Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 122
________________ नवमं पर्व - प्रथमः सर्गः सहजदयालुभ्यां ताभ्यां मुनिभ्यां स नमुचिः सर्पो गरुडादिव राज्ञो मोचितः । वध्योऽपि स मुनिशासनाद् राज्ञा मुक्तो निर्वासितश्च । अथ चक्रिणः स्त्रीरत्नं सुनन्दा चतुष्षष्टिसहस्रैः सपत्नीभिः सह तौ मुनी वन्दितुमागात् । तस्याः पादौ प्रणमन्त्याः केशस्पर्शन सम्भूतमुनिः पुलकितो जातः । ततः सान्तःपुरे नृपे वन्दित्वा गते रागपीडितः सम्भूतमुनिः अस्य दुष्करस्य तपसः फलेन भाविजन्मन्यहं स्त्रीरत्नपतिर्भूयासमिति निदानमकरोत् । चित्रसाधुना च निदानदोषदर्शनादिना बहुधा बोध्यमानोऽपि सम्भूतमुनिविषयासक्तेबलवत्त्वाद् निदानं न जहौ । ततस्तावनशनं निर्वाह्याऽऽयुःक्षये सौधर्मे सुरावभूताम् । २१६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः षष्ठाऽष्टमप्रभृतितपोभिः पूर्वकर्मभिः सहैव शरीरं साधयन्तौ ग्रामादिषु विहरमाणौ हस्तिनापुरं प्रापतुः । तत्र बहिरुद्याने दुश्चरं तपश्चेरतुश्च । अथाऽन्यदा सम्भूतमुनिर्मासक्षपणपारणे पुरे प्रविष्टो मार्गे नमुचिमन्त्रिणा दृष्टः । ततो नमुचिर्दध्यौ-'मातङ्गपुत्र अयं मुनिर्मवृत्तं' ख्यापयिष्यति, तदयं यावद् न मवृतं ख्यापयति तावदेनं निर्वासयामि' । एवं विचिन्त्य स पत्तीन् न्ययोजयत् । तैश्च लकुटैः कुट्यमानः स मुनिस्त्वरितं ततोऽपासरत् । तथाऽपि तैरमुच्यमानश्च शान्तोऽपि स कुपितवान् । ततश्च तन्मुखात् समन्तादूष्मसन्ततिनिरीयाय । ज्वालाजालजटिला तेजोलेश्या प्रादुर्भूता । ततो भीताः पौरा अतिक्रुद्धं तेजोलेश्याधरं तं मुनि प्रसादयितुमाजग्मुः । नृपः सनत्कुमारोऽपि लोकात् तद्वृत्तं ज्ञात्वा तत्र समाययौ । अत्राऽन्तरे चित्रोऽपि तं मुनि सान्त्वयितुं तत्राऽऽगात् । मुनिश्च तेषां सान्त्ववचनैः पयःपूरैर्दावानल इव सद्य एव शमं जगाम । लोकाश्च तं नत्वा वन्दित्वा क्षमयित्वा च न्यवर्त्तन्त । चित्रमुनिश्च तं सम्भूतमुनिमुद्यानमनयत् । ततो भिक्षाटनं व्यसनकारणमिति विचार्य तौ मुनी संलेखनां कृत्वा चतुर्विधाहारप्रत्याख्यानं चक्रतुः । ___ अथेतो राज्ञा साधु क उपद्रुतवानिति जिज्ञासिते मन्त्रिकृत्यमिदमिति ज्ञात्वा ध्यातम्-'योऽर्ध्यानपि नाऽर्चयति, प्रत्युत पीडयति, सोऽवश्यं पापिष्ठ' इति । ततः क्रुद्धः स नृपो दस्युवद् बन्धयित्वा परस्याऽपि शिक्षा यथा स्यादिति बद्धमेव तं नमुचिं पुरमध्येन साधुसमीपमनयत् । तत्र गत्वा च स नृपस्तौ मुनी अवदन्त । मुनी अपि दक्षिणं करमुत्थाप्य मुखवस्त्रिकाच्छादितमुखावाशिषं ददतुः । ततो नृपः सनत्कुमारस्तादृशं नमुचिमदर्शयत् । ततः अथ प्रथमं चित्रजीवश्च्युत्वा पुरिमतालाख्ये पुरे महेभ्यपुत्रोऽभवत् । सम्भूतजीवश्च काम्पील्यपुरे ब्रह्मनृपस्य चुलनीदेव्या भार्यायाः कुक्षाववातरत् । समये पूर्णे च चतुर्दशमहास्वप्नसूचितमहत्त्वः स्वर्णवर्णः सप्तधनून्नतस्तस्याः पुत्रो जज्ञे । ब्रह्मनृपश्च तस्य ब्रह्मदत्त इत्यभिधां चकार । स च ब्रह्मदत्तो दिने दिने चन्द्रकलेव ववृधे । तस्य च ब्रह्मनृपस्य ब्रह्मणश्चत्वारि मुखानीव चत्वारि प्रियमित्राण्यभूवन् । तेष्वेकः काशिभूपतिः कटको, द्वितीयो हस्तिनापुरेशः कणेरुदत्तस्तृतीय: कोशलेशो दीर्घश्चतुर्थश्चम्पेश: पुष्पचूलकश्च । ते पञ्चाऽपि मिलित्वा स्नेहादेकैकस्य गृहे वर्षमधिवसन्ति स्म । एकदा च ब्रह्मनृपनगरे ते चत्वारः समाययुः । तेषां विविधं रममाणानां च कियानपि कालो व्यतिचक्राम । ब्रह्मनृपश्च

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159