Book Title: Trishashti Shalaka Purush Charitrasya Gadyatmaka Saroddhar Part 05
Author(s): Shubhankarsuri, Dharmkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 107
________________ १८६ त्रिषष्टिशलाकापुरुषचरितम्-गद्यात्मकसारोद्धारः मयेहाऽऽनायिताऽसि, मया सह भोगान् भुक्ष्व, धातकीखण्डद्वीपस्याऽमरकङ्कापुर्यां नृपः पद्मोऽहं तव दयितत्वमिच्छामी'त्युवाच । तदा प्रत्युत्पन्नमतित्वाद् 'यदि मासाभ्यन्तरे कोऽपि नाऽऽगमिष्यति तदा त्वद्वचः करिष्ये' इत्युवाच द्रौपदी । पद्मश्चाऽत्र जम्बूद्वीपनिवासिनां मनुष्याणामागमनमशक्यमिति विचार्य तद्वचः स्वीचकार । द्रौपदी च पत्या वियुक्ता मासं यावद् न भोक्ष्ये इत्यभिग्रह जग्राह । इतश्च पाण्डवाः प्रभाते द्रौपदीमपश्यन्तस्तत्र तत्र भृशमन्वेषयामासुः । तन्मातृप्रेषितदूतेन कृष्णोऽपि तज्ज्ञात्वा किङ्कर्त्तव्यताविमूढोऽस्थात् । तदानीमेव च नारदः स्वकृत्यफलं द्रष्टुं तत्राऽऽगत: 'कि द्रौपदी क्वाऽपि दृष्टे'ति कृष्णेन पृष्ट उवाच-'धातकीखण्डेऽमरकङ्कापुरीं गतोऽहं पद्मनृपस्य गृहे द्रौपदीमद्राक्षम्' । एवमुक्त्वा च सोऽन्यत्र जगाम । ततः कृष्णः पाण्डवानुवाच-'पद्मेन द्रौपदी हता, एषोऽहं तामानयिष्यामि, मा शुचः' । ततः पाण्डवैः सह कृष्णो महत्या सेनया परिवृतः पूर्वाब्धेर्मागधाख्ये तटे जगाम । पाण्डवैश्चाऽपारो यादोभि?रोऽद्रिभिर्दुर्गमो वडवानलेन दुष्प्रवेश ऊर्मिभिः प्राणभयङ्करो मेधैर्दुर्दर्शोऽयमब्धिः कथं लङ्घनीय इत्युक्तश्च कृष्णस्तानाश्वास्य सुस्थितं सुरं तपसाऽऽराधयामास । तेन देवेन प्रकटीभूय किं करोमीत्युक्तश्च कृष्ण उवाच-'नृपेण पद्धेन द्रौपदी हता, सा धातकीखण्डद्वीपाद् यथाऽनीयते तथा कुरु' । ततो देव उवाच-'पूर्वमित्रेण देवेन हृत्वा द्रौपदी पद्माय समर्पिता, तद्वदहमपि तामानीयाऽर्पयामि । तवेच्छा चेत् सपरिवार पद्म जलधौ क्षिप्त्वा द्रौपदीमर्पयामि' । ततः कृष्ण उवाच-'एवं अष्टमं पर्व - दशमः सर्गः मा कार्षीः, किन्तु पाण्डवानां ममाऽपि चेति षण्णां रथानां जलान्तर्मागं देहि, यथा स्वयं गत्वा पद्म जित्वा द्रौपदीमानयामि, तेन हि यशोलाभ:' । ततः सुस्थितेन तथा कृते कृष्ण: सपाण्डवोऽब्धिमुल्लध्याऽमरकङ्कां प्राप्य तद्बहिरुद्याने स्थित्वा दारुकमनुशिष्य पद्मसमीपं प्रेषयामास । दारुकश्च गत्वा कुन्ताग्रेण लेखमर्पयित्वा पद्ममब्रवीत्-'त्वया कृष्णसहायानां पाण्डवानां प्रिया द्रौपदी जम्बूद्वीपस्य भरताद् हत्वाऽऽनीताऽस्ति । कृष्णोऽपि सपाण्डवोऽम्बुधिना दत्तमार्ग इहाऽऽगतोऽस्ति, तज्जिजीविषा चेत् कृष्णा सद्योऽर्पणीया' । ततः पद्म उवाच- 'स तत्रैव वासुदेवः, ते षड् मामग्रे कियन्तः ? ततो गच्छ, तान् युधि सज्जय' । तत आगतो दारुकश्च कृष्णाय सर्वं वृत्तं शशंस । अथ पद्मः सन्ना सेनया सह तत्राऽऽगतवान् । पाण्डवाश्च तेन युध्यमानाः पराजिताः । ततः कृष्णो युद्धाय प्रस्थितः पाञ्चजन्य दध्मौ । तेन च पद्मबलत्रिभागोऽभज्यत । कृष्णास्फालितशाङ्गध्वनिना चाऽपरः पद्मबलत्रिभागोऽत्रुट्यत् । अवशिष्टत्रिभागबलश्च पद्मः पलाय्याऽमरकरां प्रविवेश । गोपुराणि च लोहार्गलैः पिहितानि । कृष्णश्च क्रोधाज्ज्वलन् रथादुत्तीर्य समुद्घातेन नरसिंह वपुः कृत्वा पादाघातजातधराकम्पैः प्राकारादीनि बभज्ज । तत: पद्मो भयाद् द्रौपदीं शरणं गत्वा 'क्षम्यताम्, अस्मात् पाही'त्युवाच। ततो द्रौपद्या 'स्त्रीवेशं कृत्वा कृष्णं शरणं याही'त्युक्तस्तथा कृत्वा पद्मो गत्वा कृष्णं ननाम । कृष्णोऽपि तं मा भैषीरित्युवाच । ततः कृष्णः पाण्डवानां द्रौपदीमर्पयित्वा तैः सह रथारूढस्तेन मार्गेण पश्चाद् वलितवान् ।

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159