Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 110
________________ ommmm.९३ १९२ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः कृत्वा पुरीं प्रविश्य सोमं मृतं दृष्ट्वा पादयोर्बद्ध्वा पुरुषैर्नगरे भ्रमयित्वा बहि: प्रक्षेपयामास । ___ अथ तेन शोकेन बहवो यदवो वसुदेवं विना नव दशार्हाश्च नेमिप्रभुसमीपे प्रव्रज्यां जगृहुः । शिवादेवी सप्त सहोदरा: कृष्णकुमाराश्च प्रभोः सन्निधौ प्राव्रजन् । कृष्णश्च कन्यापरिणयनप्रत्याख्यानाभिग्रहमाददे । तस्य सर्वाः कन्याः प्रभोरन्तिके प्रवव्रजुः । कनकवती-रोहिणी-देवकीर्विहाय सर्वा वसुदेवस्य पल्यश्च प्रवव्रजुः । कनकवत्याश्च गृहेऽपि भवस्वरूपं चिन्तयन्त्याः कर्मक्षयात् केवलमुत्पेदे । नेमिप्रभुणाऽऽदिष्टैर्देवैः कृतमहिमा च सा स्वयं प्रव्रज्यामादाय स्वामिनोऽन्तिकं ययौ । नेमिं दृष्ट्वा च वनं गता त्रिंशतं दिनानि कृतानशना सा कनकवती मोक्षं प्राप । रामपौत्रो नैषधिः सागरचन्द्रो विरक्तोऽणुव्रतधरो बहि: श्मशानं जगाम । तदा कायोत्सर्गस्थो नभःसेनेन दृष्टस्स शिरसि धृतचिताङ्गारपूर्णघटक पाल: कृतः । तदुपसर्ग सहमानश्च स सागरः पञ्चपरमेष्ठिनमस्कार स्मरन् विपद्य स्वर्ग प्राप । अष्टमं पर्व - दशमः सर्गः ततः कृष्णः स्वयं धावमानस्तेन युद्धे मां विजित्याऽश्वं गृहाणेत्युक्तो मिलितयुद्धाय प्रेरितश्चोवाच-'त्वयाऽहं जितोऽस्मि, हयं नय, अहं सर्वनाशेऽपि नीचयुद्धेन योर्बु नोत्सहे' । तेन च प्रसन्नः स सुरः शक्रवृत्तान्तमाख्याय वरं वृणीष्वेति कृष्णमुवाच । __तत: कृष्णेन द्वारकायां रोगोपसर्गशान्त्यै किञ्चिद् देहीति याचितश्च स देवो भेरी प्रदायाऽवोचत्-'षण्मास्यन्ते षण्मास्यन्ते इयं भेरी त्वया वादनीया । अस्याः शब्दश्रवणेन च प्राग्भवा उपसर्गा विनक्ष्यन्ति षण्मासीं यावदने नवा न भविष्यन्ति च' । एवमुक्त्वा स देवस्तिरोदधौ । कृष्णेन च वादितायां तस्यां भेयाँ नगरे रोगोपसर्गा विनष्टाः । अथ भेरीख्याति श्रुत्वा दाहज्वरपीडितः कोऽप्याढ्यो देशान्तरादागत्य भेरीपालं भूरिधनेन भेदयित्वा भेरीमादाय वादयित्वा नीरुजोऽभवत् । अनन्तरं च स भेरीपालोऽर्थलोभादन्येभ्योऽपि भेरी ददौ । अन्यदा च नगरे उपसर्गे जाते कृष्णस्तामवादयत् । किन्तु पुनः पुनर्वादनेन जीर्णायास्तस्या ध्वनिः सभाभवनादपि बहिर्न ययौ । ततः प्राग्वृत्तान्तं ज्ञात्वा कृष्णो भेरीपालं हत्वाऽष्टमभक्तेन प्रसादितेन तेन देवेनाऽन्यां भेरीं प्राप्य वादयित्वोपद्रवं शमयामास । अथ कृष्णश्चिकित्सार्थं धन्वन्तरि-वैतरणिवैद्यावप्यादिशत् । तयोर्भव्यो वैतरणिर्यथोचितां चिकित्सां चकार । धन्वन्तरिस्तु पापानुबन्धिनी चिकित्सां कुर्वन् साधुभिर्नेयं चिकित्साऽस्माकं विहिते'ति निषिद्ध उवाच-'साधुयोग्यां चिकित्सां न जानामि, अतो भवद्भिर्मम चिकित्सा न ग्राह्या' । एवं तौ द्वावपि वैद्यौ तत्र चिकित्सामकुरुताम् । ततः कृष्णो नेमिजिनमेतयोर्गतिमपृच्छत् । अन्यदा च शक्र: सभायामुवाच-'कृष्णो दोषान् विहाय गुणमेव कीर्तयति, न च नीचयुद्धेन युध्यते' । तदश्रद्दधानश्च कश्चिद् देवो द्वारकामगात् । तदानीमेव कृष्णः स्वेच्छया रन्तुं रथस्थ: प्रचचाल। तेन देवेन च पथि दुर्गन्धेन पौरान बाधमान: कृष्णाङ्गो मृतः श्वा विकृतः । तं दृष्ट्वा च कृष्णोऽवोचत्-'अस्य कृष्णस्य शुनो मुखे पाण्डुरा दन्ता: शोभन्ते' । ततो देवोऽश्वचोरको भूत्वा कृष्णस्याऽश्वरत्नं जहार । अनुपदमनुधावितानि सैन्यानि बभज च ।

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159