Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 111
________________ १९४ षष्टिकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततः प्रभुरुवाच- 'धन्वन्तरिः सप्तम्यां नरकभूमावप्रतिष्ठानमावासं गमिष्यति, वैतरणिश्च विन्ध्यवने कपिर्जातस्तारुण्यं प्राप्य यूथपतिर्भविष्यति । तत्र वने चैकदा समागतेषु साधुष्वेकः पादे भग्नशल्यो भविष्यति, स्वं प्रतीक्षमाणानन्यान् मुनींश्च स 'मां मुक्त्वा यूयं यात, अन्यथा सार्थभ्रष्टाः सर्वे मरिष्यथे 'ति वक्ष्यति । ततश्च साधवस्तं छायायामुच्चभूमौ मुक्त्वा गमिष्यन्ति । स कपियूथपतिश्च तत्राऽऽगमिष्यति, वानराश्च तं मुनिं दृष्ट्वा क्लिकिलारावं करिष्यन्ति । ततो रुष्टो यूथपतिर्मुनेरग्रे भूत्वा तं दृष्ट्वा कुत्रेदृग्जनो मया दृष्ट इति ध्यायन् जातिस्मरत्वं प्राप्य तं मुनिं चिकित्सया सज्जं करिष्यति । तथाऽहं पुरा द्वारकायां वैतरणिर्वैद्योऽभूवमित्यक्षराणि मुनेरग्रे लिखिस्यति । ततो मुनिना धर्मं श्रुत्वा त्र्यहमनशनं कृत्वा विपद्य स कपिः सहस्रारं गमिष्यति । तत्र गतश्चाऽवधिना पूर्वभवं ज्ञात्वा तं मुनिं वन्दित्वा कृतज्ञतां निवेदयित्वा स्वसाधुभिर्योजयिष्यति । स साधुश्च तां कपिवार्तां साधूनां कथयिष्यति' । कृष्णश्च तच्छ्रुत्वा जैनधर्मश्रद्धानो नेमिं नत्वा स्वस्थानं ययौ । भगवानपि ततोऽन्यत्र विजहार । अथाऽन्यदा वर्षर्त्तोरादावेव नेमिप्रभुर्द्वारकामागत्य समवासार्षीत् । कृष्णश्च प्रभुं सेवमानो वर्षासु साधवः किमिति न विहरन्तीति पप्रच्छ । ततः प्रभुरुवाच- 'वर्षासु पृथिवी नानाविधैजीवैर्व्याप्ता भवति, तस्माज्जीवाभयप्रदाः साधवो न विहरन्ति' । ततः कृष्णः पुनरुवाच–‘सपरिवारेण मया गतागतं कुर्वता भूयान् जीवक्षयः क्रियते, तदहं वर्षासु गृहाद् बहिर्न निर्गमिष्यामि' । एवमभिगृह्य स कृष्णो निजगृहं जगाम । तथा वर्षतुं यावत् कस्याऽपि मम गृहे प्रवेशो न दातव्य इति द्वारपालानादिशत् । अष्टमं पर्व दशमः सर्गः १९५ तत्र नगरे च वैष्णवो वीरो नाम कुविन्दोऽभूत् स कृष्णस्य दर्शना - ऽर्चनं विना कदाऽपि नाऽभुक्त प्रवेशमलभमानश्च स कृष्णगृहद्वारेऽभुञ्जान एव कृष्णमुद्दिश्य पूजां कुर्वंस्तत्रैव तस्थौ । कृष्णश्च वर्षासु व्यतीतासु गृहाद् निर्ययौ । तं वीरं दृष्ट्वा च किं कृशोऽसीति पप्रच्छ । द्वारपालेन तदवस्थां ज्ञात्वा च दयालुः कृष्णस्तं स्वगृहेऽनिषिद्धप्रवेशं चकार । अथ कृष्णः सपरिच्छदो गत्वा वन्दित्वा यतिधर्मं श्रुत्वा नेमिप्रभुमुवाच- 'दीक्षाग्रहणे नाऽहं समर्थः तथाऽप्यन्यान् दीक्षां ग्राहयितुमनुमोदयितुं च नियमं गृह्णामि, यं कमपि प्रव्रजन्तं न वारयिष्यामि, किन्तु पुत्रस्येव तस्य निष्क्रमणमहोत्सवं करिष्यामि' । एवमभिगृह्य गृहं गतः कृष्णः परिणेयाः स्वकन्या नन्तुमागताः 'स्वामिन्यो दास्यो वा भविष्यथे 'ति पप्रच्छ । स्वामिन्यो भविष्याम इति तासां प्रतिवचः श्रुत्वा च कृष्णो नेमिजिनपार्श्वे दीक्षां गृह्णीष्वेति ता उक्त्वा प्राव्राजयत् । एकदा चैका राज्ञी केतुमञ्जरीं स्वसुतामुवाच - 'पित्रा पृष्टाऽहं दासी भविष्यामीति ब्रूयाः । ततो विवाहयोग्या सा पितुरन्तिके प्रेषिता कृष्णेन पृष्टा मातृशिक्षितमुवाच । तच्छ्रुत्वा च मत्पुत्र्यो भवाटवीमटिष्यन्तीति न साधु, तदियं यथाऽन्याभ्यो न वदति तथाऽस्तु' इति ध्यात्वा वीरं कुविन्दं त्वया किं प्रकृष्टं कृतमिति पप्रच्छ । ततो वीर उवाच - 'मया पुरा बदरीतरुस्थः कृकलासः प्रस्तरेण हत्वा पातितः, स च मृतः, मार्गे प्रधिकृतरेखायां वहज्जलं मया वामपादेनाऽऽक्रम्य धृतं तच्च दूरमपासरत् । वस्त्रपातघटस्याऽन्तः प्रविष्टा रणन्त्यो मक्षिका द्वारे वामहस्तं कृत्वा मया चिरं निरुद्धा:' ।

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159