Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 113
________________ १९८ पुरुष-गद्यात्मकसारोद्धारः ततः प्रभुं नत्वा द्वारकां प्रविशन् कृष्णो ढण्ढणं भिक्षार्थं गच्छन्तं दृष्ट्वा गजादवरुह्य भक्त्या नमश्चकार । एकः श्रेष्ठी च तद् दृष्ट्वा चिन्तितवान्- 'धन्योऽयं ढण्ढणो यः कृष्णेन वन्दित:' । ढण्ढणश्च भ्रमंस्तस्यैव श्रेष्ठिनो गृहमगात् । स श्रेष्ठी च सबहुमानं मोदकैस्तं प्रत्यलाभयत् । ततो ढण्ढण आगत्य प्रभुमुवाच- 'किं मेऽन्तरायकर्म क्षीणं येन मया भिक्षा प्राप्ता' । ततः प्रभुरुवाच- 'तवाऽन्तरायकर्म न क्षीणं, किन्त्वियं कृष्णस्य लब्धि:, त्वं कृष्णेन वन्दितोऽसीत्यतः श्रेष्ठी त्वां प्रत्यलाभयत् । ततो रागादिरहितो ढण्ढणः परलब्धिरसाविति भिक्षां स्थण्डिले परिष्ठापयितुं प्रारेभे । तदानीं च 'पूर्वार्जितानि जीवानां कर्माणि दुर्निर्जराणी 'ति स्थिरेण मनसा ध्यायतस्तस्य केवलमुत्पन्नम् । ततो ढण्ढणमुनिर्नेमिं प्रदक्षिणीकृत्य देवैः पूजितः केवलिपर्षदि निषसाद । भगवांश्च ग्रामादिषु विहरन् पुनः पुनरेत्य द्वारकायां समवासार्षीत् । *** अथैकदा द्वारकायां समवसृते प्रभौ वृष्टिर्जाता, रथनेमिमुनिश्च भिक्षार्थं भ्रान्त्वा स्वामिनं प्रत्यागच्छन् वृष्ट्या पीडित एकां गुहां प्रविवेश । राजीमती च प्रभुं वन्दित्वा निवृत्ता साध्वीभिः सह वृष्टिभयात् पलायिता तामेव गुहां प्रविष्टा । तत्र च पूर्वं प्रविष्टं रथनेमिमन्धकारवशादपश्यन्ती सा वस्त्राणि शोषयितुं मुक्त्वोर्ध्वं स्थिता । रथनेमिश्च विवस्त्रां तां दृष्ट्वा कामार्त्तोऽवदत्- 'त्वं मया पुराऽपि प्रार्थिता, अधुना सम्भोगावसरोऽस्ति' । ततो राजीमती स्वरेण रथनेमिमुपलक्ष्य झटित्यङ्गानि गोपायित्वोवाच- 'कुलीनानां नेदमुचितं कर्तुम् । त्वं सर्वज्ञस्याऽनुजः १९९ अष्टमं पर्व दशमः सर्गः शिष्यश्चाऽसि, अद्याऽपि तव लोकद्वयविनाशिनी बुद्धिरवतिष्ठते ? अहं सर्वज्ञशिष्या तवेच्छां पूरयितुं नाऽलं, त्वं चाऽनेन कामेन भवसमुद्रे निमङ्क्ष्यसि । तयैवं निर्भत्सितो बोधितश्च रथनेमिः पश्चात्तापं कुर्वन् सर्वां भोगेच्छां त्यक्त्वा तीव्रं व्रतं पालयामास । शुद्धमनाश्च स प्रभोरग्रे तद्दुश्चरितं समालोच्य वत्सरं यावच्छद्मस्थः स्थित्वा केवलं प्राप । अथ नेमिप्रभुर्विहारक्रमतो रैवतकाद्रिं प्राप्य तत्र समवासार्षीत् । ततः कृष्णः पालक- शाम्बादीन् पुत्रानुवाच- 'प्रभा यः प्रभुं प्रथमं वन्दिता तस्येष्टमश्वं दास्यामि'। तच्छ्रुत्वा शाम्बकुमारः प्रातः शय्यात उत्थाय गृहेऽपि तिष्ठन् नेमिप्रभुं भावतो ववन्दे । पालकश्च रात्रावुत्थाय हयेन गत्वाऽभव्यत्वात् प्रभुं हृद्याक्रोशन्नवन्दत । तत: पालकेन दर्पकाश्वं याचितः कृष्णः केनाऽदौ वन्दित इति प्रभुं पप्रच्छ । ततः प्रभुरादौ पालकेन द्रव्यतः शाम्बेन च भावतो वन्दितोऽहमित्युवाच । ततः पुनरपि किमेतदिति कृष्णेन पृष्टः प्रभुः 'पालकोऽभव्यः शाम्बो भव्य' इत्युवाच । ततः क्रुद्धः कृष्णस्तं भावहीनं पालकं निर्वास्य शाम्बं यथेष्टं हयं दत्त्वा महामाण्डलिकं व्यधात् ॥ १० ॥ इति अष्टमे पर्वणि द्रौपदीप्रत्याहरणगजसुकुमालादिचरितवर्णनात्मको दशमः सर्गः ॥१०॥

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159