Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 119
________________ २१० amummmmmmmmmmmmmm २११ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः ततः कृष्ण उवाच-'भ्रातः ! त्वयाऽत्र स्थितेन किम् ? ममोपार्जितं नारकायुर्भोक्तव्यमेव । यद् नेमिना मम नरकगमनकथनावसरे मित्राणां ग्लानि: शत्रूणां च हर्षोऽभूत् तद् नरकादपि दुःखाय । ततो भरतं गच्छ, तत्र चक्रादिसहितं मां लाङ्गलादिसहितं स्वं च पदे पदे विमानस्थं दर्शयेः, येन राम-कृष्णावनश्वरौ स्वेच्छाविहारिणाविति पूर्वापवादनिरासको लोके प्रघोष: स्यात्' । ततो रामस्तत् प्रपद्य भरतं गत्वा तथैव चकार । तथा लोकानूचे-'भवन्त आवयोः प्रतिमा देवता बुद्ध्या पूजयत । आवामेव सृष्टिस्थित्यादिसमर्थौ स्वर्गादायावो यावश्च' । लोकाश्च तद्वाण्या तथैव चक्रुः । स देवश्च प्रतिमापूजकानां महती सम्पदं ददौ, येन निखिलो लोकस्तथा कर्तुं प्रववृते । एवं भ्रातृवचः पालयित्वा स रामसरो विमना ब्रह्मलोकं जगाम ।। इतश्च जरापुत्रः पाण्डवान् प्राप्य कौस्तुभमर्पयन् द्वारकादाहादिवृत्तान्तमाख्यत् । तज्ज्ञात्वा च ते पाण्डवा वर्षं यावद् रुदन्तः शोकमग्नाः कृष्णस्य प्रेतकार्याणि चक्रुः । नेमिप्रभुश्च तान् प्रविव्रजिषून् ज्ञात्वा मुनिपञ्चशत्या परिवृतं ज्ञानचतुष्टयधरं धर्मघोषमुनि प्राहिणोत् । पाण्डवाश्च जरासुतं राज्ये न्यस्य द्रौपद्यादिभिः सह प्रव्रज्य साभिग्रहं तपश्चक्रुः । द्वादशाङ्गधरास्ते विहरन्तः पाण्डवा उत्कण्ठया नेमिजिनं नन्तुं प्रतस्थिरे । अष्टमं पर्व - द्वादशः सर्ग: चत्वारिंशत्सहस्त्राणि, चतुर्दशपूर्वधराणां चतुःशत्यवधिज्ञानिनां पञ्चदशशतानि, वैक्रियलब्धिमतां केवलिनां च तावन्ति, मनःपर्ययिणामेकं सहस्रं, वादलब्धिमतामष्टौशतानि, श्रावकाणां नवषष्टिसहस्रसहितं लक्षमेकं, श्राविकाणां चैकोनचत्वारिंशत्सहस्रसहिता त्रिलक्षी च परिवारा अभवन् । ____ अथेदृशपरिवारपरिवृत्तः सुरासुरादिसेवित: प्रभुनिर्वाणसमयं ज्ञात्वा रैवतकादि प्राप्य देवैविकृते समवसरणे देशनां व्यधात् । तया देशनया च प्रबोधं प्राप्ता जनाः प्रवव्रजुः श्रावकत्वं च प्रपेदिरे । ततः प्रभुः साधूनां षट्त्रिंशदधिकपञ्चशत्या सह मासिकं पादपोपगमनमनशनं प्रपद्य त्वाष्ट्रगे विधौ शैलेशीध्यानमास्थितोऽषाढशुक्लाष्टम्यां तैर्मुनिभिः सह परमं पदं प्राप । प्रद्युम्नाद्याः कुमारा: कृष्णमहिष्यः प्रभोर्बन्धवश्च राजीमतीप्रभृतयोऽन्या अपि च वतिन्य परमं पदं प्रापुः । रथनेमिश्च गेहेऽब्धानां चतुश्शती छाद्मस्थ्ये वर्ष कैवल्ये च पञ्चशत्यायुः । तपोधना राजीमत्यपीदृशायुविभागवती । शिवा-समुद्रविजयौ माहेन्द्रं कल्पं ययुः । अन्ये चाऽपि यदवो देवत्वं प्रापुः । नेमिप्रभोश्च कौमारे त्रिवर्षशती छद्मस्थ-केवलयोश्च सप्तवर्षशतीति मिलित्वाऽब्दसहस्रमायुः । श्रीनमिजिननिर्वाणाच्च वर्षाणां पञ्चसु लक्षेष्वतिक्रान्तेषु नेमिजिननिर्वाणमभूत् । शक्राद्या देवाश्च प्रभोः शरीराग्निसंस्कारं यथाविधि विधाय यथायोग्यं प्रभोदष्ट्रादिकं च जगृहुः । शक्रश्च स्वामिशरीराग्निसंस्कारवैडूर्यशिलायां नेमिप्रभोर्लक्षणानि नाम च वज्रेण लिलेख । तथा तत्र नेमिजिनप्रतिमासनाथं चैत्यं च कारयामास । एवं सर्वं विधाय शक्राद्याः स्वं स्वं स्थानं ययुः । इतश्च नेमिप्रभुमध्यदेशादौ विहृत्योदीच्यां गजपुरादिषु विजहार। ह्रीमन्तं गिरिं गत्वा म्लेच्छदेशेषु बहून् नृपा-ऽमात्यप्रभृतीनबोधयत् । पुनश्च हीमन्तं गिरिमेत्य किरातदेशेषु विहृत्य दक्षिणापथे विजहार । आकेवलादेवं विहरतः प्रभोः श्रमणानामष्टादशसहस्राणि, साध्वीनां

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159