श्रुतिपथगतो विस्मयाय त्रिलोक्याम् ॥ १ ॥
इति अष्टमे पर्वणि बलदेवस्वर्गगमन-नेमिनिर्वाण-पाण्डवनिर्वाणवर्णनात्मको
द्वादशः सर्गः ॥१२॥ इति कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितत्रिषष्टिशलाकापुरुषचरितस्य
तपोगच्छाधिपति-शासनसम्राट-बालब्रह्मचारि-श्रीकदम्बगिरितालध्वज-राणकपुर-कापरडाद्यनेकतीर्थोद्धारकाचार्यवर्य
श्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारसमयज्ञ-शान्तमूर्त्याचार्यवर्यश्रीविजयविज्ञानसूरीश्वरपट्टधरसिद्धान्तमहोदधि-प्राकृतविशारदाचार्यवर्यश्रीविजयकस्तूरसूरीश्वरशिष्यरत्नप्रख्यातव्याख्यातृ-कविरत्न-श्रीविजययशोभद्रसूरीश्वरशिष्यरत्न
___श्रीविजयशुभङ्करसूरीश्वरकृते
गद्यात्मकसारोद्धारे अष्टमपर्वणि समाप्तं श्रीअरिष्टनेमि-कृष्णवासुदेव-बलभद्रजरासन्धप्रतिवासुदेवचरितप्रतिबद्धमष्टमं पर्व ॥८॥
॥ अहम् ॥ ॥ श्रीनेमि-विज्ञान-कस्तूर-यशोभद्रसूरिसद्गुरुवरेभ्यो नमः ॥ त्रिषष्टिशलाकापुरुषचरितम्
गद्यात्मकसारोद्धारः श्रीब्रह्मदत्तचक्रि-पार्श्वनाथचरितप्रतिबद्धं
नवमं पर्व श्रीब्रह्मदत्तचक्रिचरितम्
प्रथमः सर्गः अथ जम्बूद्वीपे भारते साकेतनगरे चन्द्रावतंसनृपस्य मुनिचन्द्रो नाम पुत्रो भारेभ्यो भारवाहीव विषयेभ्यो विरक्तो मुनेः सागरचन्द्रस्य समीपे व्रतं ललौ । स चैकदा प्रव्रज्यां पालयन् गुरुणा सह विहरन् भिक्षार्थं ग्रामं प्रविष्टवान् । यूथभ्रष्टो हरिण इव च सार्थभ्रष्टो वनं पर्यटन् क्षुत-तृट्परीतो ग्लानश्चतुभिर्गोपैर्बान्धवैरिवोपचरितः । स च तेषां प्रतिबोधाय धर्मदेशनां ददौ । ते च चत्वारः प्रबुद्ध: प्रव्रज्य शमसम्पन्ना व्रतं चेरुः । तत्र द्वौ धर्मजुगुप्सां चक्रतुः । तादृशावपि च तावन्यावपि च द्वौ च तपःप्रभावाद् दिवं जग्मुः ।
अथ तौ द्वौ धर्मजुगुप्सको च्युत्वा दशपुरे शाण्डिल्यद्विजस्य जयवत्यां दास्यां युग्मरूपौ सुतौ भूत्वा क्रमाद् यौवनं प्राप्तौ