Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 109
________________ १९० Manoraman me१९१ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः प्रत्यलाभयत् । तदनन्तरं च देवयश:-शत्रुसेनौ समागतौ नत्वा कृताञ्जलिर्देवक्यपृच्छत्-'भवन्तो दिङ्मोहात् पुनः पुनरिहाऽऽगताः, अथवा यूयं भिन्ना एव, ममैव मतिभ्रमः, अथवा समृद्धेऽप्यस्मिन् पुरे मुनय उचितं भक्तपानादिकं नाऽऽप्नुवन्ति' । ततस्तावूचतुः'नाऽस्माकं दिग्भ्रमः, वयं षट् सोदरा भद्दिलपुरवास्तव्याः सुलसानागयोः सुताः । वयं षडेव नेमेधर्मं श्रुत्वा प्रव्रज्यामग्रहीष्म । त्रीणि युग्मानि भूत्वा च तव गृहमागताः' । __ ततो देवकी दध्यौ-'कथं नामाऽमी षडपि कृष्णस्य तुल्याः ? ममाऽतिमुक्तमुनिना जीवन्तोऽष्टौ पुत्रा उक्ताः, किमेते मम पुत्राः स्युः' । 'एवं विचार्य सा द्वितीये दिने तत् प्रष्टुं नेमिमुपाययौ । प्रभुश्च तद्भावं ज्ञात्वोवाच-'तवाऽमी पुत्रा जीवन्तो नैगमेषिणा सुलसाया दत्ताः' । तत: सा तान् षडपि मुनीन् पश्यन्ती जातस्नेहा वन्दित्वा 'हे पुत्रा: ? साधु दृष्टाः । मम पुत्राणां राज्यं दीक्षा च किन्त्वेकोऽपि पुत्रो मया न लालित इति खिद्ये' । ततः प्रभुरुवाच-'मा खेदमावह, तवैतत् पूवकर्मफलम् । त्वं पूर्वजन्मनि सपत्न्याः सप्त रत्नान्यहार्षीः, रुदत्याश्च तस्या एकं रत्नं दत्तम्' । तच्छ्रुत्वा देवकी पुराकृतं निन्दन्ती स्वगृहं गत्वा पुत्रजन्मेच्छन्ती तस्थौ। ___ अथ कृष्णेन किमेवं खिन्नाऽसीति पृष्टा देवक्युवाच-'मम जीवनं निष्फलं, त्वं हि नन्दगृहे वर्धितः, तवाऽग्रजाश्च नागगृहे पालिताः । मया तु कोकिलयेवैकमप्यपत्यं न लालितं, तत्पुत्रमिच्छामि, यथा सा लालसा मम पूर्येत' । तच्छ्रुत्वा तव प्रयोजनमेषोऽहं साधयामीत्युक्त्वा ततः प्रयाय कृष्णः शक्रसेनापति नैगमेषिणमाराधयामास । देवश्च प्रसन्न स्तव मातुरष्टमः पुत्रो भविष्यति, स च प्रपन्नयौवनः प्रव्रजिष्यतीति वरं ददौ । अष्टमं पर्व - दशमः सर्गः तदनन्तरं च स्वर्गाद् महर्द्धिको देवश्च्युत्वा देवक्याः कुक्षाववातरत् । पूर्णे च समये देवक्याः पुत्रो जातः । देवकी च देवोपमं गजसुकुमालाख्यं तं स्वयमतिप्रेम्णा लालयामास । यौवनं प्राप्तश्च पित्राज्ञया द्रुमनृपपुत्री प्रभावतीं परिणिनाय । तथाऽनिच्छन्नपि मातृ-भ्रात्रोरुपरोधात् स विप्रस्य सोमशर्मणः क्षत्रियाकुक्षिजां सोमाख्यां पुत्री परिणिनाय । तदानीमेव च तत्र समवसृतस्य नेमिप्रभोः स सभार्यो धर्मदेशनां श्रुत्वा जातवैराग्यः पितरौ समनुज्ञाप्य सभार्यो गजसुकुमालो नेमिप्रभुपावें दीक्षामग्रहीत् । तस्मिन् प्रव्रजिते च तद्वियोगासहिष्णवः पितरौ कृष्णादयश्चाऽत्यन्तं रुरुदुः । गजश्च सायं श्मशाने स्वाम्याज्ञया प्रतिमां चकार । तत्र सोमशर्मणा दृष्टश्च 'पाखण्ड्ययं मत्पुत्रीविडम्बनाय परिणीतवानि ति क्रोधाद् गजस्य शिरसि ज्वलिताङ्गारपूर्णघटकपालो निहितः । तेन च दह्यमानोऽप्यविचलित: स कर्माणि क्षपयित्वा केवलमाप्य परं पदं ययौ । प्रातश्च गजसुकुमालं दिदृक्षुः प्रस्थितः कृष्णो द्वारकाया बहिर्मूर्नेष्टिकां वहन्तं देवालयं प्रतिगच्छन्तं विप्रं दृष्ट्वा कृपया स्वयमापाकादिष्टिकां निनाय । तमनुसृत्य चाऽन्येऽपि लोकास्तथा चक्रुः । एवं तं विप्रं कृतार्थं कृत्वा नेमिं प्राप्य कृष्णस्तत्र गजमदृष्ट्वा क्व मे भ्रातेति पप्रच्छ । प्रभुश्च सोमद्विजाद् गजस्य मोक्षमाख्यात् । तच्छ्रुत्वा मूच्छी प्राप्य लब्धसंज्ञः सोमशर्मणे कुपित: 'स ते भ्रातुर्मोक्षप्राप्तौ सहायो न कोपयोग्य' इति प्रबोधितो नेमिना । 'यः स्वमुद्बद्धं व्रजन् त्वां पुरि प्रविशन्तं वीक्ष्य भिन्नमूर्धा म्रियेत स ते भ्रातृहन्ते'ति नेमिप्रभुणाऽऽख्यातो हरिः । ततः स रुदन् भ्रातुः संस्कारादिकं

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159