________________
२१४
त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः पित्रादिष्टौ दासेरकत्वात् क्षेत्रं रक्षितुं जग्मतुः । तयोस्तत्र रात्रौ शयानयोश्चेको वटकोटराद् निःसृत्यैकेन विषधरेणाऽहिना दष्टः । ततोऽन्योऽपि सन्वेिषणाय भ्रमंस्तेनैव सर्पेण दुष्टेन वैरादिवाऽऽशु दष्टः । ततस्तौ चिकित्सामप्राप्य विपन्नौ कलिञ्जरगिरिशिखरे मृगौ भूत्वा वर्धमानौ मृग्या जनन्या सह चरन्तौ व्याधेनैकेन बाणेन हतौ कालधर्म प्राप्तौ । ततो गङ्गायां राजहंस्या युग्मरूपौ सुतौ जाती क्रीडन्तौ जालिकेन जालेन धृत्वा ग्रीवां मोटयित्वा हतौ । ___अथ तौ वाराणस्यां भूतदत्ताख्यस्य महेभ्यस्य मातङ्गपतेः सुतौ चित्र-सम्भूतनामानौ जातौ । तौ च मिथ: स्निग्धौ कदाऽपि वियुक्तौ नाऽभूताम् । तदानीं च वाराणस्यां शङ्खनाम्नो नृपस्य नमुचिर्नाम सचिव आसीत् । एकदा च सोऽक्षम्येऽपराधे जाते नृपेण गुप्तं भूतदत्तस्य वधाय समर्पितः । स च नमुचिमुवाच-'त्वां गुप्तं रक्षामि, यदि त्वं भूमिगृहस्थो मम पुत्रौ पाठ्यसि' । नमुचिश्च तस्य मातङ्गपतेस्तद्वचो जीवितार्थी स्वीचकार । तथा स चित्र-सम्भूतौ विचित्राः कला: शिक्षयामास । मातङ्गपतिपल्याऽनुरक्तया रेमे च । तज्ज्ञात्वा भूतदत्तेन हन्तुमारब्धः स चित्र-सम्भूताभ्यां ज्ञात्वा दूरेण दक्षिणस्यां जीवनपूर्वकमपसारितः । ततो निर्गत्य च नमुचिर्हस्तिनापुर गतश्चक्रिणा सनत्कुमारेण स्वसचिवः कृतः ।। ___ इतश्च चित्र-सम्भूतौ प्राप्तनवयौवनावप्रतिमरूपौ गायन्तौ वादयन्तौ नाट्यन्तौ च स्वगान्धर्वविद्यया लोकानां मनो जहतुः । एकदा च तस्यां नगर्यां मदनोत्सवे जाते सङ्गीतमनोहराणि पौराणां चर्चर्याख्यगायनानि प्रवृत्तानि । तत्र च चित्र-सम्भूतयोरपि चर्चप्रवृत्तायां तदाकृष्टाः पौरा मृगा इव तत्रैव समीयुः । ततः केनाऽपि 'मातङ्गाभ्यामाभ्यां गीतेनाऽऽकृष्य सर्वः पौरजनो निज इव
नवमं पर्व - प्रथमः सर्गः मलिनीकृतः', इति निवेदितो राजा'ऽनयोर्मातङ्गयोः क्वचिदपि प्रवेशो न दातव्य' इति साक्षेपं पुराध्यक्षमादिक्षत् । ततः प्रभृति च तो पुराद् दूरेणैव तस्थतुः ।
पुनश्चैकदा कौमुदीमहोत्सवे प्रवृत्ते तौ नृपाज्ञामुल्लद्ध्याऽजितेन्द्रियौ नगरी प्रविष्टावुत्सवं प्रेक्षमाणौ सर्वाङ्ग वस्त्रेणाऽऽवृत्य दस्युवच्छन्नं छन्नं विचरतुः । तत्र च क्रोष्टुरवेण क्रोष्टेव पौरगीतेन हताशयौ भवितव्यताया अलङ्घनीयत्वात् तारस्वरेण गातुं प्रवृत्तौ । तयोः श्रुतिप्रियं गानमाकर्ण्य तरुणैः पौरैर्मक्षिकाभिर्मधुच्छत्रमिव तौ चित्र-सम्भूतौ परिवारितौ । काविमाविति ज्ञातुं च लोकैर्हतावगुण्ठनौ तौ 'अरे ! इमौ तावेव मातङ्गावि'ति साक्षेपं निर्भत्सितौ । तदा नागरैर्यष्टिभिर्मुष्टिभिर्लेष्टुभिश्च कुट्यमानौ गृहात् कुकुराविव नम्रकन्धरौ पुर्या निर्गतौ पदे पदे ताड्यमानौ कथमपि गम्भीरोद्यानमीयतुः । तत्र द्वावपि दध्यतुः-'नो ज्ञातिदूषणं धिक्, अहिना पय इवाऽऽवयोः कलादिकं ज्ञात्वा दूषितम् । तदनर्थगृहं वपुस्तृणवत् क्वचित् त्याज्यमेव' ।
एवं निश्चित्य मुमूर्षु तौ दक्षिणां दिशं प्रचलितौ दूरं देशं प्राप्तावुत्तुङ्गं गिरिं दृष्ट्वा भृगुपातेच्छया तमारोहन्तौ तत्र गिरौ गुणराशि मुनि दृष्टवन्तौ । तं गिरिशिखरस्थं मुनि दृष्ट्वा च तौ सद्यस्तापविमुक्तावश्रूणि विमुञ्चन्तौ तन्मुनेः पादयोः पेततुः । मुनिना च ध्यानं समाप्य 'कौ युवां, किमीहाऽऽगतावि'ति पृष्टौ च तौ सर्व स्ववृतान्तमाचख्यतुः । ततो मुनिरुवाच-भृगुपातेन शरीरमेव नश्यति, अशुभं हि नैकजन्मार्जितं न क्षीयते । यदि युवयोर्वपुस्त्याज्यमेव तदा जन्मफलं स्वर्गापवर्गसाधनं व्रतमेव गृह्णीतम्' । तस्य मुनेरुक्तदेशनया प्रबुद्धौ तौ तत्रैव दीक्षां गृहीत्वाऽधीयानौ क्रमेण गीतार्थो जाती